SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ साधुवेषेणैव स साधुरिति कथ्यते, तद् रूपसत्यम् । अपेक्षासत्यम् - एकमेव वस्तु अन्यवस्तुनोऽपेक्षया लघुकमस्ति तथैव गुरुकमप्यस्ति, तदपेक्षासत्यम् । यथा अनामिका अङ्गुली मध्यमाऽपेक्षया लघ्वी तथा च कनिष्ठाऽपेक्षया बृहत्यस्ति, तदपेक्षासत्यम् । व्यवहारसत्यम् - व्यवहारे यत् सत्यरूपेणोच्यते तद् व्यवहार सत्यम् । यथा घटे भृतं जलं क्षरति तदा घटः क्षरतीति शब्दप्रयोगो लोके भवति, तद् व्यवहार सत्यम् । भावसत्यम् - वर्णादिभावमाश्रित्य यः प्रयोगः क्रियते तद् भावसत्यम् । यथा व्याघ्रः पीतवर्णवान् । अत्र व्याघ्रो न संपूर्णतया पीतवर्णवान्, किन्तु कस्मिँश्चिद् देहभागेऽन्येऽपि वर्णाः सन्ति; तथाऽपि भावप्रधानतया स पीतवर्णवानिति व्यवह्रियते तद् भावसत्यम् । योगसत्यम् - केषाञ्चित् पदार्थानां संबन्धेन जायमानो व्यवहारो योगसत्यम् । यथा दण्डयोगेन दण्डी कथ्यते, छत्रयोगेन छत्रवान् कथ्यते तद् योगसत्यम्।। १०. उपमासत्यम् - उपमया यत् सत्यं तदुपमासत्यम् । यथा कञ्चित्तडागं दृष्ट्वा अहो ! अयं तडागस्तु समुद्रेण तुल्योऽस्ति । एवं कस्याऽपि पुरुषस्यापूर्वं शौर्यं दृष्टवा, अहो ! अयं सिंहोऽस्तीति व्यवहारः, तदुपमासत्यम् । अयमधिकारोऽनुयोगद्वारे वर्णितः । भगवतः शासनस्य विशालता ज्ञानवैभवश्चैतेन ज्ञायते । एतत्तु सत्यमेव यत् , अस्य शासनस्य प्राप्तिः परमपुरूषाणामेव भवतीति न शङ्कनीयः । १०७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy