SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ २ दशधा सत्यम् । मुनिभव्य श्रमणविजयः। सदिति प्राणी वा मुनिर्वा, तेषां हितकृदिति सत्यस्य व्याख्या शास्त्रे कृता । तत् सत्यं दशधा शास्त्रे वर्णितम्। १. जनपदसत्यम् - तस्मिन् देशे तस्मिन् विषयेऽर्थस्य प्रतिपादकं वचनं जनपदसत्यम् । यथा कोकणदेशे जलं पिच्चसंज्ञेनोपलक्ष्यते तज्जनपदसत्यम् । सम्मतसत्यम्। कुमुदान्यपि पङ्के जायन्ते तथाऽपि पङ्कजत्वेन न व्यवहियते, किन्तु मूलसंज्ञयाऽरविन्दत्वेनैव आबालगोपालकैरविन्दमेव पङ्कजत्वेन कथ्यते, तस्मात् पङ्कजशब्दः कुमुदे नोपयोज्यः । यदि सः कुमुदार्थे उपयोज्यते तर्हि तदसत्यं भवति । अतः पङ्कजशब्दः तत्राऽयोग्यः इति सम्मतसत्यम् । ३. स्थापनासत्यम्। पाषाणनिर्मिता तीर्थकरादिप्रतिमा साक्षात् तीर्थकरत्वबुद्धया यदुपलक्ष्यते पूज्यते च तत् स्थापनासत्यम् । नामसत्यम् । नामानुरूपाणां गुणानामभावे सत्यपि तन्नाम्नैव यो व्यवहारः क्रियते तन्नामसत्यम् । यथा-कुलवर्धनमिति कस्यचिन्नामाऽस्तु । यद्यपि स न कुलवृद्धि करोति तथाऽपि स तेन नाम्नैवाऽऽहूयते तन्नामसत्यम् । रूपसत्यम् - कश्चिद् गुणरहितः स्यात् तथाऽप्याकारमात्रेणोपलक्ष्यते तद् रूपसत्यम् । यथा साध्वाचारेण भ्रष्टः कोऽपि कुसाधुः व्रतप्रत्याख्यानादिकं न करोति तथापि १०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy