SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ - Jumpti जीवानास्या सिद्धान्ता: मुनिधर्मकीर्तिविजयः। जीवनं यथार्थं जीवितुं जीवनं सफलीकर्तुं च केचन्नियमाः सन्ति । ये नियमा न केष्वपि शास्त्रेषु नियमस्वरूपेण विद्यन्ते । तथाऽपि सुज्ञाः सुविवेकिजनाश्च जीवाः तान् नियमानात्मनः सहज स्वभावरूपेण जीवनस्य महत्तमकार्यरूपेण स्वीकुर्वन्ति । १ स्वयं स्वेच्छया कार्यं न कुर्यात्, अपि तु मान्यैः जनैः कथितं वचनमनुसृत्य प्रशान्तचित्तेनाऽवधार्य च, तत्कथनगततथ्य-हितकरपदार्थः उररीकर्तव्यः, न तत्र लज्जाऽनुभवनीया। यदि सामान्यजनैः विरोधिजनैरपि वा भाषितं वचनं शोभनं हितकरं च भूयेत तदा तद्वचनमवश्यमेव प्रतिपत्तव्यम् । ‘हितकारि-सत्यकथनं येन प्ररूपित, तं प्रति कदापि क्रोधं न कुर्यात् । मम को हितकारी कश्चाहितकारीति स्वबुद्धयैव निर्णेतव्यम् । ये सदा सर्वेषां प्रशंसामेव कुर्वन्ति, तादृशजनेभ्यः सर्वदा सावधानेन स्थातव्यम् । "क्रोधाविष्टस्वभावात् आग्रहबद्धस्वभावात् अहङकारिस्वभावाच्च आत्मनो हितकारकाः उपकारिजनाश्च दूरीभवन्ति, उन्मानसाः भवन्ति" इति विचार्य सदा जागृतिपूर्वकं सर्वैः सह व्यवहारः कर्तव्यः । स्वजीवने महत्तायां प्रतिष्ठायां च लिप्सवो जीवाः एतान् नियमान् अमूल्यान् सुवर्णहारनिभान् मन्यन्ताम् । (अनूदितम्) m03 १०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy