SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धरित्र्यास्तलमध्ये यत् किमपि अस्ति तत् सर्वं अत्यन्तं संवेदनशीलमस्ति, अतो नैतत् शक्यं यद् एकस्य वस्तुनः घटनाया वा द्वितीयस्मिन् वस्तुनि घटनायां वा प्रभावो न दृश्येत ।। न केवलं जडा भौतिक्यो वा घटना एव ब्रह्माण्डं प्रभावयति किन्तु ताः समस्ता अपि घटनाः ब्रह्माण्डं प्रभावयति या जीवधारिभिः पशुभिर्मानवैर्वा सम्बद्धाः ।। ततश्च कथमिदं सम्भवि यत्-विश्वस्मिन् विश्वे यदा कोटिशो जीवान् प्रकृतिप्रदत्तजीवनाद् वञ्चयित्वा निर्दयतया अकालमरणं प्रापयत्सु अस्मासु ब्रह्माण्डे काऽपि प्रतिक्रिया न भवेत् ? युद्धेषु वधशालासु च जनिताभिरन्यादृशीभिश्च हिंसाभिः नूनं जगतो लये विघ्ना उपतिष्ठन्ति । एतत् तु अन्यत् यत् वयं तान् विघ्नान् अनुभवितुं असमर्थास्तादृशसाधनहीनाश्च । ब्रह्माण्डं तु कणशः कणशः सूक्ष्मैः संवेदनैः सर्वदा अनुप्राणितमस्ति । अतस्तत् पीडातरङ्गैः सर्वथा प्रभावितं भवत्येव । नाऽस्त्यत्र काऽपि संशीतिः । ऐस्वीये १९८९ तमे संवति कृतेन सर्वेक्षणेन ज्ञातं यत् भारते प्रतिवर्ष १५ कोटिमिताः पशवः मांसार्थं मार्यन्ते (प्रतिदिनं ४, १०, ९८६ पशवः) । अद्यत्वे तु प्रायस्ततो द्विगुणितां हिंसां कर्तुं निर्णीतमस्ति शासनेन (प्रतिदिनं ९, ८६, ३६६ पशवः) । किमिदं शक्यं यत्यदा इयन्तः पशवः केवलं मांसार्थं मार्यन्ते तदा तज्जनितैः पीडातरङ्गैरस्य देशस्य विश्वस्य वा भूमिरप्रभाविता वर्तेत? एतदपि नाऽऽवश्यकं यत् यत्रैव हिंसा युद्धं वा सम्भूतं तत्रैव पीडातरङ्गाणां प्रभावो दृश्येत । [जबलपुरे घटितस्य भूकम्पस्य कारणतया इरानदेशे घटितो भूकम्पोऽनुमितोऽस्ति अध्येतृभिः (२२ मई - १९९७)] । प्रकृतेः स्वाभाविके लये वधशालाः युद्धानि हिंसाश्च मनुष्यकृताः अन्तरायाः । एतैरन्तरायैरस्माकं वर्तमानं तु अभिशप्तमेव अनागता सन्ततिरपि अस्य कालिम्ना कलुषिता भविष्यति । __उत्तरकाश्यां (१९३१) लातूरे (१९९३) जबलपुरे (१९९७) तथा गूजराते (२००१) घटितानां भूकम्पानां कारणजातं प्रति जनजागरणं जनसावधापनं चैवाऽस्य लेखस्य प्रयोजनम् । येन जनाः स्वयमेव जगतः स्थितं प्रसमीक्ष्य अहिंसामूलकमानवीयसंवेदनशीलतया प्रफुल्लितां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy