SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रेरका भवेयुः तदैव वास्तविकी उन्नतिः सिद्ध्यति । ___ नास्ति किञ्चिदपि मूल्यं भौतिकोन्नतेः अस्मिन् त्यागप्रधाने जीवने । बहुश एवं भवति यत् कुत्र विचाराः क्व च जीवनम्? समत्वमेव तत्र विधातुं न शक्यते। विचाराणां आचाररूपेण परिवर्तनस्य पूर्वमेव काचित् परिस्थिति: मनोऽधीनयति । पश्चाच्च तत्परिस्थितेः विचाराणां च मध्ये सङ्घर्षः समुत्पद्यते । कस्तत्र जयति ? तत्तु प्रतीतमेवाऽस्माकं सर्वेषां अनुभवेन । विचाराणां आचारे परिवर्तनं त्वत्यन्तं सङ्घर्षपूर्णा घटना । यश्च तत्कर्तुं प्रभवति स एवाऽस्य साधनाजीवनस्य वास्तविकं लाभं प्राप्नोति । स एव च महान् भवति । यश्च पुनः जीयते तत्र सङ्घर्षे तदर्थं तु जीवनस्य पुनरावर्तनमेवाऽवशिष्यते, यच्च वयं कुर्महे एव। __ भृशं रुचिकारिणी भवति वैचारिकी सृष्टिः । तत्र विहरणमपि अस्माकं सर्वेषामर्थे प्रीतिपदं भवति । किन्तु सावधानेन तत्र स्थातव्यम्, यतः सा यावती रुचिकारिणी भवति तावती भ्रमकारिण्यपि भवत्येव । कदा साऽस्माकं आत्मश्लाघायाः, कीर्तेरभिलाषस्य, दम्भस्य, अहङ्कारस्य वा गर्तायां पातयेत् इति तु न निश्चितम् । प्रथममेव उक्तं यत् ज्ञानं चिन्तने विचारेषु च प्रेरयति । पश्चाच्च तस्य द्वे एव गती भवतः- एकाऽभिव्यक्तिः - उच्चारणम्, अपरा चाऽनुभूतिः - आचरणम्, इति । ज्ञानेन विचारक्षेत्रे प्रकाशितं सत्यं यावन्न आचारत्वेन प्रवर्तते न तावत् तत् सम्पूर्णमपि भवति सम्पूर्णं च फलमपि न तद्ददाति । ज्ञानेन चित्ते प्रकाशितस्य सत्यस्य आचारे परिणमनमेव साधुजीवनं खलु । ___ अभिव्यक्तिः भौतिकताऽस्ति, अनुभूतिस्तु पुनरध्यात्मम् । भौतिकताया मोह : अध्यात्मपथात् च्यावयति । पश्चादुच्चारणे एव प्रवर्तनं भवति नाऽऽचरणे । साधुजीवनं नाम साधनाजीवनम् । तत्तु कर्तव्यप्रधानं जीवनं न तु वक्तव्यप्रधानम् । साधना कदापि वाचाला न भवति । तत्तु दूषणं साधनाजीवस्य । साधना यदा कदाचिदपि यदि वाचाला भवेत् तदा ततः आध्यात्मिकताया हासो भवति, गते काले च सा साधना केवलं श्रमरूपा अज्ञानकष्टरूपा वा एव संतिष्ठते ; यस्याः फलश्रुतिस्तु स्वल्पाया भौतिकप्राप्त्या अधिकी न काऽपि विद्यते । अत्र न कोऽपि निषेधः कृतोऽभिव्यक्तेः किन्तु सा अनुभूतिगर्भा यदि स्यात् तदैव ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy