SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ जाविदिया न हायंति ताव धम्मं समायरे ।। इत्यादि । एवं तावत् प्रवर्तमाने जिनाधीशप्रवचने साञ्जलिपुटं सबहुमानं च शृण्वतीषु पर्षत्सु कुतश्चिदेकः शटितकरचरणाङ्गलिः कुत्थितनासिकौष्ठपुटो विकृतमुखलावण्यः सर्वाङ्गैर्गलत्कुष्ठः कुष्ठिकः समागतः । स तु सर्वा अपि पर्षदः समुल्लङ्घ्य भगवत्सन्निधावुपविष्टः स्वशरीरनिःसृतपूत्या च भगवतां चरणयोर्विलेपनं कर्तुमारेभे । अनेन जुगुप्साप्रेरकप्रसङ्गेन सर्वेऽपि स्तब्धा इवाऽऽकुलीभूतचित्तवृत्तयस्तमेव निनिमेषदृष्ट्याऽवलोकितवन्तः । श्रेणिकराजोऽपि रोषाविष्टमानसश्चिन्तयामास - 'अहो ! क एष दुराचारो गलत्कुष्ठकुत्थिततनुनिःसृष्टेन पूतिगन्धेन सर्वा अपि पर्षदो व्यथयन् भुवनैकबान्धवानां तीर्थकराणां एवमाशातनां विराधनां च कुरुते? अथवा करोतु किमपि तावत्, उत्थितायां पुन: धर्मदेशनायां मयाऽवश्यं निग्रहीतव्योऽयमिति ।' । अथैवंविधैर्विकल्पशतैः समाकुलमानसो यावत् तिष्ठति तावत् तेन सहसा क्षुतम् । तस्य क्षुतं श्रुत्वा कुष्ठिनोच्चैर्भणितं - 'भोः श्रेणिक ! त्वं चिराय जीव' इति । मुहूर्तान्तरं तु श्रेणिकस्य पुत्रेण महामात्यभूतेनाऽभयकुमारेण क्षुतम् । इदानीमपि कुष्ठिना भणितं - 'अभयकुमार ! त्वं जीव वा म्रियस्व वा' इति । - अथ क्षणान्तरेण तत्र स्थितेन कालसौकरिकनामसौनिकेन क्षुतम् । कुष्ठिना पुनर्भणितं - 'भोः कालसौकरिक ! त्वं मा जीव मा म्रियस्व' । समतिक्रान्तेषु च कतिचित् क्षणेषु जगद्गुरुभिरपि क्षुतम् । अनेन पुनरेकदोच्चैः कथितं 'भगवन्तः ! मियध्वम्' इति । एतच्छ्रुत्वाऽत्यन्तं जिननाथचरणभक्ततया विजृम्भितप्रबलकोपानलेन राज्ञा निजाङ्गरक्षा समादिष्टाः – 'अरे ! एनं दुराचारं प्रभुप्रत्यनीकं समाप्तायां धर्मदेशनायां निगडबन्धं बद्धवा मदन्तिके आनयथ येन दर्शयामि तस्य दुर्विनयफलमिति ।' अङ्गरक्षैस्तदङ्गीकृतम्। अथ समाप्तायां प्रहरमितायां देशनायां स्वस्थानं प्रतिष्ठत्सु च सुरनरतिर्यक्समुदायेषु सोऽपि कुष्ठी जगतो गुरून् परमादरेण प्रणम्य गन्तुकामः प्रस्थितः । ते च राजपुरुषा नृपादेशमनुसरन्तस्तं ग्रहीतुमुधुक्ता बभूवुः । यावत् ते तत्समीपं प्राप्तास्तावत् ‘एष स कुष्ठी गच्छती'ति वदतामेव ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy