________________
तेषां मरुदेशे मरीचिकाजलमिवाऽदृश्यतां गतः सः । एतेन विलक्षीभूतमानसास्ते राजानमागत्येदं निवेदयाञ्चक्रुः । राजाऽपि श्रुत्वेदमतीव विस्मितः। __अथद्वितीयदिवसे परमकौतूहलान्वितेन राज्ञा प्रस्तावे पृष्टाः परमात्मानः 'भगवन्तः ! ह्यो यौष्माकीणचरणाग्रे निषण्णोऽविभावनीयस्वरूपः कुष्ठविकृतकायः पुरुषः क आसीत् ? भगवत्पादानाशातयन्तं तं दृष्ट्वाऽहं कोपानलज्वालाभिर्दग्ध एव' इति । __ भगवद्भिरुक्तम् - 'राजन् ! स तु देव आसीत् । साम्प्रतमेव स दर्दुराङ्कनामधेये देवविमाने समुत्पन्नः ।'
पुना राज्ञा पृष्टम् – 'कथङ्कारं स देवो बभूव ?'
भगवद्भिरभिहितम् – 'शृणु तावत् । अस्ति कौशाम्बी नाम नगरी वत्सविषये । तत्र च शतानीको राजा प्रजाः पालयति । अथ तत्रैव नगरे सेडुकनामा द्विजोऽवात्सीत् । स च जन्मप्राप्त्यनन्तरमेव रौद्रदौर्गत्योपद्रवविद्रुतः कथं कथमपि कणवृत्त्या समयाकरोति । यौवने स खरमुखीनाम्न्या ब्राह्मण्या परिणायितः पितृभ्याम् । अथाऽन्यदा चाऽऽपन्नसत्त्वया तद्भार्यया भणितः सः - 'भोः स्वामिन् ! आसन्नः प्रसूतिकालः, गृहे च घृत-तण्डुलादीनि आवश्यकवस्तूनि न सन्ति । त्वं च सर्वथा विगतचिन्तो दृश्यसे । कमप्युद्यमं कृत्वाऽऽनय किञ्चित्' इति ।
तेनोक्तम् – 'भद्रे ! प्रतिदिनं भिक्षाभ्रमणेन प्रणष्टा मे बुद्धिः । किमत्र कर्तव्यमिति नैव जानेऽहम् । त्वमेव कथय मां यत् कोऽत्राऽवसरे द्रव्यार्जनस्योपायः ?'
तया भणितम् - 'त्वं राजकुले गत्वा सर्वादरेण नृपति सेवस्व । तद् विनाऽस्माकं दारिद्यग्रहो नैवाऽपनेष्यति ।'
श्रुत्वेदं सोऽपि तद्वचनानुवर्तितया प्रतिदिनं पुष्पप्रकरहस्तः पार्थिवं भजति । अथैकदा दैवानुकूल्येन तद्विनयेन तुष्टो राजा कथितवान् – 'भो विप्र ! प्रसन्नोऽस्मि त्वयि, मार्गयस्व यथेच्छम्' इति ।
"ब्राह्मणीनिर्दिष्टोपायेनैवाऽद्य मे भाग्योदयोऽभूद् ; अतस्तामेव पृष्ट्वा मार्गयिष्ये' इति विचिन्त्य तेन निवेदितो राजा - 'देव ! भार्यामापृच्छ्यऽऽगच्छामि यद्यनुमन्येथाः ।' राज्ञाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org