SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ राजमार्गे उपस्थितोऽभूत् । संयोगेन धनावहश्रेष्ठी तेनैव मार्गेण तदा गच्छन्नासीत् । सा कन्या तस्य दृष्टिपथमागता । तस्याश्च रूपलावण्यादिकं दृष्ट्वा - 'नेयं काऽपि सामान्यकन्या' - इति निश्चित्य येन केनाऽपि मूल्येनैषा ग्रहीतव्या एव, येन यस्य कस्याऽपि हस्तगता एषाऽनर्थपरम्परां मा प्राप्नुयात् - इति निर्णीय च तां गृहीतवान् । सस्नेहं तां स्वगृहमानीय - 'कस्य त्वं दुहिता? को वा तव स्वजनवर्गः ?' इत्यादि पृष्टवान् । साऽपि सकलं निजव्यतिकरमुक्तवती । श्रेष्ठिनाऽपि सा पुत्रीत्वेन प्रतिपन्ना । साऽपि स्वगृहमिव तत्र सुखेन निवसति । स्वकीयेन विनयेन वचनकौशल्येन च सा सर्वेषामानन्ददायिनी सञ्जाता । श्रेष्ठिनाऽपि चन्दनवत् शीतलस्वभावत्वात् तस्याः पूर्वं नामाऽपनीय 'चन्दना' इत्यपरं नाम स्थापितम् । अथ प्रतिदिनं वर्धमानां तस्या रूपसम्पदं दृष्ट्वा श्रेष्ठिपत्नी मूला मात्सर्यवती जाता । 'श्रेष्ठिनं परिणीय एषा मम स्थानं ग्रहीष्यति, एषैव च गृहस्वामिनी भविष्यति' इति विपरीतं चिन्तितुं लग्ना सा । एवमेव च मात्सर्यविमूढचित्ता छिद्रान्वेषणं कुर्वाणा सा कालं गमयति । एकदा मध्याह्नकाले श्रेष्ठी विपणितः स्वगृहमागतः । सूर्यस्य उग्रतापात् स क्लान्तदेहो जातः । किन्तुं तदा गृहे कोऽपि नाऽऽसीत् यः तस्य पादप्रक्षालनं कुर्यात् । तदा चन्दना स्वयं समुत्थाय जलं गृहीत्वा श्रेष्ठिना निवारिताऽपि पादक्षालनं कृतवती । तदा शिथिलबद्धस्तस्या दीर्घकुन्तलकलापो भूमौ निपतितः । 'एष मा कर्दमितो भूयादि'ति विचिन्त्य निर्दोषभावेन स्वहस्तेनैव ततः समुत्क्षिप्तो बद्धश्च । ___ मूलाया दृष्टिगोचराऽभवदेषा श्रेष्ठिनः चेष्टा । वात्सल्यभावेनैव केवलं कृतमेतच्चेष्टितमपि मात्सर्यानलदग्धाया मूलायाः चित्ते 'अग्नौ घृताहुति'रिव सञ्जातम् । 'मया यत्तर्कितं तत्तु सत्यमेवाऽद्य प्रतिभाति । अतोऽद्यैवाऽस्योपायः कर्तव्यो मया' इति निश्चितं तया । क्षणं विश्रम्य यदा श्रेष्ठी पुनः स्वकार्यार्थं बहिर्गतवान् तदा मूलयाऽऽकारिता चन्दना । बलात् तां स्नापयित्वा तस्या मस्तके मुण्डनमपि कारितम् । बहु च ताडयित्वा लोहनिगडैस्तस्याः चरणौ बद्धवाऽन्यस्मिन् गृहे प्रक्षिप्तवती मूला। 'यः कोऽप्येतं व्यतिकरं श्रेष्ठिने कथयिष्यति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy