________________
तस्याऽप्येवमेव दण्डयिष्यामि' इत्येवं परिजनान् कथयित्वा सा स्वगृहं गतवती ।
-
सन्ध्याकाले श्रेष्ठी समागतः । चन्दनां चाऽनुपस्थितां दृष्ट्वा स परिजनानपृच्छत् – 'क्व गता चन्दना ?' इति । किन्तु मूलाया भयेन न कोऽपि सत्यकथने प्रभवति । श्रेष्ठ 'प्रासादतले क्रीडन्ती भविष्यति' इति समाधानं कृतम् । अथ रात्रौ पृष्टे सत्यपि प्रत्युत्तरं न प्राप्तवान् सः । द्वितीयदिनेऽपि न दृष्टा चन्दना तेन । अतोऽत्यन्तं व्याकुलः स सञ्जातः । तृतीयस्मिन् दिने समुत्पन्नगाढकोपः स सर्वेभ्य उक्तवान्- 'अरे ! कथयतु मे चन्दनायाः प्रवृत्तिम् । क्व सा गता ? किं भूतं तस्याः ? यदि न कथयिष्यथ तर्हि मम हस्तेनैवाऽहं सर्वान् दण्डयिष्यामि' इति ।
एवं व्याकुलं श्रेष्ठिनं दृष्ट्वा एकया स्थविरया दास्या चिन्तितं यद् - 'अहं तु जरातुरा प्रत्यासन्नमरणा च । किं कर्तुमीशिष्यति मे सा मूला ? अतोऽहमेव सर्वं व्यतिकरं कथयेयम् ।' एवं च विचिन्त्य सर्वं यथाघटितं श्रेष्ठिने निवेदितवती सा वृद्धा । दर्शितं च तद्गृहं यत्र साऽवरुद्धाऽऽसीत् ।
---
श्रेष्ठिनाऽपि झटिति तद्गृहद्वारमुद्घाटितम् । कर्तितकेशां, निगडबद्धचरणां, क्षुधापिपासादिभिः क्लान्तदेहां म्लानमुखीं च चन्दनां दृष्ट्वा गलद्वाष्पलोचन: श्रेष्ठी - 'पुत्रि ! अहमागतोऽस्मि । विश्वस्ता भव' इति तां समाश्वास्य भोजनसामग्य्रर्थं महानसं गतवान् । किन्तु नाऽऽसीत् काऽपि भोजनसामग्री तत्र, केवलं कुल्माषा एव तत्र विद्यमाना आसन् । अतस्तानेव शूर्पकोणे गृहीत्वा चन्दनायै दत्तवान् । कथितं च- 'यावत्तव निगडभञ्जनार्थं लोहकारमहमानयेयम् तावद् भुङ्क्ष्व एतान् कुल्माषान् ।' एवमुक्त्वा श्रेष्ठी ततो निर्गतः ।
अथ चन्दनाऽपि शूर्पसहितान् कुल्माषान् हस्ते गृहीत्वा स्वकुलं चिन्तयितुं लग्ना । चिन्तनमध्ये एव तस्या: समुत्पन्नो विकल्प: यद - 'यदि आगच्छेत् कोऽप्यतिथिः तर्हि तस्मै दत्वा एव भोजनं कर्तुमुचितम्' इति । एवं च परिभावयन्ती सा गृहस्य द्वारदेशमागत्य बहिः प्रलोकयन्ती स्थिता ।
तदैव च श्रमणो भगवान् महावीरो विहरन् सन् तत्राऽऽगतवान् । स च तस्या
Jain Education International
७४
For Private & Personal Use Only
www.jainelibrary.org