________________
गोशालस्तु कदापि मृत एव ।
तदा भगवता कथितम्, सत्यं त्वं गोशाल एवाऽसि, मुधा किमात्मानमपनुषे । यथाऽऽरक्षकदृष्टिपतितः कश्चिच्चौरः तृणाद्याच्छादनेन स्वमपह्नोतुं नैव समर्थो भवति, तथैव त्वमपि मिथ्याप्रलापेन स्वात्मानमपलपितुं कथं शक्तो भविष्यसि ?
तदा भगवद्वचनेन स गोशालः भृशं परिकुपितः । तस्मिन् समये भगवद्वहुमानेन परिखिन्नौ सर्वानुभूति-सुनक्षत्रनामानौ भगवच्छिष्यौ गोशालकोपकटुविपाकं जानन्तावपि जीवितं तृणवद् गणयन्तौ तमधिक्षिपतः स्म । तस्मिन्नेव क्षणे गोशालमुक्ततेजोलेश्यया दग्धौ तौ समाधिभावेन कालं कृत्वा एकः सहस्रारकल्पे, अपरश्च अच्युतकल्पे समुत्पन्नौ । एतावताऽपि अनुपशान्तकोपानलः गोशालः अविचार्य निजाधमकर्तव्यविरसपरिणामं भगवदुपर्यपि तेजोलेश्यां मुक्तवान् । तीर्थकरातिशयेन अङ्गबङ्गदिषोडशदेशदहनसमर्थाऽपि सा भगवतः किमपि विप्रियं कर्तुं न शशाक । प्रत्युत भगवतः पार्कात् प्रतिनिवृत्य ऊर्ध्वमुत्पत्य गोशालशरीरे एवाऽनुप्रविष्टा । तया दग्धोऽपि स भगवदुपरि नैव मत्सरं तत्याज । रुष्टश्च स भगवन्तमाह - भो काश्यप ! एतत्तेजोलेश्याप्रभावेण त्वं षण्मासाभ्यन्तरे एव कालं करिष्यसि, दुःखमवाप्स्यसि च ।
तदा प्रभुणा भणितम् - रे गोशाल ! नाऽहं तव कथनानुसारेण कालं करिष्यामि, अहं तु ममावशिष्टं षोडशवर्षायुः पूर्णं कृत्वा केवलिपर्यायं च पालयित्वा पश्चान्मोक्षं गमिष्यामि । त्वं तु पुनः इतः सप्तदिनमध्ये एव निजतेजोलेश्यादग्धाङ्गः कालं करिष्यसि । ततः भगवदुक्तानुसारेण तस्य सर्वं जातम्, परमन्तसमये मिथ्यात्वक्षयोपशमतः प्रादुर्भूतसम्यक्तप्रभावेण तस्य सद्बुद्धिः समुत्पन्ना । तया सपदि स विचारयितुं लग्नः, अरे ! मोहमूढचित्तत्वेन मया कीदृगघटितमाचरितम्, प्रभोर्वीरस्य च महत्याशातना विहिता, अथ मम किं भविष्यति । क्वाऽस्म्यहं जिनः ? अहं मंखलिपुत्रः गोशालः महापापः श्रमणघातकः गुरुप्रत्यनीकश्च, जिनस्तु महावीर एव।
स्वानुयायिवर्गमाहूय स्वचिन्तितं सर्वं कथयन्नाह-मया यत्पूर्वं युष्माकं सविधे कथितं तत्सर्वमलीकं मन्तव्यम्, नाऽहं जिनः, अहं तु पापात्मा गोशालः, जिनस्तु महावीर एव ।
६७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org