________________
युष्माभिः सर्वैः मम दुश्चरितं सर्वत्रोद्घोषणीयम्, भवगतो महावीरस्य च तीर्थकरत्वादिगुणानामुत्कीर्तनं च कर्तव्यम् ।। __कथमस्माभिः स्वेष्टगुरोरेवमपमानादिकं सर्वजनसाक्षिकं क्रियते, तदाज्ञापालनलोपोऽपि कर्तुमनुचितः । ततः गेहाभ्यन्तरे एव नगरादिकल्पनां कृत्वा तदाज्ञामुच्चैरुद्घोष्य पश्चात् महता महेन तस्याऽग्निसंस्कारः कृतः ।
प्रभोर्वीरस्य च तया लोहखण्डवर्चपीडा समभवत्, शरीरकाय॑ च सञ्जातम् । सर्वे जनाः एवं कथयन्त आसन् यत् गोशालवचनं कदाचित् सफलमपि भवेत् ।
सिंहश्रमणविलापः, प्रभोः वात्सल्यं च ।
भगवदुपरि अत्युत्कटां भक्तिं दधानः सिंहानगारः सततं चिन्ताचान्तचेताः सञ्जातः । अन्ये साधुसाध्व्यः निखिला पर्षदपि भृशमुद्विग्नमानसाः समभवन् । नहि कस्मै किमपि रोचते । अत्रान्तरे भगवान् श्रावस्तीतः विहृत्य मिण्ढिकग्रामस्य बाह्योद्याने समवासरत् ।।
वीरपरमात्मानमेव निजात्मनोऽप्यधिकतरं मन्यमानः सिंहानगारः भाव्यनर्थकल्पनाकदर्थितः क्षणमात्रमपि निर्वृतिमलभमानः ग्रामस्य बहिः अटव्यां क्वचननिर्जनप्रदेशे वृक्षाधस्तात् स्थितः रोरुदिति स्म । तस्यैवं रोदनध्वनिमाकर्ण्य न हि मानवपशुपक्षिण एवाऽपि तु समीपवर्तिवृक्षवनलतादयोऽपि निरुत्साहा निरानन्दा दुःखोद्विग्नाश्च समजायन्त । चुक्कस्खलित इव कोऽपि पथिकः तेन वर्त्मना गच्छन् दृष्टाऽनवरतं रुदन्तं सिंहमुनि परमां ग्लानिमुपागतः । ग्रामाभ्यन्तरे आगत्य कमपि धर्मात्मानमुपलक्ष्याऽकथयत् - रे भ्रातः ! ग्रामबहिर्भागे एको मुनिः अविश्रान्ततया रोदिति विलपति च, नाऽहं तदुःखवर्णनं कर्तुं शक्तः, इतः कोऽपि तत्र गच्छतु तं सान्त्वयतु च । किं भवतां मध्ये कोऽप्येतत् न हि जानाति ।
भगवान् महावीरश्च तज्ज्ञात्वा सिंहमुनेराह्वानाय मुनीन् प्रेषयति । मुनयः ग्रामबहिर्भागे गत्वा सिंहसाधुं कथयन्ति - 'रे! शब्दयति त्वां वीरः । सत्वरमागच्छ ।'
'किं मन्दभाग्यस्तत्राऽऽगत्य करोमि ? षण्मासाम्यन्तरे एव अस्माकं मध्यात् प्रभुः परलोकं प्राप्स्यति ।' ततः कथं कथमपि मनोऽधृति विमुच्य सिंहः भगवत्समीपे समागच्छत् । वात्सल्यामृतमहोदधिः भगवान् सुधामधुरया वाचा तं समाश्वासयत् । प्रभोः भवजलधिपोतायमानं
६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org