________________
अहो ! अत्यद्भुतं भगवतो वीरस्य वात्सल्यम् ॥
- पूज्याचार्यश्रीमद्विजयदेवसूरीश्वरशिष्यः
श्रीविजयहेमचन्द्रसूरिः। सुरासुरनरेन्द्रसम्पूजितः दिनकर इव भव्यात्मकमलवनं विबोधयन् सुरविरचितनवस्वर्णकमलविन्यस्तपदपङ्कजः करुणावरुणालयो भगवान् वीरवर्धमानः ग्रामानुग्रामं विहरन् सपरिवारः श्रावस्त्यां समवसृतः । तदानीं मंखलिपुत्रः गोशालोऽपि निजानुयायिवर्गसमेतः तत्र पुर्यां हालाहलकुम्भकारशालायामवस्थितः । प्राकृतजनैः न हि केवलं दुरनुष्ठेयमपि तु दुश्चिन्तनीयं षष्ठषष्ठेन तपःकर्म कुर्वन् गणभृद् श्रीगौतमस्वामी श्रावस्त्यां भिक्षार्थं गच्छन् प्रतिगृहं चर्च्यमाणां वार्तामिमामश्रृणोत् - यत्, सम्प्रति श्रावस्त्यां द्वौ जिनौ विहरत इति । ____ तां श्रुत्वा श्रीगौतमः प्रभुवीरसमीपे समागत्याऽपृच्छत् । भगवन् ! नगरे सर्वे जनाः परस्परं वार्तयन्ति यत् - अस्माकं नगर्यामधुना द्वौ जिनौ विहरत इति किमत्र तत्त्वम् ?
भगवता कथितम् - गौतम ! न ह्येतत् सत्यम्, अयं तु मंखलिपुत्रः गोशालः अस्माकं शिष्याभासः अजिनोऽपि स्व जिनं ख्यापयन्नत्राऽऽगतोऽस्ति । ततः कर्णोपकर्णतः वार्तामिमां श्रुत्वा परिकुपितः गोशालः गोचरचर्यागतमानन्दनामकं भगवच्छिष्यं जगाद - भो आनन्द ! कीदृशः खलु तव धर्माचार्यः एतावत्या पर्षदाऽपि अपरितुष्टः मम कृते यद्वा तद्वा प्रलपति । ततोऽहं तत्राऽऽगच्छामि, यदि स मां सम्यक् न प्रतिचरिष्यति तर्हि तं तेजसा धक्ष्यामि । गोशालवचनं श्रुत्वा भयभीतः आनन्दः त्वरितत्वरितं भगवत्समीपे समागत्य तस्मै यथावस्थितं न्यवेदयत् । भगवता कथितम् - भो आनन्द ! त्वं शीघ्रं गौतमादीन् मुनीन् कथय, यदेष गोशाल: समागच्छति, सर्वेऽपि साधवः इतस्ततः अपसरन्तु, केनाऽपि तस्योत्तरो न देयः ।
तावताऽऽगतः गोशालः, रोषारुणनेत्रः भगवन्तमधिक्षिपन्नवोचत् – भो काश्यप ! किमिदं मम कृते उन्मत्तप्रलापवत् वक्षि, यदयं गोशालः मंखलिपुत्रोऽस्तीति, नाहं गोशालः, अहं तु कोऽप्यन्य एव, परीषहोपसर्गसहं तच्छरीरं विज्ञाय तदध्यास्य स्थितोऽस्मि । तव शिष्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org