________________
सैनिकाः केचिदधिकारिणः प्रेषणीयाः स्युः ।"
उत्तरे वर्धमानो भाषते
“भवान्मां भीरुं कथमवागच्छत् ? अहं तु हिंस्रजीवान् प्रीतिं शिक्षयितुमागतोऽस्मि । तमसि निमग्नेषु हृदयेषु दीपान् प्रज्वालयितुमायातोऽस्मि । हे राजन् ! स्वतन्त्रविचरणार्थमाज्ञापयतु भवान् । मां स्वकर्मणां फलं सोढुमादिशतु । "
पुनश्च त्यागस्य तपसः पथि महावीरः पुरतो व्रजति । गिरयो मार्गं प्रयच्छन्ति । जलधारा तस्य पन्थानं रोद्धुं न शक्नोति । सायं प्रातर्महाश्रमणः प्रचलति सततम् । स्थाने स्थाने प्रकाश प्रसारयति । केभ्यश्चिद् दिनेम्य एकस्मिन्नाश्रमे स्थित्वा ध्यानमग्नो भवति, परं तूर्णमेवाग्रे प्रतिष्ठति । असौ विचिन्तयति
-
‘यदा राजसिंहासनं प्रासादानन्तःपुरं च परित्यज्यागतोऽस्मि, तदाऽनेन पर्णकुटीरेणापि साकं कीदृशो मोह: ? '
एकस्मिन् दिने प्रचलनकाले निष्ठुरेणैकेन कंटगुल्मेन तस्य कलेवरात्तवस्त्रमप्याकर्षितं, यत्तस्यार्धनग्नस्य देहस्याऽऽश्रय आसीत् केवलम् । तदा सहसा क्षणे एव महाश्रमणो दिगम्बरो भवति । प्रत्येकस्य मोहस्य बन्धनं मनसो कायाच्चापि विच्छिन्नम् ।
एकदा यदा जास्तं वदन्ति यदेकस्मिन् विविक्ते स्थाने देवालये 'शूलपाणि 'रेको गुह्यको वसति । नरास्तत्र तस्य गुह्यकस्य कारणेन भीत्वा मनागायान्ति यान्ति, तदा महावीरः स्वमनसि तस्य गुह्यकस्य कल्याणस्य लक्ष्यं संधार्याऽहोरात्रसंयोगसमये तस्मिन् देवालये गत्वा ध्यानावस्थितो भवति। अल्पनिशीथिन्यां गतायां यक्ष आगच्छति । तेन किंचिन्नवीनत्वमनुभूयते । ईषद् गन्धोऽप्यनुभूयते । गुह्यक: स कर्कशरावं करोति भयानकं चाटट्हासं विदधाति । मन्दिरस्य भित्तयः कम्पन्ते । दूरं दूरं यावद् वनस्यानोकहा: वेपन्ते । परं करुणाकरः पद्भ्यां तिष्ठत्यनवरतं निश्चलः शान्तो मौनव्रती । निखिलं नक्तं यक्ष: 'शूलपाणि' महाश्रमणायाऽनेकानि कष्टानि प्रयच्छति । भूयो भूयो बहूनि मायाविरूपाणि धारयति भणति च -
44
'कोऽसि त्वम् ! किमर्थमागतोऽसि ? "
असौ गुह्यक उग्रं प्रहरति, परन्त्वात्मस्वरूपलीनो महावीरो न स्तोकामपि पीडामनुभवति
Jain Education International
६४
For Private & Personal Use Only
www.jainelibrary.org