________________
भवतु । अहमस्मि संस्कृतसपर्यारतः सेवकः । मानसं विना मरालस्येव संस्कृतं विना ममाऽपि मनोऽन्यत्र क्वाऽपि न रमते । तस्मादेव कारणात् सगन्धान् भवतो दृष्ट्वा महती प्रीतिस्समजनि । यद्यपि सनातनधर्मावलम्बिनि द्विजगृहे गृहीतजनिरहम् । तथाऽपि आर्हतपरम्परायां प्रारम्भादेव महती श्रद्धा मे जाता । प्रसह्यमारणं पिपीलकस्याऽपि मत्कृतेऽसह्यम् । अत एव हिंसासमर्थके कस्मिन्नपि धर्मे न मदीया श्रद्धा न वा विश्वासः । आर्हताचारः भृशं रोचते मह्यम् । सौभाग्यवशात् आचार्यमहाप्रज्ञस्य तेरापंथदशमाचार्यस्य वात्सल्यमुपगतोऽहं तत्समारोहेषु नैकधा सम्मिलितोऽभूवम् । तत्सान्निध्ये च जैन श्रावकाचारपद्धति समनोयोगं व्यपठम् । आचार्यवर्या महाप्रज्ञास्तु प्रतिभापटिष्ठा महाकवयः । तत्प्रणीताऽश्रुवीणा मया समीक्षिता ।
भवतां रत्नत्रयाणां महान्तं कार्तझ्यभारं शिरसोद्वहामि । इयत्याऽनुकम्पया भवद्भिः पत्रिकां सम्प्रेष्य कृतार्थीकृतोऽस्मि । अन्यथा स्वार्थान्धेऽस्मिन् युगे कः कं पृच्छति ? पदे पदे सन्ति ईश्वरम्मन्या धर्मप्रचारका इदानीं, येषामाश्रमे गृहस्थजनदुर्लभं विलासवैभवं विलसितं दृश्यते । तत्सर्वं दष्ट्वा प्रायेण चिन्तयामि यत् सर्वमपि सौख्यं कलावस्मिन् काषायवस्त्राधीनमेव ! दुर्दशापन्ना गृहिणः, परमसुखिनश्च संन्यस्ताः ।
परन्तु जैनधर्मावलम्बिन इदानीमपि तपोमार्गाधिरूढाः । प्रत्यक्षं दृष्टं मया। अकिञ्चनास्ते समेषां कृतेऽनुकरणीया एव ।
नन्दनवनकल्पतरोः सर्वेऽप्यङ्काः संग्रहणीयाः । प्रकाशिता सामग्री महतीमनुरक्ति जनयति । विश्वसिमि यदनुरागोऽयं भवतां मयि नितरां स्थास्यति । विशेषाङ्कस्य कृते किमपि यथाशीघ्र प्रेषयिष्ये । अहमादाबादमुपागते सति भवद्दर्शनमपि करिष्ये ।
सप्रणयं सप्रणामम् मिश्रोऽभिराजराजेन्द्रः
114, Teacher's Hostel
Summer Hill SHIMLA-171005
(Head, Department of Sanskrit &
Dean, Faculty of languages H. P. UNIVERSITY, SHIMLA)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org