________________
'किमत्र प्रष्टव्यम् ? एतस्मै निष्कारणवत्सलाय मम जीवितदायिने पित्रे धनावहश्रेष्ठिने एवैतद् दातव्यम्' इति ।
पुनः शक्र उवाच - ‘राजन ! एषा चरमशरीरा सांसारिकभोगादिभिः पराङ्मुखा श्रमणभगवन्महावीरस्य आर्याणां प्रथमा साध्वी भविष्यति । अतः सम्यग् रक्षणीया एषा ।' एवं कथयित्वा इन्द्रोऽप्यदृश्यत्वमुपागतः । सर्वे नागरा राजादयश्चाऽपि तां बहुमान्य स्वस्थानं गतवन्तः ।
कथानकं त्वेतद् सुप्रसिद्धमेव सर्वत्र जैनसमाजे । किन्तु कथनकाले जायमानां क्षति प्रति अङ्गलिनिर्देशार्थमत्र पुनरेतत् प्रस्तुतम् । एतत्कथानकं श्रीगुणचन्द्रगणिना रचितं प्राकृतभाषानिबद्धं 'सिरिमहावीर चरियं' इति ग्रन्थमाश्रित्याऽत्रोल्लिखितमस्ति । ___ कथानकमेतत्तु सम्पूर्णं यथातथमेव सर्वत्र वर्ण्यते। किन्तु चन्दनया भगवते महावीरस्वामिने यत् कुल्माषाणां दानं दत्तं तत्र कथनस्य बहुभिर्वर्षेः एका परम्परा प्रचलन्ती वर्तते । यद् - "चन्दना एकं पदं गृहद्वारस्य बहिः, अपरं चाऽन्तः न्यस्य हस्तयोः कुल्माषसहितं शूर्प गृहीत्वा कमप्यभ्यागतं प्रतीक्षमाणा स्थितवती । तावत् श्रमणो भगवान् महावीरो भिक्षार्थं भ्रमन् तत्र समागतः । तं तादृशमलौकिकरूपधारिणं तपश्चरणेन पूतदेहं भगवन्तं निरीक्ष्य दानार्थमुल्लसितमनाः साऽभूत् । भगवानपि भिक्षार्थं तत्समीपमागतवान् । द्रव्य-क्षेत्र-कालभावादिकमनुसृत्य स्वस्याऽभिग्रहविशेषस्य विशुद्धिं निरीक्षमाणेन भगवता तत्राऽश्रूणि न दृष्टानि । अतस्ततः प्रतिनिवृत्तो भगवान् । भगवन्तं पुनर्गच्छन्तं दृष्ट्वा सा रोदितुं लग्ना । रुदतीं च तामभिज्ञाय भगवान् पुनस्तत्राऽभिग्रहपूरणात् भिक्षार्थमागतवान्, भिक्षां च गृहीतवान्'इति । एतादृशमेव कथनं 'शुभवीर' इत्यपरनाम्ना ख्यातेन पण्डितश्रीवीरविजयगणिनाऽपि स्वरचिते गूर्जरगिरामये काव्ये कृतमस्ति ।। __ अत्र 'भगवतो महावीरस्य अश्रूणामभावं दृष्ट्वा निवर्तनम्, तस्माच्च चन्दनाया रोदनम्, तत्पश्चाच्च पुनर्भगवत आगमनम्' - इति न युक्तियुक्तं प्रतिभाति । यतः सर्वेऽपि तीर्थकरा लोकोत्तरमहापुरुषा भवन्ति । तादृशानां लोकोत्तरमहापुरुषाणामाचारस्त्वेतादृशः तुच्छप्रायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org