SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मगार चमगाभायावत्महावीरस्वामिनः साधनदृष्टान्ता डॉ. मदनलाल वर्मा ६८, 'सुमंगलम्', न्यू कोलोनी, (हनुमान् मन्दिरके पीछे) कुरुक्षेत्र-१३६११८ (हरियाणा) औपनिषदधर्मदौर्बल्यकारणेनाऽतिकर्मकाण्डप्रतिक्रियारूपेण च नैतिकप्रधानजैनधर्मस्योदयो विकासश्चाभूत्। धर्मस्याऽस्याधिष्ठाता श्रमणभगवन्महावीरस्वामी प्राचीनपरम्परागत पवित्राचरणस्यैव पुनरुद्धारं व्यदधात् । असावाध्यात्मिकत्वं व्यष्टेर्व्यक्तेर्वा क्रमिकनैतिकविकासदृशैवाद्राक्षीत् । अनया दृष्ट्या जैनधर्मः साधारणादतिसाधारणकोटिकमनुष्यायाऽप्यनुकूलो जातः । धर्मस्याऽस्यैकं मुख्यं वैशिष्ट्यं कस्यचिद् वादस्य विषये स्यादवादस्याऽहिंसायाश्च सिद्धान्तः । अस्य धर्मस्याऽऽश्रयः परसहिष्णुतायाः मौलिकसिद्धान्ते विद्यते भगवन्महावीरस्य च साधनायामप्यस्यैव सिद्धान्तस्य प्रामुख्यम् । तस्य न मरुस्थलं गृहमासीन्न च काननं गन्तव्यस्थानमवर्तत । यदा मनुष्याणां मनुष्येषु नित्यमत्याचाराः वृद्धिंगता आसन्, तदा मानवत्वस्य रक्षणहेतोरेकं नवीनज्योतिर्जागरणस्य लक्ष्यमादाय स महानुभावः प्रत्युद्गतवान् । साधकः कदाचिद् दुःखेभ्यो न मुह्यति । तस्य समक्षं परीक्षायाः कीदृशान्यपि कठिनानि क्षणान्यागच्छेयुस्तस्य नयने कदापि सजले न भविष्यतः । स्वमनसि यदा महावीर एवमेव चिन्तयति स्म, तदा तस्य मार्गेऽतिनिर्धन एको ब्राह्मणो हस्तं प्रसारयति । तिर्ह स तं विप्रं वदति - "भोः भूसुर ! अहं तु संन्यासी । मम पार्वे तु किमपि नास्ति ।" परं द्विजस्य पौनःपुन्येनाह्वयनं श्रमणचेतो दुःखीयति । तदा चासौ करुणासागरो निजशरीरस्याऽर्धवसनं विदीर्य तस्मै वक्त्रजाय प्रयच्छति । ___ 'कार' ग्रामस्य विस्तृतं वनम् । खगाः निजकुलायान् प्रतिगच्छन्ति स्म । दूरं तरूणां ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy