________________
अभयकुमारस्तु इह धर्मनिरतः पापविरतश्चाऽस्ति । अतो जीवतस्तस्याऽत्र राज्यलक्ष्मीभोगो मरणानन्तरं च निर्वाणम् ।
कालसौकरिकः सौनिकस्तु जीवताऽपीह प्रत्यहमनेकनिरपराधप्राणिगणं घातयन् बहु पापमर्जयति, मृतः पुनर्नियमेन नरके उत्पद्य दुरन्तदुःखानि सहिष्यते । अतस्तेन क्षुते देवेन करुणया 'मा जीव माऽपि म्रियस्व' इति भणितम् ।
यच्च मया क्षुते तेन भणितं 'म्रियस्व' इति तत्राऽपि कारणमिदं यत् - भगवान् ! भवान् इह विविधविपत्तिविसंस्थुले मर्त्यलोके किमिति वसति ? मानुषं शरीरं त्यक्त्वा किमर्थं शाश्वतमेकान्तसुखं च मोक्षं न गच्छति ?' इति । ___ 'अतः केषाञ्चिज्जीवितं श्रेष्ठं, केषाञ्चित् तु मरणं श्रेष्ठम् । केषाञ्चित् तूभयमपि श्रेष्ठं तथा केषाञ्चिदुभयमपि कनिष्ठम् ।'
भगवतां श्रीमुखादिदं स्पष्टीकरणं श्रुत्वा सञ्जातसन्तोषोऽपि श्रेणिको नृपः स्वीयनरकगामित्वं विज्ञाय गाढमुद्विवेज शोकावेगेन च भणितवान् - 'भगवन् ! समग्रभुवनत्रयरक्षावबद्धलक्ष्ये भवति मम स्वामिन्यपि मया नरके गन्तव्यम् ? नूनं निरर्थकं मम जीवितं यस्य मन्दभाग्यशिरोमणेरीदृशीसामग्रीसत्त्वेऽपि दुर्गतिर्भविष्यति अतो धिङ् माम् ।'
शोकाकुलस्य तस्य नृपतेर्वचनानि श्रुत्वा करुणाभरमन्थरनेत्रेण भणितं भगवता - 'भो महानुभाव ! किमिति सन्तापमुद्वहसि ? यद्यपि त्वं नरके निपतिष्यसि तथाऽपि भवेऽत्र कृताया उत्तमायास्तीर्थकरभक्त्याः प्रभावेण नरकादुद्वाऽऽगामिन्यामुत्सर्पिण्यां त्वं पद्मनाभो नाम प्रथमतीर्थकरो भविष्यसि । अतोऽलं शोकेन' इति ।
एतन्निशम्य प्रहृष्टो राजा नरकपातदुःखानि विस्मृत्य भगवतां भावसारां स्तुतिं कृत्वा नगरं प्रतिनिवृत्तः।
इतो भगवन्तोऽपि बहून् जनान् मोक्षमार्गमुपदिश्य प्रतिबोधयित्वा दीक्षयित्वा च क्रमेणाऽन्यत्र विहृताः।
(आधारग्रन्थः - सिरिगुणचंदगणिविरइयं सिरिवीरजिणचरियं ।)
९२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org