SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सम्यक् स विवेचयतीत्यभिधा रम्या सन्मतिरिति पुण्यविधा दत्ता सज्जनसमुदायधुर्यैः कृत्ताखिलमतिदोषैरार्यैः । लीला - भावज - निर्जयशूरः कालेनाप्नोद् युवतां वीरः । श्रेयः पितरो वाञ्छन्त्यूढैः प्रायः पुत्रैः संसूतिमूढैः ! कृतनिश्चय आसीत् सिद्धार्थः सुतमुद्वाहयितुं बद्धार्थः । श्रमणानां सहवासाद् वीरः क्रमशः प्राप विरागमुदारः । नृपतिः श्रुतवीरीयविरागः कुपितः पूरितमोहावेगः । परिणयरज्ज्या बद्धुं तनुजं त्वरितं बिसनालिकयेव गजं नियताखिलखं भवरणरणकः प्रयतितवान् साधारणजनकः । सूनुगतं सुविरागातिशयं भानुस्थितमपि दहनसमुदयं वारयितुं कः शक्नोत्येवं Jain Education International सारतरमवापान्ते भावम् । स महावीरो दीक्षाबद्धो दमनं मनसः कृत्वा शुद्धो ध्यानं घोरं सहसाऽऽरभत ज्ञानं लब्धुमहो ! प्रायतत । क्षिप्तहृदः केचन तं दृष्ट्वा दृप्तशिरस्कास्तस्मै रुष्ट्वा तस्मिश्चिक्षिपुरश्म क्रूरं विस्मितविबुधे वारं वारम् । सुमनस्कः शापाद्यददानः शमधनमेव स्वहृदि दधानः खरे तपसि विमग्नो वीरः सुखलेशेऽप्यविहितरुचिधारः । कामं समधिकतप आचरितुं भ्रामं भ्रामं कर्म क्षरितुं कामपि पर्णकुटीमध्यवसत् स्वामपि मुदमधिकां समजनयत् । पर्णादिन्यो गावो हितघन वर्णावलिबुहुललिताः काश्चन तत्रागान् परमस्मन्नेता वित्रासेन समस्तविजेता ३ For Private & Personal Use Only www.jainelibrary.org.
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy