________________
श्रीवर्धमान महावीरजिन-गीतिः
(आशावरी-रागण गीयते)
विजयशीलचन्द्रसूरिः
सेवे वर्धमानजिनमनिशं प्रसरति शुभ्रमनभ्रमदभ्रं यस्य यशोऽद्य प्रतिदिशम्... यस्याऽजनि जनिरिह भूलोके, सकललोककुशलार्थं अवतरणमपि नु शरणं भविनां, यस्य विहितपरमार्थम्... किं चित्रं देवासुरमनुजाः, यज्जनुषि स्युः सुखिन: ? । नरकग्रस्ता नितरां त्रस्ताः, जायन्तेऽपि कुशलिनः ! ... मन्दं सुरभिः शीतस्तिर्य, दक्षिणगो नु समीर: वाति श्रीजिनजन्मावसरे, प्रभुमहिमा हि गभीर: ... काकोलूकपिकादिकखगकुल-मविकलमङ्गलगानं कुरुतेऽविरतं शकुनरुतं बत, जिनजनिसमयेऽमानम्... पृथिवी पृथुधान्योलसिता किल, वृक्षाः फुल्लित-फलिताः लोकोऽपि तदा क्रीडाकलितो, दैवकुटिलता दलिता... जनुरिव दीक्षा ज्ञानावाप्ति-निर्वाणमपि नु तव हे ! कल्याणं जगतां कुरुते जिन ! सकलमकलमिह तव हे ! ...
६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org