________________
-
शार्दूलविक्रीडितम
मुनिभुवनचन्द्र: 'चिन्मयः'
काव्यानिकुआम्
धीरं सञ्चरति प्रपश्यति मनाक् पश्चात् स्वमार्ग पुनः प्राप्तो मृत्युमुखेऽपि नेच्छति तूणं विक्रान्तजीवी सदा । एकाकी विहरन् वने मृगपती राजायते प्राणिषु नूनं सर्वमिदं विलक्षणमहो! शार्दूलविक्रीडितम्
।
यद् द्वाविंशतिधा परीषहचमूढिं विनिर्धाटिता तप्तं यच्च तपस्सुदुष्करमथो गाढं वनेषु स्थितम् ध्यान साधितमूजितं यदनिशं मौनं च यत्सेवितं वीरस्य प्रकटं तदेतदखिलं शार्दूलविक्रीडितम्
॥२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org