Page #1
--------------------------------------------------------------------------
________________
* श्री श्रीपाल-मयणामृत-काव्यम्
• दिव्याशीर्वाद आगमविशारद पंन्यासप्रवर पूज्य गुरुदेव श्री अभयसागरजी म.
• रचयिता. बंधुबेलडी पूज्य आचार्यदेव श्री जिनचन्द्रसागरसूरि लघुबन्धु आचार्यदेव श्री हेमचन्द्रसागरसूरीश्वराणां शिष्यरत्न
मुनिराज श्री नयचन्द्रसागरजी महाराजः
श्री ऊंझा जैनसंघस्य ज्ञाननिधिद्रव्येण श्री आगमोद्धारक प्रतिष्ठानेन मुद्रापितोऽयं ग्रन्थः
For Private
Permann
Jaiveducation international 2010.05
Page #2
--------------------------------------------------------------------------
________________
श्री आगमोद्धारकाय नमः
श्री कुंथुनाथाय नमः
श्री धर्मसागरवाचकेभ्यो नमः
श्री श्रीपाल-मयणामृत-काव्यम्
(संस्कृत प्रारम्भ कक्षाभ्यासूनां विद्यार्थिनां सुबोधाय)
दिव्याशीर्वाद . आगमविशारद पंन्यासप्रवर पूज्य गुरुदेव श्री अभयसागरजी म.
रचयिता. बंधुबेलडी पूज्य आचार्यदेव श्री जिनचन्द्रसागरसूरि लघुबन्धु आचार्यदेव श्री हेमचन्द्रसागरसूरीश्वराणां शिष्यरत्न
मुनिराज श्री नयचन्द्रसागरजी महाराज:
श्री ऊंझा जैनसंघस्य ज्ञाननिधिद्रव्येण श्री आगमोद्धारक प्रतिष्ठानेन मुद्रापितोऽयं ग्रन्थः
2010_05
For Private & Personal use only
Page #3
--------------------------------------------------------------------------
________________
प्रकाशक : आगमोद्धारक प्रतिष्ठान
प्रथमावृत्ति : ७००
संवत २०५४ वसंत पंचमी
缴號靈靈飄飄飄飄飄靈跟靈靈靈靈靈靈靈靈靈靈靈靈
• प्राप्ति स्थान . १. आगमोद्धारक प्रतिष्ठान
सुरेश डी शाह मातृ आशिष एपार्टमेन्ट तीनबत्ती काजी, मेदान
गोपीपुरा - सुरत २. ऊंझा जैन महाजन पेढी
जैन देरासर पास खजूरी पोल ऊंझा (उ. गुज.)
पिन नं. ३८४१७० આ પ્રત જ્ઞાનદ્રવ્યમાંથી છપાયેલ હોવાથી માત્ર પૂ. સાધુ સાધ્વીજી મ. તથા જ્ઞાન ભંડારોને ઊંઝા જૈન સંઘ તરફથી સમર્પિત કરવામાં આવશે.
मुद्रण व्यवस्था : जितेन्द्र शाह
For Private & Personal use only
Yorlainelibrary.org.
_JainEducation Intemra|2010_05
183
Page #4
--------------------------------------------------------------------------
________________
શ્રીપાનमयणामृत
પ્રકાશકીય
काव्यम् આગમોદ્ધારક પ્રતિષ્ઠાને સમ્યગુ જ્ઞાનને પ્રકાશમાં પુસ્તકો પ્રકાશિત કર્યા છે.
પુસ્તકો સુજ્ઞજનોમાં ખૂબ જ આદરસ્થાન થયાં છે. તેમાંય પૂ. મુનિશ્રીનયચંદ્રસાગરજી મ.ની તીક્ષ્ણ મેધાએ અભુત શીલાંગ રથનું આ પુસ્તક આપ્યું તે સિવાય સંપાદનક્ષેત્રે તેઓએ પૂ. પં. શ્રી અભયસાગરજી મના “ગરવો ગિરિરાજ,” પંચ પરમેષ્ઠિના શરણે” અને જિ. “જપયોગ” નામનાં પુસ્તકો આપ્યાં....
પૂ. મુનિરાજશ્રી રચિત આ પ્રસ્તુત ગ્રંથ તો આગમોદ્ધારક પ્રતિષ્ઠાનનો સંસ્કૃત-શ્રેણીનો આદ્ય ગ્રન્થ બન્યો છે. ખૂબ વિનંતિ કરતાં પ્રકાશનની અનિચ્છા છતાં પૂ. ગુરુદેવશ્રીની આજ્ઞાથી પૂ. મુનિરાજે ગ્રન્થ પ્રકાશિત કરવા સંમતિ આપી અમારા ઉપર ઉપકાર કર્યો છે.
આ સાથે ગ્રન્થ પ્રકાશનમાં શ્રી ઊંઝા જૈન સંઘે સામેથી માંગણી કરી અમારો આર્થિક બોજ હળવો કર્યો તો...પંડિતવર્ય શ્રી જિતેન્દ્રભાઈ શાહે પ્રિટીંગ વ્યવસ્થાનો બોજ હળવો કર્યો. આમ પ્રકાશન-કાર્યમાં સહકાર આપનારના આભાર સહ...
આગમોદ્ધારક પ્રતિષ્ઠાન
取靈靈靈靈靈飄飄飄
Jain Education into
bog
821 2010_05
Page #5
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈驗
અમારું અહોભાગ્ય પ્રસ્તુત ગ્રંથના રચનાકાર...સુસંયમી પૂજ્ય મુનિરાજ નયચંદ્રસાગરજી મ. તેઓએ સંસ્કૃતમાં સુવિસ્તૃત શ્રીપાલ કથા આલેખી. આ જી સમાચાર અમોને મળતાં ગૌરવ અને આનંદનો અનુભવ થયો. અમારા ઊંઝા ગામનું ગુપ્ત રત્ન સંયમ અને જ્ઞાન સાથે અભિનવકૃત | રચનામાં પણ પ્રવીણતા ધરાવે છે. આ જ ખરેખર અમારું અહોભાગ્ય છે.
ત્યારે જ અમારા શ્રી સંઘે નિર્ણય કર્યા કે “આ કથાને પ્રકાશિત કરીને આપણા આનંદને ચિરસ્થાયી કરીએ”... નિર્ણય થયા બાદ પૂ. ગુરુદેવશ્રીને વારંવાર વિનંતિ કરતાં બે વર્ષે સંમતિ આપી અમારા શ્રી સંઘને ઉપકૃત કર્યો...
અમારી આશાઓ સાકાર થઈ એના પરિણામે આપનાં કરકમલોને આ સોહામણો ગ્રન્થ શોભાવી રહ્યો છે. અમારી આશાને સાકાર કરવામાં સહાયક શ્રી આરામોદ્ધારક પ્રતિષ્ઠાનનો ભારોભાર આભાર.. પૂજ્ય મુનિરાજ શ્રી આ અધ્યયનની દિશામાં વધુ ને વધુ પ્રગતિ સાધે એ જ પરમ કૃપાળુ પરમાત્માને પ્રાર્થના..
做飄飄飄飄飄盟强强强强强强强强强强强飄飄靈驅
ઊંઝા જૈન સંઘ.
Jain Education Internal
linelibrary.org
010_05
Page #6
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
प्रशस्य-प्रयासे-परिभावनीया प्रशंसा
讓缓缓靈跟靈張張張靈靈靈靈靈跟靈靈靈靈靈靈靈靈靈靈靈靈器
मानवजीवनस्य सारो धर्मः ।। स धर्मः चतुर्विधः । तस्य प्रकाराः दान, शील, तपो, भावाः । तेष्वपि प्राधान्यं चतुर्थ-प्रकारस्य भावस्य । भावधर्म: मनःसापेक्षः । मनोऽतीव चाञ्चल्यभाग् । तस्य नियन्त्रणं कुत्रापि चैकत्रसंयोजनेन संभवितुमर्हति । तादृशः स्थानस्य वैभिन्न्यम् । वरं तेषां उदारमुत्तमं स्थानं नवपदेन विना न कुत्रापि उपलभ्यम् । 'अरिहंता' दिनवपदे येनाऽपि स्वकीयं मनो नियोजितम् । न तस्य मनसश्चाञ्चल्यमतिक्रामति । कया रीत्या आराध्यं नवपदम् ? इति प्रश्ने एकमेवोदाहरणं प्रदर्शितं सर्वज्ञभगवद्भिः , गणधरगुरुवरैः, गुरुपरंपरया च ।
風飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙
in Education in
2010 05
For Private & Personal use only
w.jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
网靈蜜蜜蒙蒙蒙張靈靈靈靈靈靈靈靈靈靈靈靈靈靈驗激靈靈靈靈
तस्याभिधानं नीयते गुरुगौरवेन श्रीपाल-मयणानाम्ना । यद्यपि बहूनि-चारित्राणि वर्तन्ते संस्कृत-प्राकृत-गूर्जरभाषायां श्रीपाल-मयणयोः । तथापि संस्कृत-भाषायाः प्रारंभ-कालीन-अभ्यासूनां सुगम-बोधाय-स्फुरित-स्वान्तः-स्फुरणा-साफल्य च आदृतःप्रयत्नः सुविनीत-प्रवरेण मुनिश्रीनयचन्द्रसागरेण ।
सुरत-शिखरजी-महासंघ-प्रारंभ समय एव महाशुक्लपञ्चम्यां तिथौ श्रीमदागमोद्धारकाचार्यप्रवरधूराणामानन्दसागरसूरीश्वराणां दीक्षकशत वर्ष समापन वेलायां सुरत-गोपीपुरास्थित तेषामेवगुरुमूर्तिसमक्षं प्रतिज्ञातं तैः उक्तमुनीश्वरैः यत्
अस्मिन्सुसंघे ममैका प्रतिज्ञा यत् आचाम्लतपःपुरस्सरेण श्रीपाल-मयणा-चरित्रं पद्यात्मकं संरचितव्यम् ।
अनेकविधविनवातजातान्तरायेऽपि स्व-प्रतिज्ञापालनैकरसजोत्साहेन एकशत-चत्त्वारिंशत् दिनमाने सुदीर्घकालीने सफले सङ्के साफल्यं वरीवृत्तमिति प्रशस्यतामर्हति मुनिवरप्रयासः ।
प्रकाशनवर्त्मनि अवतीर्यमानमिदं चरित्रं अनेकेषामात्मनां नवपदवर्त्मन अवतरणाय प्रबल-परिबलरूपं प्राप्स्यतीतिमदीयो मतः ।
मा स्म भूयादसौ मुनेः प्रयत्नः अत्रैव विरामभाग् । किन्तु वृद्धि प्राप्यमानीभूय अनेक-ग्रंथानां शृङ्खलानिर्माणाय अविरामी भवतु इति आशान्वितो-अहम् हेमचन्द्र-सागरः ।
X
___Jain Education
ww.jainelibrary.org
a l 2010-05
Page #8
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
蒙翼翼蒙靈靈靈靈靈靈靈靈環激激靈靈靈靈靈靈靈靈靈靈靈出
'अवसरोचितं मत्कम्' तहवि अणवच्च मेघं समथि आराहणं नवपयाणं ।
इह लोइअ पारलोइअ सुहाण-मूलं जिणु४ि ॥१९०॥ सिरिवाल कहा इत्यनया गाथया ज्ञायते यद् सिद्धचक्रस्येयमाराधना सिद्धान्तेषु 'शाश्वती विद्यते इति निरूपिता, किंतु साम्प्रतकालीना येयमाराधना दृश्यते तस्याः मूलं तु मुनिसुव्रत जिनवरशासने श्रीमता मुनिचन्द्र सूरीश्वरेण मदना विज्ञप्त्या श्रीपालस्य वपुषः रोगोपशमनार्थं मनसश्व समाध्यर्थं सिद्धचक्रस्याराधना कया पद्धत्या कदा च काले कर्त्तव्या इति पूर्वेभ्य उद्धृत्य संघसमक्षं प्रकटितम् ।
ततः सम्यग् संशुद्धया सिद्धचक्रस्य समाराधनेन मदनाश्रीपालाभ्यां सिद्धचक्राराधना तदाराधकवर्गेषु मानसे स्थिरीकृता यतः 'महाजनो येन गतः स पन्थाः'इत्युक्त्या सर्वे भक्ता आराधकजना तयोरनुसृत्य तद्वदेव सिद्धचक्रस्याराधना प्रारब्धा, सोऽधुनापि समाचर्यते श्रीसंघेन ।
मम संयमस्वीकारात् द्वितीये चातुर्मासे चन्द्रावत्यां (चाणस्मा नगरे) पूर्णनन्दसागरमुनिवरनिश्रायां श्री रत्नशेखर सूरिवर शिष्य हेमचन्द्रसूरिणा सुरभाषायां सरलतया संदृब्धा श्रीपालकथा मया पठितुमारब्धा, प्रवर्धमाने च तस्या अभ्यासे चेतसीदमासीनिश्चितं यदहं गीर्वाण गिरायां कदाचित् काँश्चिदचनां करिष्ये तदा श्रीपालकथामेव ।
तथा च वैक्रमीये सप्तचत्वारिंशदधिके द्विसहस्रतमे वत्सरे वसन्तपञ्चम्यां तिथौ श्रीमतामागमोद्धारकाणां सूरीश्वराणां
蒙靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈張靈靈靈靈靈靈
Jain Education
a l 2010_05
For Private & Personal use only
x
ww.jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
काव्यम
आशनादिना कृता साहित्यं वक्ष्यामा दात्री कान्त
毁張靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈張靈
संयमशताब्दीप्रसंगे सूर्यपुरनगरे आगमोद्धारक श्रीवनदर्शिका प्रदर्शनी संघटिता, तस्यागमोद्धारकै ग्रंथितानां ग्रंथानां, प्राचीनानाञ्च पुस्तकानां संशोधन-संपादन प्रकाशनादिना कृतां विस्तृतामतिगहनां साहित्यसेवां समालोक्य मम मनसि साहित्याऽऽदरः समुद्भूतो यज्जिनशासनस्य किञ्चित् प्रत्युपकर्तुमहमपि किमपि साहित्यं स्रक्ष्यामीत्युल्लासोऽपि समवर्धत अन्यच्च तस्मिन्नेव वासरे सूर्य पूरात् सम्मेत शिखर महातीर्थ यात्रासंघे सम्प्रवृत्ते मम देहजन्मदात्री सद् संस्कार दात्री कान्ताबेन मातुः प्रबलव्याधिग्रसन-व्यतिकर-श्रवणेन मम मनोऽवनौ विचाराङ्करः समुत्पन्नो यद् मातुरायुर्दिन संख्या प्रमाणेन संस्कृत-प्राकृतभाषायां नवीनतम ग्रन्थाङ्कानाम् रचना भवेत्तर्हि कथंचिद् मातृणं पूर्णतां प्राप्स्यति इति चित्तगतः सङ्कल्पाङ्करोऽपि सिद्धचक्रं प्रति भक्तिप्रद्योतकेऽस्मिन् कथाग्रन्थनिर्माणे निमित्तोऽभूत्, एतैर्निमित्तैः प्रेर्यमाणोऽहं संघप्रयाणस्य प्रथम दिवसादारभ्य संघमालारोपणदिनं आचाम्लतपसा सह श्रीपालकथेयं संदृब्धुमारब्धा, संघमालारोपणदिने च पूर्णतामाप्ता देव-गुरु भारती कृपाऽनुग्रहात् ग्रन्थोऽयं पण्डिताभ्यां पं अमृतलाल पटेल-पं. रुदेद्रव त्रिपाठीभ्यां संशोधितः ।
एनञ्च ग्रन्थं हस्तलिखितस्वरूपेण रक्षितुमैच्छतमहं, किन्तु गुरुवर्याणामाज्ञयाऽनेकेषां च श्रमण-श्रमणी-श्राद्धानां विज्ञप्त्या मुद्रितो भवति ।
रचनाऽस्य ग्रन्थस्य सिद्धचक्रं प्रति मम श्रद्धासंकल्पौ तु सफलौ भूतौ ग्रन्थस्याऽस्याऽभ्यासेन यस्य कश्चित् सिद्धचक्र प्रति समाराधको भाव: संपत्स्यते श्रद्धा च वय॑ते आराधनाऽपि च समीचीना संभविष्यति तदा प्रकाशनप्रयासः सफलो भवितेति मे मतिः ।
आ० हेमचन्द्रसागरसूरि शिष्याणुर्मुनिर्नयचन्द्रसागरः ।
强靈激激發靈靈靈靈蒙蒙蒙蒙蒙蒙蒙眾飄飄飄飄飄歌蒙蒙蒙獵
_JainEducation Inm
a l 2010_05
For Private & Personal use only
ww.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
प्रास्ताविकम्
श्रीमति जिनदर्शने नवपदानि तत्त्वरूपाणि मूलभूतानि सन्ति तेषु चार्हन्तः सिद्धाः आचार्याः उपाध्यायाः साधवः सम्यग् ज्ञानं दर्शनं चारित्रं तपश्च । एतेषु अर्हत्-सिद्धाः देवतास्थानीयौ आराध्यौ आचार्योपाध्यायसाधवः समाराधकाः बोधकाः गुरुस्थानीयाः । सम्यग् रूपाणि ज्ञान-दर्शन- चारित्र तपांसि धर्मभूतानि आचाररूपाणि तत्त्वानि सन्ति ।
एतेषां नवपदानां जिनशासनेऽपूर्वाद्भुताभक्तिर्दरीदृश्यते अतएव तेषां आराधना, तस्याश्च स्वरूपं फलं प्रभावं च व्यावर्णयितुं संस्कृतप्राकृतादिप्राच्यभाषायां प्राचीनाचार्यवर्यैरर्वाचीनैश्च विद्वद्धि गूंजरहिंदीप्रमुखप्रादेशिक भाषायां नैके ग्रंथा: ग्रथितास्सन्ति तेषु 'सिरिसिरिखलकहा ' नाम्नी प्राकृतभाषानिबद्धा श्रीमदनशेखरसूरिवराणां कृतिः नवपदाराधकस्य श्रीपाल भूपालस्य चरित्रग्रंथेषु मूर्धन्याऽग्रिमा च वर्तते, प्राकृत भाषाऽभ्यासिवर्गेषु संप्रति महदादरमापद्यते च तामनुकृत्याऽनेकैः सूरिवरैर्येग्रंथाः श्रीपालकथावर्णनाप्रधानाः प्रणीतास्तेषां केषांचित् नामादि परिशिष्टे विवृतमस्ति । एतेषु ग्रंथरत्त्रेषु 'सिरिवालकहा' एवोपजीयत्वमलंकरोति ।
सत्सु चैतेषु प्राचीनप्रबंधेषु नवीन श्रीपालकथाकाव्यकरणेण कोऽद्य हेतुरालम्ब्यत ग्रंथकारेण मुनिश्रीनयचंद्रसागरेण १. प्रथमं तु श्रीपालकां आत्मनो भावभृता भक्तिरेव प्राधान्यमर्हति यया गीर्वाणगिराया अनतिबोधेऽपि मुनिनाऽनेन श्रीपालकथा वैक्रमीये सप्तचत्वारिंशदुत्तरे द्विसहस्रतमे वत्सरे (२०४७) वीरे च सप्तदशाधिके सार्धंद्विसहस्त्रतमे (२५१७) संवत्सरे श्री समेतशिखरमहातीर्थयात्रायां प्रवर्त्तमानायां सत्यां प्रारभ्य संघमालारोपणदिनैव संपूर्णतामापादिता इति प्रस्तुत ग्रंथ प्रशस्तितोऽवगम्यते ।
अन्यच्चैतत्ग्रंथग्रथनं सिरिवालकहामाश्रित्यैव रचितेष्वपि प्राक्तनेषु विविधप्रबंधेषु केचित् श्रीपालकथाप्रसंगाः तैस्तै प्रबंधनिबद्धृभिरुज्झिताः सन्ति यथा-श्रीपालस्य माता कमलप्रभा उम्बररोगाकीर्ण जनपेटकान् मुक्त्वोज्जयिन्यां स्थिरीभूता कौशाम्ब्यां च कुमार श्रीपालस्य रोगापनोदार्थमौषधी - गवेषणार्थं गता तत्पश्चात् रुग्ण-गणे श्रीपालस्तस्मिन्समये व कथंकारेण वा न्यवसदिति कथाघटकः संस्कृत भाषाबद्धेषु श्रीपाल प्रबंधेषु नैव दृश्यते २. मदनया सार्धं विवाहादूर्ध्वं श्रीपालेण प्रथमं तु नवपदाराधनं कृतमुज्जयिन्याम् किंतु तदनन्तरं विदेशभ्रमणावसरे द्वितीयवारं चैत्रमासे सिद्धचक्रस्याराधना कुत्र कृता
Jain Education Intal 2010 05
***********
| काव्यम्
९
Page #11
--------------------------------------------------------------------------
________________
208
काव्यम्
श्रीपालमयणामृत
तदुल्लेखोपि न विद्यते ठाणा नगरे द्वितीयवारमाराधनं कृतमिति गूर्जरभाषानिबद्धे श्रीपालरासे प्रोल्लिखितं वाचकवर्ययशोविजयेन ।
३. नवपदाराधनायां या नवपदानाम् मण्डलाकृतिश्चतुष्कोणत्रिपादिकायां वेद्यां धान्यैरालिख्यते इति सिरिवालकहा-प्रोक्ता-सिद्धचक्राराधना विधिः श्रीपालकथासु समग्रासु तूच्छिना सांप्रतमाराधना व्यवहारोति ताहग न दृश्यते ।
एतद्विधाः विविधाः कथाप्रसंगाः नूतनेत्र श्रीपालकथाकाव्ये ग्रंथकृता मुनिवरेण सिरिवालकहाग्रंथस्य कथा संस्कृतभाषायां सामस्त्येनावतारिता कृता पुनरपि च कथाग्रंथेऽस्मिन् प्रकाशमासादिता ।
काव्यग्रंथे चैतस्मिन् नूतने नूतन संस्कृतभाषा ज्ञानमाष्य संस्कृतभाषायां केचनग्रंथपठनेच्छूनां सर्वेषां उपयोगार्थमेव मुनिना ग्रंथरचनायां शैली सरला कृता, भाषाऽपि नाऽति प्रौढा किंतु सद्य-आस्वाद्या ग्रथिता पद्येषु केधुचित् भावरम्यता ध्वनि-साम्येनाऽऽविष्कृता यथा
धेहि धर्मे धियं धीर ! धौरेय ! धर्मधारिणाम् ॥२१॥ ___ भवे भवे सदा भूयात्त्वमेव शरणं मम ॥१५१॥
बालोऽसि सरलोऽसि त्वं सकुमारोऽसि रे ! सुत ! । विदेशभ्रमणं नूनं विषमं दुःखदायकम् ॥३०९॥ चल रे चल शीघ्रं त्वं संतुष्टोऽस्ति तवोपरि । बलिं दास्यति देवस्य धवलस्तव सार्थवः ॥३५०॥ क्वचित् शब्दालंकरणमपि प्रकटीकृतं कूटश्लोकरचनया मरणशब्दो समस्यया व्याख्यातः यथा पुत्रीमुखात्कुमारोऽपि स्माह चित्रोत्तरं श्रुणु । आसादयति यदूपं मरेणुः मरणैः विना ७८१॥
भाषायाम् रचनायाम् सरलता तस्लीकारिष्यन्ति नूतनान् भाषाऽभ्यासचिकीर्छन्, प्रेरयिष्यन्ति चैताउँशि अनुप्रासादमण्डितानि प्रास्वाद्यानि पद्यानि, उत्सुकयिष्यन्ति च कूटानि पद्यानि चानवद्यानि इत्यन्ते प्रार्थ्यन्ते प्रौढभाषाविद्वद्भ्यः प्रस्तास्यन्तु कथामेतामात्मीय-छात्रेषु छात्रालयेषु चापि यथाऽन्येऽपि मुनयो विद्वांसच्चैतमनुकृत्य कृतकृत्या भवितुमर्हति नवीनग्रंथ निर्माणे । किंचिदज्ञतया मिथ्यालिखितं तत्क्षमार्तं भवतु इति ।
अमृत पटेल
盟飄飄飄飄飄强强强强强强礙發飄飄飄飄飄
__JainEducationM
vww.sainelibrary.org
A
nal2010-05
Page #12
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
काव्यम्
飄飄飄靈靈靈器靈發飄飄飄靈激蒙蒙激發飄飄激激蒙
* ॥ श्री श्रीपाल-मयणामृत-काव्यम् ॥ * नत्वा मुदा त्रियोगेन पार्श्वशवेश्वराभिधम् । ध्यात्वा नवपदी चित्ते सद्गुरुञ्च सुभावतः ॥१॥ | संस्मृत्य श्रुतदेवीञ्च श्रीश्रीपालकथा शुभा । नवपदस्वरूपार्था मया विस्तीर्यते मुदा ॥२॥ श्रोणीस्थापितपाणिर्यः प्रसारितपदो नरः । स्थितः वैशाख-संस्थाने भ्राम्यश्चापि दिवानिशम् ॥३॥ लोकाकाशे तथाकारे माने रज्जु-चर्तुदशे । पञ्चास्तिकाय-सम्पूर्णे दृष्टे केवलिना तथा ॥४॥ ऊर्ध्वाधो-मध्यभागेन त्रिधा लोको विभाव्यते । ऊर्श्वे देवा विराजन्ते ह्यधोभागे तु नारकाः ॥५॥ मध्यलोकस्तु विज्ञेयस्तिर्यग्लोकाभिधानतः । द्वीपोदधि-क्रमेणात्र सन्ति तेऽसंख्यमानतः ॥६॥ जम्बूद्वीपोऽस्ति तन्मध्ये लक्ष-योजननिस्तलः । सप्तक्षेत्रमयस्तस्य मध्ये मेरूस्सुशोभितः ॥७॥ | दक्षिणे भरते क्षेत्रे मध्यखण्डे विराजिते । मगधाभिध-देशेऽस्ति मौलिरत्न समे शुभे ॥८॥
m盟盟飄飄飄飄飄飄盪發飄飄飄飄飄飄飄飄飄飄飄飄飄飄盪器
Jain Education in
2010_05
For Private & Personal use only
RON.jainelibrary.org.
Page #13
--------------------------------------------------------------------------
________________
श्रीपाल-.
काव्यम्
मयणामृत-18
वैभार-विपुलाख्याभ्यां गिरिभ्यां समलङ्कृता । धन-धर्मेषु धूर्यास्ति पुरी राजगृही शुभा ॥९॥
श्रेणिको राजते भूपः शुद्ध-सम्यक्त्व धारकः । प्रसिद्धोऽयं प्रतापेन दानवारि-सुवाहकः ॥१०॥ & सुनन्दा-चेल्लणाद्याश्च तस्य जायाः पतिव्रताः । रमन्ते रति-रूपेण कुर्वन्ति जिन-सेवनम् ॥११॥
अभयः कोणिको हल्लो विहल्लाद्याश्च तत्सुताः । शस्त्र-शास्त्रेषु दक्षास्ते लक्ष-लक्षण-लक्षिताः ॥१२॥ राज्यं पालयते राजा प्रसन्ना वसति प्रजा । गीयन्ते सद्गुणास्तत्रभूपते गरैः सदा ॥१३॥ श्रीगौतमगणधर आगमनम् देशना प्रारंभः | संसार-सागरे मज्जत्-प्राणिनामेक-तारकः । तत्रैकदा पुरोद्याने श्रीवीरः समवासरत् ॥१४॥ | प्रेषयति ततः स्वामी गौतमं गुण-धारिणम् । राजगृहीं शुभं क्षेत्रं भव्यानां धर्म-हेतवे ॥१५॥
सगण: श्रीगणीन्द्रश्च जिनादेशानुसारतः । राजगृह्यां सदुद्यानं मण्डयति महामनाः ॥१६॥ | विज्ञायागमनं तेषां नृपस्तूद्यानपालकैः । निजद्धया सुसमेतोऽथ वन्दनार्थमुपागतः ॥१७॥
SERIES
Jain Education Inter
21 201005
For Private & Personal use only
Mainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल-
विहिताभिगमो राजा तिस्रो दत्वा प्रदक्षिणाः । प्रणिपत्य प्रभोः पादौ संस्थितः सपरिग्रहः ॥१८॥
वाहताभि मयणामृत
* स्वामिना गौतमेन्द्रेण प्रारब्धा धर्म-देशना । गम्भीर-गिरया तत्रागर्जेज्जलधरो यथा ॥१९॥
दुर्लभं मानुषं जन्म संसारोदर-वर्तिनाम् । तल्लब्ध्वा सफलं कार्यं धर्माराधनया चरेत् ॥२०॥ धर्म स्वरूपम् | धेहि धर्मे धियं धीर ! धौरेय ! धर्मधारिणाम् । धर्मो हि शर्मकृन्नित्यं सत्यमेतत्सनातनम् ॥२१॥ 2 दान-शील-तपो-भाव-भेदाद् धर्मश्चतुर्विधः । भावेन तु समाराध्यः सर्वकालं मुमुक्षुभिः ॥२२॥
तत्रापि विशुद्धो भावो-धर्मः सिद्धि-प्रदोऽग्रणीः । ऋते भावं त्रयो धर्माः सिद्धि दातुं नहि क्षमाः ॥२३॥ विना भावं तु विज्ञेयं दानं पात्रेऽपि निष्फलम् । शीलमपि विना भावं विफलं कथितं ध्रुवम् ॥२४॥ | तपोऽपि न भवत्येवं संसारपारकारणम् । सभावं तु सुदानादि सकलं सिद्धिसाधनम् ॥२५॥ मोक्षस्य जागृतिमद् लक्ष्यं भावोऽस्तीत्युच्यते बुधैः । स्थिरोऽस्तु निर्मलो भावः स्थिरे शुद्धे हि चेतसि ॥२६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
盟靈凝露飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄盪盪靈蹤器
___JainEducation internation-2010_05
For Private Personal use only
ainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत-
काव्यम्
श
.
.
.
微微飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈
तत्स्थैर्यार्थं तु निर्दिष्टं ध्यानं स्वालम्बनं शुभम् । आलम्बनं विना ध्यानं दुर्लभं देहधारिणाम् ॥२७॥ बहुशो दर्शितं शास्त्रे सद्भिरालम्बनं ततः । तत्रापि सिद्ध-चक्रस्य ध्यानमुत्तममुच्यते ॥२८॥ नवपद स्वरूपं प्रभावश्च | अर्हत्-सिद्ध-सुसूरीश-वाचकाः सर्वसाधवः । दर्शन-ज्ञान-चारित्र-तपांसीति नवात्मकम् ॥२९॥ | दशाष्टदोष-निर्मुक्तं प्रातिहार्याष्ट-शोभितम् । पूजितं देव-देवेन्द्रैस्तद्ध्येयं प्रथमं पदम् ॥३०॥
कर्म-मल्ल-विजेतारो लोकान्तेऽवस्थिताश्च ये । प्राप्ताऽनंतगुणाश्चैवं ध्येयाः सिद्धाः मुमुक्षुभिः ॥३१॥ पञ्चाचार-पवित्रा ये जिन-सिद्धान्त-देशकाः । परोपकार-कर्तारो ध्यातव्याः सूरिपुङ्गवाः ॥३२॥ साङ्गोपाङ्गसुशास्त्राणि नित्यमध्यापयन्ति ये । उपाध्यायाः सदा ध्येयाः प्राणिभिः शुक्ल पाक्षिकैः ॥३३॥ गुप्ताक्षाः विषयैर्मुक्ताः रक्ताश्च गुणसाधने । सेव्या मुनीश्वराः सद्भिर्मोक्षमार्गसमुत्सुकैः ॥३४॥ | सिद्धांते स्थित-तत्त्वानां श्रद्धानं दर्शनं मतम् । क्षायिकादिप्रभेदस्थं सेव्यतां तद्धि सज्जनैः ॥३५॥
靈靈靈靈疆疆疆疆疆盟盟盟盟盟盟靈靈靈靈靈靈靈靈靈靈體器
___JainEducation intedigs2010_05
For Private Personal use only
nelibrary.org
Page #16
--------------------------------------------------------------------------
________________
काव्यम्
मयणामृत
श्रीपाल- IN जीवाजीवादि-तत्त्वानां बोधो ज्ञानं तु कीर्तितम् । श्रद्धया तन्मुमुक्षुभिर्ध्यातव्यं सप्तमे पदे ॥३६॥
| आश्रवद्वाररोधेन संवर-निर्जरात्मकम् । ध्येयं सद्भिः सुचारित्रमात्मशुद्धिकरं परम् ॥३७॥
मूलोत्तर-गुणोपेतं चारित्रं द्विविधं मतम् । देशतः सर्वतस्तच्च ह्याराध्यमष्टमे पदे ॥३८॥ * सर्वकार्याणि साध्नोति तपसः स्थिरता सदा । द्विविधं तत्तपः प्रोक्तं बाह्याभ्यन्तर-भेदतः ॥३९॥ • सिद्धान्त-सारभूता या सर्वकल्याणकारिका । अपवर्गस्य दात्री सा नवपदी जिनोदिता ॥४०॥
एतैर्नवपदैः सिद्धं सिद्धचक्रं सुख-प्रदम् । श्रीपालवच्च सेवातः श्रियं प्राप्नोति धर्मवित् ॥४१॥ कः श्रीपालः कथं तेन सिद्धचक्रं सुभावतः । समाराध्य सुखं प्राप्तं गणेश्वर ! प्रकाशतां ॥४२॥ एवं पृष्ट नृपेणाथ प्रोक्तवान् गौतमो गणी । श्रोतव्या दत्त-चित्तेन कथा नरपते ! त्वया ॥४३॥ श्रीपालकथारंभ:-मयणाजन्म-अध्ययन-परीक्षा च इहैव भारते क्षेत्रे देशे मालव-संज्ञके । पूरस्त्युज्जयिनी तत्र प्रजापालाभिधो नृपः ॥४४॥ शिष्टे सौम्यः स राजास्ति दुष्टे दण्डप्रदायकः । नीतिशास्त्रानुसारेण प्रजा पालयते सदा ॥४५॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
風靈跟靈擺盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露露露露
____JainEducation International 2010_05
For Private Personal use only
Page #17
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
飄飄靈盟飄飄飄飄飄盪盪盤獵强盟盟盟飄飄飄飄
| द्वे भार्ये तस्य भूपस्य शीलालङ्कारभूषणे । पतिव्रता-गुणोपेते देवपूजा-परायणे ॥४६॥ मिथ्यात्वमोहिताऽऽसीदेका नाम्ना सौभाग्यसुन्दरी । सम्यग्दृष्टिर्द्वितीयाऽभून्नाम्ना तु रूपसुन्दरी ॥४७॥ भोगोपभोगौ भुञ्जाने नृपेण सह ते मुदा । प्राफकाले प्रसुवाते राज्यौ कन्ये मनोहरे ॥४८॥ प्रहर्षेण नृपेणैवं कृतं नाम तयोः शुभम् । स्वान्तस्था मुत्तदा व्याप्ता पुरे पौरगणे भुवि ॥४९॥ तयोरभूच्च प्रथमा तनया सुरसुन्दरी । द्वितीया स्वगुणैः ख्याता नाम्ना मदनसुन्दरी ॥५०॥ धात्रीभिाल्यमाने ते क्रमेणातीत-शैशवे । अध्यापनाय मातृभ्यां विज्ञापितो महीपतिः ॥५१॥
शैव-जैनमतज्ञौ यौ शिवभूति-सुबुद्धिकौ । ते चाध्यापयितुं बाले कोविदाभ्यां समर्पिते ॥५२॥ • छन्दो-गणितकाव्यानि नृत्यं चित्रं प्रहेलिका । आकारगोपनं चैव महिलोचित-कर्मसु ॥५३॥
निपुणे ते च सञ्जाते क्रमेण प्राप्त-यौवने । ज्ञानं करतले तेषां येषु गुरुकृपा सदा ॥५४॥ युग्मम् छ शिवोऽपाठीत् सुरां मुग्धां पुराणानि स्मृतिं तथा । कूटज्ञाने यथालीना जाता दर्पविदग्धिका ॥५५॥
蠻蠻蠻蠻蠻蠻蠻蠻蠻靈盟盟盟盟鄧靈器靈靈靈靈靈飄飄飄飄
Jain Education in
2010_05
For Private & Personal use only
jainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈認
अपाठयत् सुबुद्धिस्तु मदनां जिनवाङ्मयम् । जाता धीरा विनीता च लज्जादि सुगुणान्विता ॥५६॥ यथा गुरुस्तथा शिष्यः निर्दिष्टं तु सुभाषिते । सुरा जाता कुदृष्टिस्तु मदना सौम्यदर्शना ॥५७॥ आनायिते निजपार्श्वे बाले ते सुपरीक्षितुम् । पित्राऽन्यदा सभायां वै ते कलाचार्य-संयुते ॥५८॥ तयोर्मति-परीक्षायै समस्यापदमर्पितम् । नृपेणानंदयुक्तेन 'पुण्यात्किं किं सुलभ्यते' ॥५९॥ | अतिचञ्चल-चित्तत्वात् विदग्धत्वाच्च संमदात् । क्षणेन पूरयामीति वदति सुरसुन्दरी ॥६०॥ • यौवनं च सुरूपञ्च विदग्धत्वं वरं धनं । स्वचेतःप्रियकृत् भर्ता पुण्यादेतानि लभ्यते ॥६१॥ ॐ श्रुत्वैतद् भूपतिर्दृष्टः पाठकेनापि शंसिता । सत्यं सत्यं मृषा नास्ति वदन्ति च सभासदः ॥६२॥ • पूरयति नृपादिष्टा मदनाऽपि ततोऽपरा । समस्यां धीर-गंभीरा शान्ता दान्ता स्वभावतः ॥६३॥ * विनयश्च विवेकश्च प्रसत्तिश्च' सुशीलता । हेतुश्च मोक्ष-मार्गस्य पुण्यादेतानि लभ्यते ॥६४॥
取靈靈靈靈靈靈驗靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈體
१. प्रसत्ति:-प्रसन्नता ।
in Education Inte
4201005
ama.jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
認飄飄盪飄飄飄靈獵獵獵獵獵認飄飄飄飄飄飄
सुरसुंदरी मनोरूप वरनिर्णयः जननीपाठको हृष्टौ श्रुत्वैतत्किन्तु नापरे । यतस्तत्त्वोपदेशो हि मुदे न स्यादसदृशाम् ॥६५॥ इतश्च कुरुदेशेऽस्ति नाम्ना शङ्खपुरी शुभा । दमितारिर्नृपस्तत्र प्रजां पाति सुदैववत् ॥६६॥ | अवन्तीपति-सेवार्थं प्रतिवर्षं समेति स: । आगतः किन्तु तत्स्थाने सुतोऽरिदमनाभिधः ॥१७॥ दिव्य-रूपञ्च तं प्रेक्ष्य क्षुब्धा सा सुरसुन्दरी । भृशं स्मर-शरैभिन्ना कामो हि दुरतिक्रमः ॥६८॥
स्मराकुलां सुतां वीक्ष्य नृपोऽपि ज्ञाततन्मना: । प्राह ते कं वरं कुर्याम् कस्तुभ्यं रोचतेऽथवा ॥६९॥ | ततः सा वक्ति चेत्तात ! प्रसन्नोऽसि मयि प्रभो । वर्तते मे मनोदेशे वरत्वेनाऽस्तु मे सदा ॥७०॥
भू-नेत्राऽऽस्य-विकारेण संलक्ष्यान्तर्गतं मनः । प्राह भूपस्तथैवाऽस्तु तवेच्छा पूर्यते मया ॥७१॥ नृपोक्तिमेवमाकर्ण्य प्रोचुस्तथा सभाजनाः । संबंधोऽयमभूदैवाद् लक्ष्मी-विष्णुवदुत्तमः ॥७२॥ मदनागांभीर्यं कर्मवादस्थापना च राज्ञा पृष्टाऽथ सस्नेहं वरा) मदना ततः । लज्जाविवेकतो भूत्वाऽधोमुखी नाह किञ्चन ॥७३॥
點綴飄飄飄飄飄飄盪盪靈靈靈飄飄飄飄飄盪激盤發發發發器
Jain Education Inter3
2010_05
For Private & Personal use only
E
wjainelibrary.org
Pror
Page #20
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Inter
988
पुनः पृष्टा नरेन्द्रेण विमृश्यैवमुवाच सा । पितः ! किं पृच्छ्यते प्रश्नः लज्जाकरो विवेकिना ? ॥७४॥ वरार्थं कुल-बालानां वचनं नोचितं सदा । स्वीकरोति कुलीना हि पितृदत्तं पतिं मुदा ॥७५॥ निमित्तमात्रमेवास्ति पितरौ वरकर्मणि । बद्धकर्मविपाकाद्धि संबंधाः खलु देहिनाम् ॥७६॥ यादृशं क्रियते कर्म प्राणिनाऽत्र शुभाशुभम् । प्राप्यते तत्फलं तेन प्राणिना नात्र संशयः ॥७७॥ दत्तापि दुष्कुले कन्या पुण्यशीला सुखं वसेत् । सुकुले चापि दत्ता चेत्पुण्यहीना दुःखं वसेत् ॥७८॥ संश्रुत्यैवं तदा प्राह ! रक्तेक्षणः नृपः सुतां । वस्त्रालंकारभोगाः मे कृपां विना कथं तव ? ॥७९॥ विहस्य मदनाऽऽहेति पितस्तव कृपा कुतः । त्वद्गृहे या ममोत्पत्तिः सा हि प्राक्कृतकर्मणा ॥८०॥ रक्षणे भक्षणे चैव जीवने मरणे तथा । रोगे शोके तथा भोगे नान्यत्कर्मैव कारणम् ॥८१॥ भवेयुः सुखिनश्चेद्भो ! त्वत्प्रसादाद्धि देहिनः । तव सेवा -रता लोकाः अप्येते दुःखिनः कथम् ॥८२॥
2010 05
काव्यम्
ow.jainelibrary.org.
Page #21
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
यतः - ( उपजाति वृत्तं )
भाग्याधिकं नैव नृपो ददाति तुष्टोऽपि वित्तं खलु सेवकाय । रात्रौ दिवा वर्षति वारिधारा तथापि पत्रत्रितयं पलाशे ॥८३॥
बहुनोक्तेन किं तात ! तवेच्छया वरोऽस्तु मे । सुन्दरोऽसुन्दरो वापि कृत-कर्मानुसारतः ॥८४॥ पर्षल्लोकोप्यथाऽऽहेति मुग्धया नाऽवगम्यते । यत्त्वं सुरद्रुमोऽसीति तुष्टो रूष्टो यमोपमः ॥८५॥ राजवाटिकायां कुष्टिपेटक वर्णनम् मिलनम् च
राजानं कुपितं दृष्ट्वा मन्त्री वदति हे नृप ! । पश्यतु वर्तते राज- वाटिका - समयोऽधुना ॥८६॥ निर्यातो नरनाथोऽपि सामन्तादिसमन्वितः । नागरैः स्तूयमानस्स पश्यन् शोभां पुरोद्भुताम् ॥८७॥ पश्यति स समायान्तं पुराद् यावत् बहिर्गतः । समूहं कुष्ठिलोकानां साटोपं धूलिकायुतम् ॥८८॥ प्रेक्ष्य पृच्छति भूपालः समेति कः कथं कुतः । अमात्यो ज्ञात - वृत्तान्तो विज्ञापयति भूपतिम् ॥८९॥
Jain Education Intern 2010-05
888888888
काव्यम्
१०
lainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- भो भो राजन् ! महाभाग ! श्रूयतां वच्मि यद् यथा । कुष्ठिवृन्दं समायाति भवदर्शनहेतवे ॥१०॥ मयणामृत
• दुष्टकुष्ठाभिभूतत्वात् मिलिताः सपराक्रमा: । वृन्देऽत्र युवराजाश्चः प्राग्रूपाः प्राप्तयौवनाः ॥११॥
तन्मध्ये स्थापितो बालः कश्चित्तैः नायके पदे । उम्बराभिधरोगत्वादुम्बरराज उच्यते ॥१२॥ • सेवन्ते तं हि राजानं त्वग्दोषी छत्रधारकः । घण्टाकरोऽपकर्णोऽस्ति निर्नासश्चामरोद्वहः ॥१३॥ | गतांगुलिस्तु मन्त्र्यस्ति दद्रुरोगीस्थगीधरः । जय जयेति जल्पन्ति सर्वे जना तदाऽनुगाः ॥१४॥
केचित्प्रसूतिकायुक्तास्तथाकेचित् विचर्विकाः । केचित्सन्ति सपामानो नीरोगी नास्ति' कोऽपि वै ॥१५॥ | परिभ्रमन्ति मक्षिकाः शोणितक्षरणात् भृशं । चित्रं स्वरूपं दृष्ट्वा तं धिक् धिक् कुर्वन्ति पूर्जनाः ॥१६॥ एवं स उम्बरो राजा सप्तरुग्णशतावृतः । नृपदत्तं सुवर्णादि-धन-धान्यकणादिकं ॥१७॥ सुवर्णभूषणादीनि महीतले परिभ्रमन् । राजद्वारे प्रगृह्णाति स चागच्छति सन्मुखम् ॥१८॥ ( युग्मम्) | तेषां संसर्गजो वायुर्महारोगस्य कारणम् । दुष्ट-कुष्ठ-महाव्याधिः प्रादुर्भवति तत्क्षणम् ॥१९॥
网盪盪盪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈器
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露露
Jain Education interR
Ifor
2010-05
Page #23
--------------------------------------------------------------------------
________________
श्रीपाल मयणामृत
Jain Education Inte
*****8888888888882 283 28
गन्तव्यमन्यमार्गेण मन्त्रिणा प्रेरिते सति । यावद्वलति भूपालः पेटकोऽपि च तदिशि ॥ १०० ॥ नृपेणाऽभाणि भो मन्त्रिन् पुरो गत्वा निवारय । देयं धनादिकं तेभ्यः दर्शनञ्चाशुभं यतः ॥ १०१ ॥ इत्येवं वदतो राज-मन्त्रिणोस्तत्क्षणं तदा । शीघ्रं समेत्य मन्त्री सः प्रोवाच गलिताङ्गुलिः ॥१०२॥ सन्मान्यते नृपैः सर्वैरस्माकं प्रभुरुम्बरः । महद्भिर्दान - मानाद्यैः सुखिताः स्मस्ततो वयम् ॥१०३॥ कार्यं न नो धनादिभ्यः समस्ति शृणु भो ! नृप ! । देहि ह्युम्बर- राजाय कुरूपामपि कन्यकाम् ॥१०४॥ याचितं न त्वया युक्तं मन्त्रिणोक्तं तु तं प्रति । को दत्ते कुष्ठिने कन्यां यादृशीं तादृशीमपि ॥ १०५ ॥ निशम्य सचिवोक्तं स प्रावादीद् गलिताङ्गुलिः । कुकुलेऽपि समुद्भूता काचित्कन्या प्रदीयताम् ॥१०६॥ क्रियते प्रार्थनाभंगो न कदा मालवाधिपैः । इति या विस्तृता कीर्तिः स्थाप्यतां वा प्रहीयताम् ॥१०७॥ नृपोऽवादीच्च युष्मभ्यं काञ्चित् दास्यामि कन्यकाम् । को नाशयति सत्कीर्ति - मल्पमात्रेण हेतुना ॥ १०८॥ अचिन्तयन्नरेन्द्रोऽसौ दग्धज्ञानस्तदा यथा । कुष्ठिने मदना देया शत्रूभूता स्वकर्मतः ॥ १०९ ॥
al 2010 05
काव्यम्
१२
ww.jainelibrary.org
Page #24
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈盟盟靈靈飄飄飄飄靈靈靈靈靈靈靈盟
राज्ञः राजमंदिरगमनं मदनाया: उम्बरेण सह विवाहः • मार्गमध्याद्वलित्वाऽथ समायातः स्वमन्दिरे । समाहूय निजां पुत्री-मवादीत्मदनां त्वदः ॥११०॥ | यदि चेन्मन्यसे बाले ! सुखं मम प्रसादतः । घनं धनं प्रयच्छामि परिणाय्य वरं वरम् ॥१११॥
यदि स्वकर्ममाहात्म्यम् मन्यसे चेत्त्वया सुते ! । तदा ते कर्मणाऽऽनीतो वरो भवतु कुष्ठिकः ॥११२॥ उवाच सा प्रमाणं मे पित्रादेशात् पतिर्मम । राजसू रंकसूनुर्वा ह्यानीतो मम कर्मणा ॥११३॥ समाहूयोम्बरं तत्र ह्यवदत् स विशांपतिः । तवैव कर्मणानीतो भवत्वयं वरस्तव ॥११४॥ नृपोक्तं वचनं श्रुत्वोम्बरो साञ्जसमब्रवीत् । शोभते काककण्ठे न स्वर्णमाला तु भूपते ॥११५॥ कृत-कर्म-फलं भुञ्जे नेच्छा भाव्यशुभे मम । मद्योग्यां देहि कन्यां चेत् कल्याणमस्तु तेऽथवा ॥११६॥ स्वीकृतं चानया कर्म मत्कृपा नैव मन्यते । कर्मणा त्वं समानीतो दोषोऽत्राऽस्ति न मे न ते ॥११७॥ करं गृह्णाति सा शीघ्रं नृपवाक्यात् ततः परम् । मदनोम्बरराजस्य प्रसन्न-वदना मुदा ॥११८॥
幽靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈靈靈靈靈靈靈靈靈
Jain Education Inter
2010_05
For Private & Personal use only
Page #25
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盟靈靈靈靈靈靈靈飄飄飄飄靈靈靈飄飄飄飄飄毁靈靈靈飄飄飄
जाने विवाह-लग्नं सा साधयति नवा तथा । "एष वरः प्रमाणं मे कार्यं नान्येन" वक्ति सा ॥११९॥ मातुलो पुण्यपालश्च ह्यरोदीद् रूपसुन्दरी । परिवारस्तथा तस्याः हा हा जातं किमप्रियम् ॥१२०॥ | सञ्जातः कुष्ठिनां हर्षो लब्ध्वा कन्यां मनोहराम् । अपेक्षाधिकसंप्राप्त्या हर्षः केषां न जायते ॥१२१॥ | निर्वर्तते स्वकोपान्न नृपो यावत्तथापि च । प्रचलति न धैर्यात् सा ज्ञाततत्त्वा हि बालिका ॥१२२॥
ततश्च वेसरारूढो ह्युम्बरो मदनान्वितः । सकुष्ठि-पेटकोऽचालीत् स्वनिवासं प्रति श्रिया ॥१२३॥ • धिक्कारयन्ति केचित्तु राजानं केऽपि मातरम् । तस्याभाग्यमुपाध्यायं केचिन्निन्दन्ति पूर्जनाः ॥१२४॥
केचिद् बालां तथा केऽपि निन्दन्ति जिनशासनम् । 'तुण्डे तुण्डे मतिभिन्ना' इति सूक्ति र्नु स्मर्यते ॥१२५॥ | क्रमेण राजमार्गेण गच्छन्ति घुम्बरादयः । स्थित-प्रज्ञैव सा बाला तिष्ठति पेटकान्तरे ॥१२६॥ • धर्मतत्त्वं विजानाना मदना सुन्दरी हृदि । अतोऽत्र विषमे काले प्रसन्ना दृश्यते जनैः ॥१२७॥
समागत्य निजावासे कृतो जयजयारवः । उम्बरपरिवारेण कृतो लग्न-महोत्सवः ॥१२८॥
飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙蒙盟
Jain Education Intern
2010_05
For Private & Personal use only
v.jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
燃毁靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
इतः पृष्टो विवाहार्थं राज्ञा लग्नं शुभं मुदा । प्रियकन्या-सुरायास्तु नैमित्तिकस्तदाऽवदत्॥१२९॥
वर्तते दिन शुद्धिस्तु यावदद्य नरेश्वर ! । विगता लग्नवेला तु कन्यापाणिग्रहक्षणे ॥१३०॥ छ श्रुत्वैतद् वचनं तस्य सनिर्वेदं नृपोऽवदत् । आः सुज्ञातं ! शुभं लग्नं मेलनं यत्र कुष्ठिनः ॥१३१॥ | लग्नं शुभं कथं यत्र नैवानंदो न च क्षणं । अहं विवाहयिष्यामि सुतामेतां तु सोत्सवं ॥१३२॥
शीघ्रं सम्पाद्य सामग्री कृतो लग्नमहोत्सवः । करमोचनवेलायां कन्यादानं प्रदत्तवान् ॥१३३॥ हस्त्यश्वाँश्च सुवर्णञ्च दासदासी धनादिकम् । मणि-माणिक्य-रत्नानि कन्यायै प्रददौ नृपः ॥१३४॥
अनुपाणिग्रहं सोऽरि-दमनो नाम राजसूः । समेतः सुरसुन्दर्या प्रस्थितः स निजां पुरीम् ॥१३५॥ | "सञ्जातो योग्य-संबन्धः दैवयोगेन चैतयोः । धन्यास्ति खलु पुण्यास्ति कुमारी सुरसुन्दरी" ॥१३६॥ "एतस्याः पुण्यवन्तो हि माता पिता कुलं गुरुः"। जना इत्थं प्रशंसन्ति शिवधर्मं तथा पुनः ॥१३७॥
Jain Education Inteman512010_05
For Private & Personal use only
Page #27
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Inte
-
3289 280 281 282 283 282888 289
मदनायाः शीलं प्रति सदाग्रहः
इतश्च कूष्ठिराजेन प्रोक्ता सा सुन्दरी निशि । वृणु कश्चिन्नरं भद्रे ! सफलं कुरु यौवनम् ॥१३८॥ कुष्ठसंगेन जातो मे देहे कुष्ठः भयंकरः । तथा तवापि देहे स्यादत्र स्थेयं न सुन्दरम् ॥१३९॥ श्रुत्वा पतिगिरं वक्ति साश्रुनेत्रा हि सा सती । " न वक्तव्यं पुनर्नाथ ! वच इत्थं त्वया कदा ॥१४०॥ निःकृष्टं महिलाजन्म गतशीलञ्च चेद्यदि । कुथितं कञ्चिकं यद्वद् लोके सूक्तं तथा त्विदम् ॥१४९॥ यतः ( शार्दूलविक्रीडितं )
दत्तस्तेन जगत्यकीर्ति-पटहो गोत्रे मषी - कूर्चकश्चास्त्रिस्य जलाञ्चलिर्गुणगणारामस्य दावानलः ।
संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः, शीलं येन विलुप्तदोष-मखिलं त्रैलोक्यचिन्तामणिः ॥ १४२ ॥ अन्यथा शरणं नास्ति त्वमेव शरणं वरं । तस्मात् कारुण्यभावेन स्वामिन् श्रुणु वचो मम ॥ १४३॥ पापविपाकतस्स्त्रीत्वं जायते ऽनन्तत: ध्रुवम् । अतो विज्ञापयामि त्वां त्वमेव शरणं मम ॥१४४॥
al 2010 05
काव्यम्
१६
ww.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Intern
विभूषिताऽप्यलंकारैः शीलालंकारवर्जिता । श्वेताप्यशुचिलिप्ता गौस्तथा वामा न शोभते" ॥१४५॥ अस्तं गतो रविः सायं मदनां द्रष्टुमक्षमः । द्रष्टुं तां दृढसत्त्वां तु पुनः प्रोदयते रविः ॥ १४६ ॥ नाभेयमन्दिरं प्राप्त उम्बरो मदनाऽनुगः । प्रणम्यादि - जिनं तत्र रोमाञ्चित शरीरवान् ॥ १४७ ॥ प्रसन्नवदना तत्र मदना मधुर स्वरा । स्वामिनं श्री - युगादीशं स्तोतुं प्रक्रमते मुदा ॥१४८॥ युगादौ देवदेवाय योगीश्वराय शंभवे । नाभिकुलाब्जहंसाय स्वामिस्तुभ्यं नमोनमः ॥१४९॥ सर्वविघ्नहरं नाथं सर्वसिद्धिप्रदायकम् । सर्वसत्त्वहितं वन्दे श्रीकरं परमार्थदम् ॥ १५०॥ अनाथाऽशरणानां त्वं-नाथस्त्वं शरणं तथा । भवे भवे सदा भूयात्त्वमेव शरणं मम ॥ १५१ ॥
जिनालये भावोल्लासः
एवं जिनस्तवे मग्ना मदना वर्तते सुधीः । तावदुच्छलिता माला जिन- कण्ठावलम्बिता ॥ १५२ ॥
2010-05
काव्यम्
१७
'
Page #29
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
期跟蹤獵獵靈靈靈靈靈靈靈靈靈靈靈靈靈靈强望望露露盟認證
फलञ्च जिनहस्तस्थं तदैवोच्छालितं हि तद् । शासनाधिष्ठितै देवैः वैयावृत्यकरैः यतः ॥१५३॥ | मदनाप्रेरितः स्वामी क्षणाद् गृह्णाति तत्फलम् । स्वयं मालाञ्च गृह्णाति सानंदाद्योतचेतसा ॥१५४॥
भणितं च तया स्वामिन् ! तनुरोगो गतस्तव । जातोऽस्ति येन संयोगो जिनेश्वरकृपावरात् ॥१५५॥ मदना पौषधागारे पत्या सह गता ततः । प्रणम्य मुनिचन्द्रं च शुश्राव धर्मदेशनाम् ॥१५६॥ मानुषत्वं कुलं रूपं सौभाग्यं दीर्घमायुषम् । स्वर्गापवर्गसौख्यानि प्राप्यते पुण्ययोगतः ॥१५७॥ पुण्यं तु लभ्यते धर्मादुपायोऽन्यो न विष्टपे । अतो विहाय मिथ्यात्वं जिनधर्मं ततो भजेत् ॥१५८॥ देशनान्ते गुरुर्वक्ति वत्से कोऽयं नरोत्तमः । सर्वोऽपि निजवृत्तान्तो रुदत्या कथितं तया ॥१५९॥
सा वदति पुनः पूज्या ! नास्ति दुःखं ममापरम् । परन्तु निन्द्यते मिथ्या-द्दग्भिधर्मो जिनोदितः ॥१६०॥ | स्वामिन् कृत्वा प्रसादं मे तदुपायं निवेदय । येन कुष्ठ-महाव्याधिर्लोकवादश्च नश्यति ॥१६१॥
盟鹽盟盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈獵蒙蒙蒙盟
Jain Education Intern
2010_05
For Private & Personal use only
Jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
रोगनाशाय नवपदपूजा, तत्प्रभावश्च
वदन्ति गुरवो "वक्तुं साधुभिस्तु न कल्पते " । मन्त्रं तन्त्रं तथा वैद्यं सावद्य - साधनत्वतः ॥ १६२॥ उपायो विद्यते शास्त्रेऽनवद्यो यस्य तथाऽपि हि । आराधनं त्वया भद्रे कार्यं नवपदस्य तु ॥ १६३ ॥ अर्हत्-सिद्धः सुसूरीशः पाठकश्च मुनीश्वरः । दर्शन - ज्ञान - चारित्र - तपांसि सिद्ध-चक्र ॥१६४॥ एतद्विरहितं लोके तत्त्वं नान्यत् शुभावहम् । एतेष्वेव जिनेन्द्रेण मतं जैनं निवेशितम् ॥१६५॥ सिद्धाः सिद्ध्यन्ति ये जीवाः सिद्धिं यास्यन्ति ये पुनः । ते सर्वे सिद्धचक्रस्य ध्यानाज्जानीहि निश्चितम् ॥१६६॥
निष्पन्नं नवभिश्चैतैः सिद्धचक्रं तु कथ्यते । आलिख्य पट्टके ध्येयं धर्मकामै र्यथोदितम् ॥१६७॥ पद्मं तु कर्णिका-मध्यं दलाष्ट परिवेष्टितम् । रचयित्वार्हदादीनि ध्येयान्यत्र पदानि तु ॥ १६८ ॥
मध्यपीठेऽत्र संस्थाप्य मर्हन्तं प्रथमं पदं ।
ż आदौ नमश्चान्ते स्वाहान्तसमलंकृतम् ॥ १६९॥
Jain Education Interna 205 2010 05
有有有有有有有
काव्यम्
१९
jainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत-
||
98060888
पद्माकारे तथा सिद्ध-चक्रे शुभ्रे दलाष्टके । दिक्षु सिद्धादयः स्थाप्याः विदिक्षु दर्शनादिकम् ॥१७॥ विद्याप्रवादतः पूर्वात् सिद्धचक्रं समुदधृतम् । नवनीतं यथा दध्नः सुधाजलनिधेस्तथा ॥१७१॥ तत्त्वे मन्त्रे रहस्ये च परमार्थे पदे तथा । प्रज्ञप्तं भगवद्भिर्हि पदमेतत्परं परं ॥१७२॥
क्षान्तो दान्तो निरारम्भो नर आराधको मतः । विपरीतस्तु विज्ञेयो धर्मतत्त्व-विराधकः ॥१७३॥ | एतस्याराधको भूत्वा चित्तं दुष्टं करोति यः । गुणौघान् बुबुदीकृत्य विनाशयति निश्चितम् ॥१७४॥
अतोऽत्र निर्मलं कार्यं चित्तं गुणगणार्थिभिः । समाराध्यं तपःकर्म विधिना समुपासकैः ॥१७५॥ | आश्विनस्य शुभाष्टम्यां शुचीभूय जिनालये । पूजा कार्या समागत्य सिद्धचक्रस्य भावतः ॥१७६॥ • जल-चन्दन-पुष्पादि-धूप-दीप समन्विता । अक्षत-फल-नैवेद्यात्मिका पूजाऽष्टभेदतः ॥१७७॥
आचाम्लेन तपः कुर्यादेवमष्ट-दिनावधि । नवमे तु दिने कार्ये तपः-पूजे सुविस्तृते ॥१७८॥ एवं चैत्रेऽपि कर्तव्यो ह्यष्टाह्निक-महोत्सवः । सार्ध-चतुर्पु वर्षेषु पूर्णमेतत्तपो भवेत् ॥१७९॥
=靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盤盟缓缓缓强激疆
飄飄飄飄飄飄飄靈强認
Jain Education Inte
FRJw.jainelibrary.org
19
201005
Page #32
--------------------------------------------------------------------------
________________
श्रीपाल- मयणामृत-18
काव्यम्
盟飄飄飄盪盪盤强 飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄盟眾
नवपदस्य सद्ध्यानं कार्यं तत्तपकर्मणि । पूर्णे तपसि निर्दिष्टमुद्यापनं सु-विस्तृतम् ॥१८०॥ शुभ-भावेन यः सम्यक् तपःकर्म करोति हि । सुरासुरनरेन्द्राणां सम्पदस्तस्य हस्तगाः ॥१८१॥ दुष्ट-कुष्ठ-क्षयाः सर्वे ज्वर-भगन्दरादयः । पूर्वोत्पन्ना विनश्यन्ति तपस्विषु भवन्ति न ॥१८२॥ यदि वा किं बहूक्तेन सर्वदा तत्प्रसादतः । मनसा चिन्तितं सर्वं जनः प्राजोत्यसंशयम् ॥१८३॥ सिद्धचक्रस्य माहात्म्यं सुमहत्सुख-सम्प्रदम् । श्रुताम्भोधि मथित्वाथ गुरुभिस्तु प्ररूपितम् ॥१८४॥ श्रद्धासम्पन्नसङ्घाय दिशन्त्यथमुनीश्वराः । उपादेयं तु वात्सल्यं सार्मिकेषु नित्यशः ॥१८५॥ यतःसार्मिके तु संप्राप्ते यदा स्वीये गृहाङ्गणे । स्नेहो न दृश्यते यस्य सम्यक्त्वे तस्य संशयः ॥१८६॥ जिनभक्तिः कृता तेन शासनस्योन्नतिस्तथा । सार्मिकेषु वात्सल्यं कृतं येन सुबुद्धिना ॥१८७॥ (युग्मम्) दाता प्रदाय धर्मीभ्यो धनधान्यादिकं भशम् । दाता स्वस्यैव कर्माणि यानि भवोदभवान्यहो ॥१८८॥ १. दाता- दा ( यच्छ) तृच् प्रत्ययांत प्र.ए. २. दाता-दी-क्षये ४/२/७ हैम. श्व. श्री. ए.व.
盟强强强强飄飄飄飄飄飄靈盟盟徽强强强强强强强
Jain Education Interfell 2010_05
For Private & Personal use only
Page #33
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
श्राद्धैस्तु दीयते तुष्टैः संस्थाप्य वरवेश्मनि । धनधान्यादिकं ताभ्यां स्वर्ण-वस्त्रादिकं तथा ॥ १८९॥ तत्र स्थितः कुमारोऽथ पूजा विधि प्रशिक्षते । गुरूणामुपदेशेन मदनावचनेन च ॥ १९०॥ प्राप्तायामाश्विनस्याथ श्वेताष्टम्यां यथाविधि । साकं मदनया सिद्ध-चक्रं तपः करोति सः ॥१९१॥ आदौ देह-मनः शुद्धिं कृत्वा पूजां च भावतः । अकार्षीज्जिनराजस्य सिद्धचक्र - विधानतः ॥ १९२॥ तथा श्रीपाल आचाम्लं सादरं ह्यकरोत्तदा । जातः पुलकितांगो हि प्रथमे दिवसे ततः ॥१९३॥ द्वितीयेऽहनि प्रशाम्यन्ति सविशेषं तदामयाः । रोगे दिने दिने क्षीणे सद्भावस्तस्य चैधते ॥ १९४॥ नवमेऽथ दिने सिद्ध-चक्रस्यातिप्रभावितः । पद्मगंधि- जलैः शीतैः स्त्रात्रं पञ्चामृतैः कृतम् ॥ १९५॥ शान्तिमन्त्रैः जलं पूतं स्नात्रस्य बहुमानतः । संसिक्तमथ सर्वाङ्गे शान्तिकान्तिप्रदं मुदा ॥ १९६ ॥ दिव्यं जातं वपुस्तस्य नीरोगिता च सौष्ठवम् । दृष्ट्वाश्चर्यं तदालोकैरभण्यत चमत्कृतैः ॥१९७॥ न दृष्ट ईदृशः पूर्वं प्रभावोऽखिल - जन्मनि । मन्त्रतन्त्रौषधीनां यद् रोगाः शाम्यन्ति तत्क्षणात् ॥१९८॥
Jain Education Inter 2082 2010 05
{8 8 8 8 8
काव्यम्
२२
w.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत-
盟靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈
जातो ननु चमत्कारस्तत्र कोऽपि न संशयः । कलिकालेऽपि कल्पद्रु-रेषाह्याराधना खलु ॥१९९॥ भणितं गुरुणा तावद् ह्याश्चर्यं चात्र किं ? श्रृणु । शान्तेर्जलेन गच्छन्ति विलयं विष-वेदनाः ॥२००॥
भूत-प्रेतादिदोषाश्च जल-ज्वलन-सङ्कटाः । स्त्रीदोषा ईतयः शीघ्रं नश्यन्ति तत्प्रभावतः ॥२०१॥ | संसिक्तं तज्जलं कुष्ठि-पेटके च ततस्तदा । जाताः सर्वेऽपि ते प्रायो रूप-सौन्दर्य-शालिनः ॥२०२॥ | रूपं निरूपमं दृष्ट्वा मदनोवाच "पश्यतु । सर्वो गुरु प्रसादोऽयं नाथ ! नान्यस्य कस्यचित्" ॥२०३॥ | जाताश्चर्यः कुमारोऽथ सञ्जातो धर्मधीधनः । सुदेव-गुरु-धर्मेषु ह्येकान्त-भक्ति-तत्परः ॥२०४॥ | अतश्च धर्मध्यानेन प्रयान्ति वासराः वराः । नित्यं प्रभातकाले तौ जग्मतुर्जिनमन्दिरम् ॥२०५॥ श्रीपालस्य मात्रे तपः प्रभाव निवेदनं मदनायाः सतीत्वप्रशंसा च बहिर्निस्सरंतौ यावज्जिनमन्दिरतोऽन्यदा । पश्यतः स्त्रियमायान्ती वृद्धामेकां तु सन्मुखम् ॥२०६॥ मातरं वीक्ष्य सद्भक्त्या श्रीपालस्तत्क्षणं तदा । मातृपादौ सरोमाञ्चः नमति स्म सगद्गदम् ॥२०७॥
盟强强强强强强强强强望露盟盟盟獵獵張靈靈强强强强
Jain Education Inter
2010-05
For Private & Personal use only
.
Page #35
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- अहो ! वृष्टिरनभ्राऽद्य जातास्ति जननि ! खलु । देव गुर्वोः प्रसादेन कुशलं वर्तते नु वः ? ॥२०८॥ मयणामृत-8||
• वंदते मदनानम्रा ज्ञात्वा नाथस्य मातरम् । श्रीपालो वक्ति वध्वास्ते प्रभावोऽस्त्यखिलो ह्ययम् ॥२०९॥ | आशीर्ददाति माता तं पुत्रं पुत्रवधूं तथा । वृत्तं कथयति स्वीयं सकलं हर्षदं यथा ॥२१०॥
यावद् व्रजामि कौशाम्ब्यां मुक्त्वात्वामत्र हे सुत ! । वैद्यं श्रुत्वा जनश्रुत्या सर्वरोगनिवारकम् ॥२११॥ | वैद्यो न मिलितस्तत्र तीर्थयात्रां गतस्तु सः । प्रतीक्षामकरोत्तस्य धैर्याद् धर्मपरायणा ॥२१२॥ तावज्जिनगृहे तत्र दृष्टो मुनिवरस्तदा । शान्तदान्तगुणोपेतश्चारित्रैकमनाः शुभः ॥२१३॥ नत्वा पृष्टं प्रभो ! पुत्र: नयनानंद-कारकः । प्रदर्शय कृपां कृत्वा नीरूङ् मे किं भविष्यति ॥२१४॥ | मुनिरुवाच भो भद्रे ! श्रूयतां तत्कथां मुदा । तेनैव कुष्ठिवृन्देन गृहीतोऽस्ति सुतस्तव ॥२१५॥ नाम्ना ह्युम्बरराजेतिस्वामित्वेन प्रमाणितः । यो मालवपतेः पुत्री-प्राणनाथोऽधुनाऽभवत् ॥२१६॥ सिद्धचक्रं समाराध्य सद्गुरुवचनेन च । काञ्चनीकान्तिवान्जातः पुण्यकर्म विपाकतः ॥२१७॥
__JainEducation intely
2010_05
For Private & Personal use only
brary.org
Page #36
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
वर्तत उज्जयिन्यां स गृहिण्या च समन्वितः । शुभे साधर्मिकावासे धर्मकर्म-परायणः ॥२१८॥ श्रुत्वा गुरुवचो वत्स ! सम्प्राप्ताऽस्म्यत्र साञ्जसा । दृष्टोऽसि त्वं समं वध्वा ज्योत्स्त्रया शशिवन्मया ॥ २१९ ॥ जिनेन्द्रपादपद्मञ्च संपूज्य सद्गुरूंस्तथा । धर्मं कुर्वन्ति सानंदं तत्रस्थास्ते जिनोदितम् ॥ २२० ॥ त्रयोऽपि तेऽन्यदा हर्षात् द्रव्य - पूजां विधाय च । भावार्चां ते प्रकुर्वन्तः यावद् देवं स्तुवन्ति च ॥२२९॥ इतो रोषान्विता व्यग्रा शोकाच्चेतसि विह्वला । स्वभ्रातुः पुण्यपालस्य गृहेऽगात् रूपसुन्दरी ॥२२२॥ मदनायाः मातुरग्रे श्रीपाल कुलकथनं
तत्र जिनेन्द्रपूजां सा करोति शोक - हारिणीं । स्वस्था जाताऽथ धर्मेण धर्मो हि जगतां धनम् ॥२२३॥ क्रमेण शोकनिर्मुक्ता राहुमुक्तेव चन्द्रिका । तदा जिनालयं तत्र समागाद् रूपसुन्दरी ॥२२४॥ कुमारं पुरतः प्रेक्ष्य मात्रा पल्या समं तदा । उपलक्ष्य च पुत्रीं स्वा-मचिन्तयद्यथातथा ॥२२५॥ नूनं तं कुष्ठिनं त्यक्त्वा नरान्यं मदना लगत् । संभाव्येन्न दृष्टेऽपि सुता मे कुलिनी खलु ॥२२६॥
2010_05
88
काव्यम्
२५
Page #37
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
जीवो जगति वर्तते । अहो कर्मविपाकाद्धि किं न जातं न जायते ॥२२७॥ यतः- (शार्दूल-विक्रीडितम्) ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डमाण्डोदरे, विष्णुर्येन दशावतार गहने क्षिप्तः सदा सङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥२२८॥ कुले कलङ्कमानीतं जिनधर्मे च दूषणम् । सुताया अपिदिष्टान्ते दुःखं स्यान्नहि तादृशम् ॥२२९॥ कथं न पतितं वज्रं मम कुक्षाविति स्वरैः । दुःखदैः करुणैरुच्चै रुरोद रूपसुन्दरी ॥२३०॥ तत्प्रेक्ष्य मदना वक्ति विहितचैत्यवन्दना । “हर्षस्थानेऽधुना शोको मातस्तव न शोभते" ॥२३१॥ जामाता तव नीरोगी जातो धर्माऽनुभावतः । प्रतीच्यामुदितेऽप्यर्के शीले मा कुरु संशयम् ॥२३२॥ | वक्ति माता कुमारस्य पुण्या कन्या शुभा तव । विकल्पं मा कुरु येन कुक्षिस्ते रत्नदायिका ॥२३३॥ १. दिष्टान्ते = निधने ।
微盟微觀眾蒙靈靈靈靈靈靈靈靈靈靈激蒙蒙蒙蒙蒙飄飄飄飄
६
Jain Education Intem
2010.05
For Private & Personal use only
Tot
ainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
| कुमार-मातरं श्रुत्वा ह्यपृच्छद् रूपसुन्दरी । हर्षो जातः किमेतच्च सद्वृत्तान्तः कथं भवेत् ॥२३४॥ | सम्ब्रूते मदना तत्र वार्ता न शोभते यतः । भवेद् नैषेधिकाभंगो वार्तालापे जिनालये ॥२३५॥ अतो मे गृहमेहि त्वं पूजाविधेरनन्तरम् । कथयिष्यामि मातस्ते सद्धर्मस्याखिलं फलं ॥२३६॥ गृहं गत्वा समग्रोऽपि वृत्तान्तः कथितस्तदा । सिद्धचक्रस्य माहात्म्य-युतो मदनया शुभः ॥२३७॥ हर्षिता तदुदन्तेन रूपा कुमारमातरम् । वदति ब्रूहि जामातृ-वंशं श्रेष्ठत्वसूचकम् ॥२३८॥ भणत्यथ कुमारस्य-माताऽऽनन्देन तां यथा । अङ्गदेशे प्रसिद्धाऽस्ति चम्पापुरी यथादिवम् ॥२३९॥ तत्र सिंहस्थो राजा राजते देवराजवत् । न्यायी गुणगणाऽऽपाती क्षमी सुधी यशोधरः ॥२४०॥ पतिव्रता सुशीला च तज्जाया कमलप्रभा । कोङ्कणदेशनाथस्य लघुस्वसाऽस्ति या सती ॥२४१॥ प्राज्य-राज्य-प्रभुत्वेऽपि समर्थे साधनेऽपि च । पुत्रप्राप्तेः कृते नित्यं चिन्तास्ति तस्य चेतसि ॥२४२॥
强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
SANSAR
Jain Education Inter
1989w.jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
飄飄盪盪器
काव्यम्
श्रीपालमयणामृत-%8
望靈靈靈靈靈靈靈靈靈靈靈靈靈靈體
पुत्रचिन्ता-श्रीपालस्य जन्म च अन्यदा सुखशय्यायां पुत्रचिन्तापरो निशि । अपनिद्रो नराधीशश्चिंतयामास चेतसि ॥२४३॥ मण्डनं मृतकस्येवांधकार इव नर्तितम् । विना पुत्रमिदं राज्यं सर्वं मेऽस्तीन्द्रजालवत् ॥२४४॥ निर्मूलो पादपः कूपः शुष्काऽशेषशिराजलः । पुत्रहीनस्तथा वंश: न स्युरेते चिरायुषः ॥२४५॥ | माता पिता कुलं जातिः सर्वं पुत्रेण दीप्यते । अपुत्राणां सदाप्येत-दस्तं याति हि निश्चितम् ॥२४६॥ | व्युच्छिन्नानि यथा मत्तो गुरूण्यरिकुलान्यपि । तथा कि मे कुलस्यापि विच्छेदो भविताऽधुना ॥२४७॥
यत:मेघहीना हता देशाः पुत्रहीनं हतं कुलम् । वस्त्रहीनं हतं रूपं हतं सैन्यमनायकम् ॥२४८॥ अतः सम्पूजिता देवी कुलस्य विधिपूर्वकम् । तेनोपायास्तथाऽन्येऽपि सुतार्थं कथिता भृशम् ॥२४९॥ तयोश्चिरेण पुत्रस्तु प्रवरस्वप्नसूचितः । लक्ष्मी-पालन-सामर्थ्यो जातः श्रीपालनामकः ॥२५०॥
盟强强强强强强强强强强强强强强强强强强强强强强强强强
Cow.jainelibrary.org
Jain Education Intel 081 2010 05
Page #40
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- | प्रामोदन्त जनास्सर्वे नृपोऽकरोत्महोत्सवं । वन्दनमालिका लग्नास्तस्यां पुरि गृहे गृहे ॥२५१॥ मयणामृत-18
लाल्यमानोऽथ बालः स संवर्धते दिवानिशम् । वर्षद्वयमितो यावन् मृतः शूलेन तत्पिता ॥२५२॥ पितुर्मृति वनभ्रमणं च | अङ्कस्थमपि संस्थाप्य राज्ये श्रीपालबालकम् । राज्यं रक्षति नीत्यैव मन्त्रीशो मतिसागरः ॥२५३॥ | श्रीपालस्य पितुर्धात्राऽजितसेनेन कारितः । सेनाभेदस्तु नाशाय रहसि नृप-मन्त्रिणोः ॥२५४॥ | ज्ञात्वा तन्मन्त्रणं शीघ्रं मन्त्रिवार्तानुसारतः । पुत्ररक्षा-कृते नष्टा कमला तु निशामुखे ॥२५५॥ | विनाशे बहवो दोषाः जीवन्प्राप्नोति भद्रकम् । मृतो न जयते शत्रून् जीवन्भद्राणि पश्यति ॥२५६॥ | कोमलापि पदा याति कटीस्थापितपुत्रका । एकाकिनी विपत्त्याप्ता चिन्तयति तु सा यथा ॥२५७॥ भर्तृमृत्यू रमानाशो राज्यभङ्गस्तु मामकः । व गमिष्यामि हा दैव ! त्वमेव शरणं मम ॥२५८॥ एवं चिन्तापरा सा तु यावद् व्रजति कानने । तरुभिर्भीषणैः घोरे कंटक-कर्करान्विते ॥२५९॥
靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟
眾飄飄飄飄飄飄飄靈飄飄飄飄飄飄盪盪徽靈靈徽墨飄飄盪器
___JainEducation international
2010_05
For Private Personal use only
www.sainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈
शूकरसिंहभल्लानां घोरशब्दान् निशम्य सा । वेपमाना भयाद् वक्ति रक्षणं देहि मे प्रभो ! ॥२६०॥ दृढीकृत्य मनोभावं यावद् धावति सा पथि । विरूपं पेटकं रौद्रं कुष्ठिनां मीलितं प्रगे ॥२६१॥ तद्दृष्ट्वा बाल-युक्ता साऽबला महाघ-भूषणा । रूपवती भयाधीरा प्रारेभे रोदितुं तदा ॥२६२॥ रुदन्ती प्रेक्ष्य तां कुष्ठि-मानवा अनुकम्पया । भद्रे ! कथय काऽसि त्वं प्राप्ताऽसि च कुतोभयम् ॥२६३॥ भ्रातृवत्तान् निजोदन्तः कथितश्च तदा तया । एवमाश्वासिता तैस्तु कुष्ठ र्भगिनिकेव सा ॥२६४॥ वयं तव सहोदर्याः मा त्वं भैषीः कुतश्चन । भगिनि ! चाश्चतर्यां हि समारुह्य समाव्रज ॥२६५॥ आरूढा वर वेसर्या सा तदाच्छादिता पटैः । स्वपुत्रेण युता तत्र प्रव्रजति सुखं पुनः ॥२६६॥ तावत्पृष्टाः समागत्य वैरिभटैस्तु कुष्ठिकाः । राज्ञी दृष्टा किमेका भो ! भवद्भिरत्र कानने ॥२६७॥ कुष्ठिजनैस्तदा प्रोक्तमस्मत्पार्श्वे भृशं भटा ! । 'पामास्ति', तां प्रगृह्णन्तु कार्यं स्यात् भवतां यदि ॥२६८॥ भटेनैकेन संज्ञाय प्रोक्तं श्रृणुत भो भटा ! । सत्यं वदन्ति त्वक्पुष्पां-पामामिमे ददत्यहो ॥२६९॥
鐵器設靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙
Jain Education Inten
2010-05
For Private & Personal use only
avainelibrary.org.
Page #42
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
强强强强靈靈靈靈靈靈靈靈靈靈靈盟
निशम्यैवं ततो नष्टाः सर्वे कुष्ट-भयाद् भटाः । वाञ्छति नामयं कोऽपीत्युक्ति सत्यापिता हि तैः ॥२७०॥ गतेषु तेषु संप्राप्ता सुखेन कमलप्रभा । नगर्यामुज्जयिन्यां तु सहसुता समास्थिता ॥२७१॥ विपदापन्नया मात्रा श्रीपालो पालितस्तया । भूषणक्रय-वित्तेन तान्यापच्छंखला खलु ॥२७२॥ लालितो पालितश्चैवं यौवनमाप पावनम् । स तदोम्बर रोगेण गृहीतकर्म-दोषतः ॥२७३॥ भोक्तव्यानैव कर्माणि तीव्राणि तीर्थरैरपि । यतितव्यं यथा भव्यैः तेषु तीव्र रसो नहि ॥२७४॥ | कृतैरप्युपचारैर्न जातस्तस्य गुणो यदा । रोग निःशमनोपायं पृच्छति सा जनं जनम् ॥२७५॥ • तदा विज्ञाय केनापि कौशाम्ब्यां कमला गता । वैद्यार्थं भालयित्वा स्व-पुत्रं तु प्रातिवेश्मिके ॥२७६॥ • वैद्यं तीर्थ-गतं ज्ञात्वा पत्यैक्षत चिरं स्थिता । विधाय मुनिवाचाऽत्र पुत्रशुद्ध्यर्थमागता ॥२७७॥
सास्म्यहं कमला पुत्र श्रीपाल एष मामकः । भूताऽस्य ते सूता भार्यारूपे । रूपवती सती ॥२७८॥ | जामातरं सुतं ज्ञात्वा सिंहस्थनृपस्य तु । पुत्री प्रशस्य पुण्यां च धर्मरूपाऽनुमोदते ॥२७९॥
山露微飄飄飄飄飄盟盟蹤跟蹤器靈靈靈靈毁毁醫毁毁毁盟器
Jain Education Inter 20201005
For Private & Personal use only
Page #43
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल- • संचिन्तयति सानन्दा सरोमाञ्चा स्वचेतसि । सत्यं सत्यं तु सा सूक्तिः धर्मो रक्षति रक्षितः ॥२८०॥ मयणामृत-18
सहर्षो ज्ञातवृत्तान्तः पुण्यपालोऽपि रूपया । मात्रा पत्न्या श्रयायुक्तं पालं नयति मन्दिरम् ॥२८१॥ पुण्यः ददाति वासांसि धनधान्यादिकानि तं । भुंजानो विविधान् भोगान्श्रीपालस्तत्र तिष्ठति ॥२८२॥ मदना-पितुः पश्चात्तापः श्रीपालसत्कारश्च प्रासाद-पार्श्व रथ्यायां प्रजापालोऽन्यदाऽगमत् । गवाक्षे मदनोपेतं कुमारेन्द्रं स पश्यति ॥२८३॥ प्रतीत्य मदनां चित्ते नृपश्चिन्तितवाँस्तदा । कुलं मदनया नष्टं मदनायत्तयाऽनया ॥२८४॥
कोपान्धेन मयाऽयुक्तं कृतं कामान्धयानया । अविमृश्य कृतं कार्यं हा हाऽयुक्ततरं खलु ॥२८५॥ | एवं प्राप्त-विषादोऽस्ति यावत्चिन्तापरो नृपः । समेत्य पुण्यपालश्च प्रोक्तवान् चरितं स्फुटम् ॥२८६॥ • तच्छ्रुत्वा भूपतिः शीघ्रं तद्धर्म्य संप्रविष्टवान् । सभार्येण कुमारेण सविनयं नमस्कृतः ॥२८७॥ • म्लानमुखो नृपस्तत्र धिग् धिग् वदति मामिति । धन्या त्वं कृतपुण्या त्वं सुष्ठ ज्ञाताऽद्य मे सुता ॥२८८॥
盤盤靈强强强强强强蹤露露望飄飄盪盪蒙盤
飄飄飄飄飄飄盪盪飄飄飄飄飄靈鬣鬣飄飄飄飄飄盤盤體驗
Jain Education Int! OT
2 01005
For Private & Personal use only
POww.jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
श्रीपाल -
मयणामृत
Jain Education Inter
88888888
कुलञ्च जननी पुत्र | जिनधर्मस्तयोद्धृतः । अज्ञान - तमसांधोऽस्मि क्षमस्व त्वं मम क्षतिम् ॥ २८९ ॥ सुतया प्रोच्यते तात ! खेदं मा कुरु चेतसि । मत्कर्मणैव संजातं भवद्दोषो न कश्चन ॥ २९०॥ सुखं दुःखं हि कस्मैचित् दातुं शक्तो न कोऽपि तु । स्वोपार्जितं तु सत्त्वैश्च स्वकर्मैवापभुज्यते ॥२९१॥ वहतुमा तस्मात् वृथापि स्यात्सुरैः कृतम् । जिनोदितं वरं तत्त्वं जानीहि जनकाऽचलं ॥२९२॥ समासाद्य तु संतुष्ठो जिनधर्मं नृपो मुदा । त्यक्तवान् शिवधर्मञ्च चमत्कृतै र्हि नम्यते ॥ २९३ ॥ भाग्यवतां नृपः श्रेष्ठः कोपोऽपि लाभदो यतः । करे चिंतामणि प्राप्तः पाषाणार्थं प्रसारिते ॥२९४॥ स्वप्रसादे समानीय स'-क्षणं तत्क्षणं नृपः । सन्मानितौ सुतास्नेहाज्जामाता बहुभिर्धनैः ॥ २९५ ॥ कन्यादानेऽवशिष्टं यद् नृपेण दीयतेऽधुना । यतो नैव समर्थोऽस्ति देवोऽपि दैवनाशने ॥ २९६॥ कामरूपः कुमारोऽथ क्रीडति स्वेच्छया पुरे । साश्चर्यं दृश्यमानोऽस्ति चक्षुष्यः सर्व नागरैः ॥ २९७ ॥ १. स-क्षण सोत्सवम् । २. चक्षुष्यः दृष्टमात्रेण शोभनम् ।
2010 05
काव्यम्
३३
Page #45
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- एकदा ष्ठीव्यते लोकैरेकदा पूज्यते च तैः । न स्थिरा सर्व-संयोगा गहना कर्मणां गतिः ॥२९८॥ मयणामृत-8
राजमार्गे हयारूढो यावद्गच्छति चैकदा । "कोऽस्ति देवकुमारोऽसौ" पृच्छति कोऽपि नागरः ॥२९९॥
नृपजामातृत्वे श्रीपालस्य निर्वेदः विदेशाटनं च • "जामातास्ति नरेन्द्रस्या" वदल्लोकः पथि स्थितः । निशम्य तस्य वाक्यं स प्रत्येत्य गृहमागतः ॥३०॥ | सविषादं कुमारं तं दृष्ट्वा पृच्छति तज्जनिः । किं व्याधि बर्बाधते कोऽपि वपुषि वत्स वर्णय ॥३०१॥ | केनापि खण्डिताज्ञा किं केनाप्यनादरः कृतः । मदनाऽविनया किं वा कथं म्लानं तवाननम् ॥३०२॥ विद्यतेऽमीषु हे मात ! ह्येकमपि न कारणम् । तथापि श्रूयतामास्यं निष्प्रभं केन हेतुना ॥३०३॥ पित्रो नाम्ना गुणैर्नास्ति ख्यातिनिजै र्गुणै र्मम । किन्तु नृपस्य जामाताऽस्मीति श्वासुरकै र्गुणैः ॥३०४॥ उत्तमाः स्वगुणैः ख्याताः पितृगुणैश्च मध्यमाः । अधमाः मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥३०५॥ अम्बा वदति हे पुत्र ! निःशल्यं कुरु चोच्चलम् । गृहीत्वा पितृराज्यं त्वं संगृह्याथ चतुश्चमूम् ॥३०६॥ १. उच्चलम् = चित्तम् ।
眾飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈
盟盟飄飄盪盪强强强强强强强盟强强强强靈盟飄盪盤露露器
Jain Education Inter 11
2010_05
For Private & Personal use only
ajainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत-18
飄靈靈靈靈靈靈靈盟靈靈靈器靈靈器靈靈靈靈
प्राप्नुहि निजं राज्यं मातर्न श्वासुरैर्बलैः । किन्तु बाहुबलेनैव मम सौख्यं भवेद्यदि ॥३०७॥
देशान्तरं गमिष्यामि करिष्यामि च विक्रमम् । पितृराज्यं गृहीष्यामि निजोपात्तैः श्रिया बलैः ॥३०८॥ | बालोऽसि सरलोऽसि त्वं सुकुमारोऽसि रे सुत ! विदेशभ्रमणं नूनं विषमं दुःख-दायकम् ॥३०९॥
वैषम्यं नास्ति हे मात विश्वे धैर्यवतां कदा । कापुंसां तु सदा ज्ञेयं विपरीतं पदे पदे ॥३१०॥ तयोक्तमागमिष्यामस्त्वया सहाऽधुना वयं । अस्माकं त्वामृते नास्ति वत्सात्र कोऽपि पालकः ॥३११॥ प्रोक्तं तेन प्रवासेऽहं मात ! र्येन भवामि नो । मुत्कलचरणस्तस्मात् यूवामत्रैव तिष्ठताम् ॥३१२॥ प्राहाऽथ मदना नाथ ! भविष्याम्यनुगामिनी । देहच्छायेव भारं न करिष्यामि कदाचन ॥३१३॥ तेन प्रोक्तं त्वया देवि ! उत्तमे ! धर्म-तत्परे ! । संस्थायात्रैव कर्तव्या नित्यं मातुः प्रसादना ॥३१४॥ नाथ ! नेच्छन्ति सत्यस्तु काञ्चित्प्रियं प्रवासिनं । तथापि यादृगाज्ञा ते शिरोधार्या सदा मम ॥३१५॥ वर्तते मे मनोभावे युस्मद् दर्शन-लालसा । धन्यस्स वासरः कोऽपि यत्र स्यात् सङ्ग आवयोः ॥३१६॥
盟飄飄靈靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈認
Jain Education Inter
1
2010_05
Page #47
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
强强强强飄飄飄望望强强强强强飄飄强望靈强强
| न भोक्तव्यानि चित्तेन ह्यर्हदानि पदानि च । जनन्याः स्मरणं कार्यं दास्या इव ममापि च ॥३१७॥ मङ्गलं तिलकं कृत्वा माता वदति तं प्रति । श्रेयसेऽहं करिष्ये ते सदा नवपदस्मृतिम् ॥३१८॥ मदनाऽऽह स्मरिष्यामि नवपदं प्रिया प्रियम् । निश्चलमनसा नित्यं तव कल्याणकारणम् ॥३१९॥ जनिं प्रणम्य जायाञ्च सम्भाष्याथ शुभे क्षणे । करवालं गृहीत्वा स गृहाच्चचाल सिंहवत् ॥३२०॥ कौतुकानीक्षमाणः स ग्रामाकरपुरादिषु । निर्भीको विक्रमी प्राप्तः परिसरं गिरेः क्रमात् ॥३२१॥ चंपकवृक्षपादस्थं प्रेक्षते पुरुषं वरम् । जपन्तमुपविष्टञ्च कुमारस्तत्र यातवान् ॥३२२॥ कोऽसि त्वं ध्यायसि किं त्वं किमेकाकी वने खलु । श्रीपालो विनयी न्यायी जापान्ते पृष्टवान् तकं ॥३२३॥
सानोमि गुरुदत्तां हि चिराद्विद्यां तथापि मे । न सा सिद्धेति तेनोक्तं ह्युत्तर-साधकं विना ॥३२४॥ • मम त्वं कुरु साहाय्यं भाग्यवदि भाषिते । सिद्धविद्यः स संजातो निशायां तत्सहायतः ॥३२५॥ • तेन प्रत्युपकाराय ओषधीयुगलं वरम् । दत्वा तस्मै कुमाराय कथितं साधकेन च ॥३२६॥
盤飄飄飄盪盪蜜露發飄飄强强激號盟盟盟盤盤體驗微微聚靈認
___JainEducation Inteens
2010_05
For Private & Personal use only
ww.jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल
या जलतारिणी चैकाऽपरा शस्त्र-निवारिणी । ते द्वे धातुत्रये क्षिप्त्वा त्वं भुजे धारये: सदा ॥३२७॥ मयणामृत
• याति गिरे नितम्बेऽथ सकुमारः स साधकः । तत्रस्थै र्धातुवादस्तौ, दृष्ट्वा तैः भणितं तथा ॥३२८॥
तव दर्शित-कल्पेन देव ! सा साधिताऽपि हि । निष्पत्तीरस-सिद्धेस्तु कथञ्चिन्नैव जायते ॥३२९॥ • प्रोक्तं तदा कुमारेण मयि पश्यति सुसाधय । स्वर्णरसस्य शीघ्रं हि सिद्धि र्जाता तथाकृते ॥३३०॥ • विना यत्नं भवेत्सिद्धिः सदैव भाग्यशालिनाम् । विश्वेऽखिले बलं पुण्यं पुण्यं सर्वार्थसाधकम् ॥३३१॥
सर्वं स्वर्णं गृहाण त्वं सिद्धिर्मे त्वत्प्रसादतः । एवं प्रोक्तेऽपि निर्मोहो न गृह्णाति कथंचन ॥३३२॥ a तस्य वस्त्राञ्चले किञ्चिदगृह्णतोऽपि काञ्चनम् । बध्नन्ति पुरुषास्तत्र कृतज्ञास्ते तु साग्रहम् ॥३३३॥
श्रीपालस्य भृगुकच्छे आगमनं धवलभटपराभवच | ततः क्रमात् स सम्प्राप्तो नगरं भृगुकच्छकम् । वस्त्रालङ्कारशस्त्राणि भर्मव्ययेन लब्धवान् ॥३३४॥ छ तत्र चौषधियुग्मं स भुजदण्डे त्रिधातुगम् । निबध्नाति कुमारश्च शूरः स कवचं यथा ॥३३५॥
微飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈綴飄器
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙
Jain Education Intern
2010_05
For Private & Personal use only
.
Page #49
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- • निर्भयस्तत्र संस्थाने विपणा-दुप-निष्करे । भ्रमति स्वेच्छया पुर्यां मराल इव मानसे ॥३३६॥ मयणामृत-18
इतो धवल नाम्नास्ति कौशम्ब्यां धनिको वणिक् । कुबेरवत् प्रसिद्धस्तु वित्तराशेश्चयेन सः ॥३३७॥ | लात्वा क्रयाणकं तेन हेमकोटि-प्रमाणकम् । भृगुकच्छे समागत्य व्यापारो वणिजाकृतः ॥३३८॥ | तत्र प्रकृष्ट लाभेऽपि न तुष्टो द्रव्यलोभतः । सिद्धान्तेऽपि प्रसिद्धं यल्लाभालोभः प्रवर्धते ॥३३९॥ | पणकार्ये पुनः श्रेष्ठ लक्ष्मीमब्धिमिवार्जितुम् । परकूलं यियासुः स स्वयानानि स्वसज्जयत् ॥३४०॥ | नृपादेशेन भृत्वा स नानाविध क्रयाणकैः । पञ्चशतानि यानानि चलितुमादिशभृशम् ॥३४१॥ दत्वाथ देवदेवीभ्यो बलिं निर्यामकैस्तदा । चाल्यमानानि यानानि मनागपि तु नाचलन् ॥३४२॥ तं दृष्ट्वा धवलो जातो म्लानमुखः स चिंतया । अस्तं गते नभोरत्ने सरःस्थं पुष्करं यथा ॥३४३॥ समागते तु दुःखे किं कोऽप्युपाय: करोति न । चिन्तातुरेण सम्पृष्टा तेन सीकोतरी ततः ॥३४४॥ १. उपनिष्करः = राजमार्ग ।
盟强强强强强强强强强獵獵强强强强强强强强强靈靈强
密認强强强强强盟强强强强强强蜜盟盟强强靈靈靈靈靈靈靈
Jain Education Interi
2010_05
For Private & Personal use only
Jw.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盟强强强强强强强强强强露露盟强强認强强强强强强强
द्वात्रिंशल्लक्षणोपेत-पुंसो बलि-विधिं कुरु । नान्योपायोऽस्तु सा वक्ति रुष्टदेवस्य तुष्टये ॥३४५॥ | प्राभृतं बहु ढौकित्वा संतोषयति भूपतिम् । मार्गितो बलिकार्याय धवलेन नरोत्तमः ॥३४६॥
वैदेशिकमनाथञ्च गृहाण स्वेच्छया नरम् । पुनर्नान्यो ग्रहीतव्यो नृपो वदति तं प्रति ॥३४७॥ धवलस्य भटैतिः श्रीपालस्तादृशो नरः । तद्ग्रहीतुं पुनाराजाऽऽदेशः प्राप्तश्च तै भटैः ॥३४८॥ | श्रीपालो लीलया सन्निविष्टोऽस्ति स चतुष्पदे । धवलस्य तदाऽऽक्षिप्तः खड्गादि-सज्जितै भटैः ॥३४९॥ • चल रे चल शीघ्रं त्वं सन्तुष्टोऽस्ति तवोपरि । बलिं दास्यति देवस्य धवलस्तव सार्थपः ॥३५०॥ • कुमारेण तदा प्रोक्तं हरेः किं दीयते बलिः ? । यद्धवल-पशो लॊके देयस्तस्य बलिः खलु ॥३५१॥ | यथा जेतुं महाराजं प्रवर्तते परोनृपः । तथैव ते भटा यावत्वाञ्जयन्ति निजं बलम् ॥३५२॥ | सिंहनादं कुमारेण कृतं श्रुत्वा दुताः भटाः । पलायन्ते मृगा भीताः मृगारेर्नादतो यथा ॥३५३॥ प्रेषयति परं सैन्यं धवल-प्रार्थितो नृपः । कुमारेण क्षणार्धेन हतशौर्यं कृतं हि तत् ॥३५४॥
盟露蠶蠶蠶蠶蠶蠶盟器靈靈靈器靈靈靈體聚靈靈靈靈靈盟
Jain Education Inter
! 2010_05
For Private & Personal use only
.
Page #51
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- पुनश्च धवलादेशात् कुमारं तं त्रिपङ्क्तिभिः । वेष्टयन्ति भटास्तत्र भूपति-सैन्यसंयुताः ॥३५५॥ मयणामृत-ॐ|
| कुन्ताऽसिचापशूलाद्या योधाऽऽयुधाः लगन्ति नो । तनौ मृदौ कुमारस्य महौषध्याः प्रभावतः ॥३५६॥ | कुमारेण शरैः स्वीयैः केशाः कर्णाश्च नासिकाः । छिन्नाः भिन्नाश्च केषांचिन्निहतं जीवितं खलु ॥३५७॥ - तं दृष्ट्वा विक्रमाक्रान्तं धवलेन विचारितम् । सामान्योऽयं नरो नाऽथ विद्याधरो महाबली ॥३५८॥ | श्रेष्ठी चाकथयत्तस्मै विनयेन कृताञ्जलिः । मद्यान-मोचनं कृत्वा ममोपरि कृपां कुरु ॥३५९॥ | सदैव सन्ति सन्तस्तु ह्युपकारपरायणाः । कृत्वा कञ्चिदुपायं हि ममापत्तिं निवारय ॥३६०॥
दीनार-लक्ष-दानं च श्रेष्ठिना स्वीकृतं तथा । सङ्कटे त समायाते नरैर्न गण्यते धनम ॥३६१॥ | तदा श्रीपाल आरोहत् ह्यग्रिमे यान-मस्तके । यथा कर्म विमुक्तात्मा लोकाग्रमधिगच्छति ॥३६२॥ स्थिरेण मनसा तत्र प्रशान्त-वदनेन च । हृदि नवपदं ध्यात्वा हक्काराव: कृतो द्रुतम् ॥३६३॥ उच्चैर्हक्का-रवाद् भीता दुष्टा-देवी पलायिता । कथं स्थातुं समर्था स्यात् सन्मुखं साधकस्य सा ॥३६४॥
盤靈靈綴綴飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄盟獵獵盟蒙蒙器
徽靈跟靈强强强强缓缓强强
___JainEducation intelier201005
For Private & Personal use only
w.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत
飄飄飄飄飄飄靈靈靈靈靈靈蒙蒙蒙霧露露露露露飄飄飄
प्रचलितानि सानन्दं यानपात्राणि वेगतः । यानानि सागरे तानि शोभते हंस-पङ्किवत् ॥३६५॥ प्रवहणेषु वाद्यन्ते सुभेरी भुङ्गलादयः । नार्यो नृत्यन्ति गायन्ति तत्र गीतानि हर्षतः ॥३६६॥ आश्चर्यं तस्य तज्ञात्वा स्वान्ते चिन्तितवान् वणिग् । रक्ष्योऽयं खलु मद्पार्श्वे येन विनं भवेन हि ॥३६७॥ दत्वा शत सहस्रञ्च दीनाराणां नयेन' सः । कथितवान् कुमाराय धी-धनो धवलस्तदा ॥३६८॥ दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । भटा दशसहस्त्रास्तु संगृहीता: मया खलु ॥३६९॥ त्वमपीच्छसि मत्सेवां वद तन्निज-वेतनम् । सोऽप्याह मे प्रदेयं यत् सर्वेभ्यो दीयते त्वया ॥३७०॥ श्रुत्वा स विस्मयं प्राप्तः सहसा धवलस्तदा । धूनोति मस्तकं किञ्चिद् विचिन्तितं यथातथं ॥३७१॥ कथं दीनार-कोटि-हि देयैकस्मै जनाय यद् । एकादशतमः प्राणो नृणां वसु सम्यग् खलु ॥३७२॥ महर्द्धिकेन सम्प्रोक्तं त्वया युक्तं न मार्गितम् । शीघ्रं समुचितं ब्रूहि श्रमेण प्राप्यते धनम् ॥३७३॥ १. नयेन इति नीत्या, कुशलतया ।
血盟盟靈靈飄飄盪盪盪激靈凝聚激盪飄飄飄飄盪盪盤盤飄飄飄
lujainelibrary.org
Jain Education Inter 18
2010_05
Page #53
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल
| तेनोक्तं तव पार्श्वे तु किं पारिश्रमिकेण भो । किन्तु देशान्तरं-गन्तु-कामोऽस्मि तव सार्थगः ॥३७४॥ मयणामृत- भाटकेन समायामि संरुह्य तव यानके । वद वस्त्रं सुशीघ्रं त्वं यादृक्तुभ्यं तु रोचते ॥३७५॥
| दीनाराणां शतं तेन प्रतिमासस्य मार्गितम् । आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥३७६॥ • ओमिति प्रतिपन्नं च तेनाप्नोति सुखं वणिग् । व्ययस्थाने महालाभात् नैगम': को न हृष्यति ॥३७७॥
धवलेन सह श्रीपालस्य समुद्रयात्रा प्रदाय वक्रयं वर्षे वाहनेऽवस्थितोऽथ सः । रत्नद्वीपं तदा गन्तुं भेर्याद्यास्तुः प्रवादिताः ॥३७८॥ | यातेषु तेषु पोतेषु संस्थितः स कुमारकः । कुतूहलानि सम्पश्यन्सागरे व्रजति क्रमात् ॥३७९॥
बर्बरकूले महाकालनृप-भटै युद्धे धवलबंधनं Rai दृष्टं बर्बरकूलञ्च सांयात्रिकैः सुबन्दरम् । सर्वसाधनसम्पन्न प्रसिद्धं नैगमेषु च ॥३८०॥ • विहङ्गमा यथा क्षेत्रेऽवतरन्त्यतिविस्तृते । जलपूर्णे च कासारे समायान्ति पिपासिताः ॥३८१॥
१. वस्त्रं = भाटकम् । २. नैगमः = वणिक् । ३. वक्रयं = भाटकम् ।
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈望露露强靈靈靈盟
盟鑑露露盟盟盟靈靈靈靈靈靈靈靈疆疆疆疆疆疆疆疆疆疆
___ JainEducation intem
Toainelibrary
/2010_05
Page #54
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल
• तयैव रिक्तयानानि वर-धुर्य-नियंत्रकैः । तं प्रत्यचालयच्छीघ्रं संगृहीतुं जलेन्धने ॥३८२॥ मयणामृत
तच्च संप्राप्य यानादवातरन्त्यखिलाजनाः । स्थितोऽम्भोधितटावन्यां धवलोऽपि भटैर्वृतः ॥३८३॥ पोतजनध्वनिं श्रुत्वा नियोगिनोऽधिकारिणः । शौल्किकास्तु समागत्य वस्तुशुल्कममार्गयन् ॥३८४॥ | याच्यमानोऽपि रा' श्रेष्ठी तस्य शुल्कं ददाति न । नु रैकादशमः प्राणो कथं वित्तं विमुच्यते ॥३८५॥ | महाकाल-नृपाग्रे ते समेत्य सेवकाः ध्रुवम् । वृत्तं कथितवन्तस्तं यथाजातं तथाऽखिलं ॥३८६॥ याचितेऽ पि न दत्तेऽयं श्रेष्ठी भूपाल ! शुल्ककम् । युद्धार्थं स्वभटान् किन्तु प्रेरयामास सायुधान् ॥३८७॥
भपेन प्रेषितं सैन्यं ऋद्धेन श्रति-मात्रतः । दण्ड्यो नियमभडस्त नीतिरिति समाहता ॥३८८॥ • युद्ध्यन्ति सुभटा भूप-श्रेष्ठिनोश्च परस्परम् । तदा नृपबलं भग्नं भीतं धवलसैनिकैः ॥३८९॥
महाकालो हयारूढो युद्धायोत्थितवाँस्तदा । श्रेष्ठि भटा नृपं दृष्ट्वा दिशो दिशं पलायिताः ॥३९०॥ १. धनं । २. नरस्य धनं ।
靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟認
最强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
Boadjainelibrary.org
_JainEducation inten
2010_05
Page #55
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
धवलो युयुधे राज्ञा पातितोऽथ भुवस्तले । पृथ्वीपालेन रज्ज्वा सः सेवकै र्निगडीकृतः ॥ ३९९ ॥ तत्रैव वटवृक्षे सश्रेष्ठी बद्धो ह्यधोमुखम् । स्कन्धौ मानोन्नतौ तस्य हतगर्वी कृतौ यथा ॥ ३९२ ॥ परितः सायुधा योधा रक्षणाय नियोजिताः । तं दृष्ट्वा नीतिभङ्गो न क्रियते केनचित्कदा ॥३९३॥ Gusaisi नैवमोक्तव्यः शिक्षित्वेति स्व सेवकान् । महाकालः स भूपालश्चचाल स्वपुरं प्रति ॥ ३९४॥ अत्रान्तरे कुमारोऽपि धवलं प्राह भो वद क्व गतास्ते भटाः कोटिः प्रतिमासं प्रदीयते ॥ ३९५ ॥ तस्य वाचाथ संसृत्या-वदत् श्रेष्ठी हतप्रभः । निःशरणो यथा भूपं श्रयते करयोजनं ॥ ३९६ ॥ हा ! निर्याति कथं वीर ! भाषैषा तु मुखात्तव । न शोभते क्षताङ्गे हि क्षारप्रक्षेपणं तव ॥ ३९७ ॥ कोऽप्युपायो महाभाग ! त्वया कार्यो यथोचितः । सम्पत्ति र्येन पाणौ स्यात्तथापत्तिः पराभवेत् ॥३९८॥ अद्यापि तव सर्वस्वं यदिचेद्वालयाम्यहम् । तर्हि ददासि मह्यं किं श्रेष्ठिन् ! सत्यं वचो वद ॥ ३९९॥ असम्भवं वचः श्रुत्वा ब्रूते स धवलोsपि यद् । सर्वस्मिन् वलिते तुभ्यं तस्यार्धं तु ददाम्यहम् ||४०० ॥
Jain Education Inter 9 2010_05
822828298898988
काव्यम्
४४
w.jainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- सर्वनाशे समुत्पन्ने त्यजत्यर्धं हि बुद्धिमान् । अर्धेन क्रियते कार्यं सर्वनाशो न जायते ॥४०१॥ मयणामृत
• कुमारोऽपि ततः शीघ्रमेकाकी च धनुर्धरः । पृष्ठे गत्वा महाकाल-माह्वयते स सिंहवत् ॥४०२॥
त्वया हे बर्बराधीश ! गन्तुमेवं न युज्यते । त्वं प्रेक्षस्वाधुना नूनं क्षणमात्रं बलं मम ॥४०३॥ निशम्योचे महाकालः किं म्रियसे मुधा मया । बालोऽसि दर्शनीयोऽसि सुरूपोऽसि सुकोमल ! ॥४०४॥ | भूपाल किं महाकाल ! हरि मुंगात्यलायते ? । वचनाडम्बरेणैव नश्यन्ति कातराः नराः ॥४०५॥ • इत्युक्त्वा तु कुमारेण शरवृष्टिः कृता द्रुतम् । द्विषः पराजये कार्ये कथं केन विलम्ब्यते ? ॥४०६॥ | कुमारोऽपि शरै राज्ञः ध्वजं पातयते यदा । भूपस्य रक्षकैरभ्रे विहितो बाण-मण्डपः ॥४०७॥ तथापि न कुमाराङ्गे एकमप्यलगच्छरम् । खिन्नाः भटा यथासज्जे शरवृष्टि कृतावृथा ॥४०८॥ श्रीपालेन कृतः महाकालनृपजयः परं शरैः कुमारस्य कटकं तत्पलायितं । हरिणानां सहस्राणि किं तिष्ठन्ति हरिं प्रति ॥४०९॥
靈靈强强强强强强强强靈靈靈靈靈靈靈靈靈器
望露露疆綴飄飄盪盪露露飄飄飄盪盤靈飄飄飄飄飄飄飄
___Jain Education intep
2010.05
wि .jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
望靈盟獵獵靈靈靈靈飄飄飄飄飄飄飄盪盪盟認
स सौवहस्तिकं शस्त्रं महाकालोऽपि मुञ्चति । तदौषधि-प्रभावान्न स्पृशत्येनं कुमारकम् ॥४१०॥ | ततस्तेनैव शस्त्रेण पराजित्य महीपतिम् । बलसैनिक-शस्त्रैः किं भाग्याधीनो जयः खलु ॥४११।।
बद्ध्वा नयति भूपं तं पञ्जरस्थं मृगारिवत् । उपनौवणिजं याव-ज्जितकासी कुमारकः ॥४१२॥ | बद्धं दृष्ट्वा नृपं नष्टाः धवलस्य तु रक्षकाः । रक्षित स्वामि-नाशे किं प्रियं कस्य न जीवनम् ॥४१३॥ | तं धवलं कुमारेन्द्रः बन्धनान्मोचयत्यलम् । जयोत्सवे नरेन्द्रेशो यथा मोचयते ग्रहान् ॥४१४॥ धवलो बंधतो मुक्तो गृहीत्वासिं प्रधावति । यावन्नृपं निहन्तुं स श्रीपालेन निवारितः ॥४१५॥ गृहागतस्तथाबद्धः पीडितः शरणागतः । वृद्धः पलायमानश्च वधस्तेषां निषेधितः ॥४१६॥ | श्रेष्ठी नष्ट-भटानां तु वृत्तिं भिनत्ति रोषतः । काले येऽनुपयुक्ताश्च तेषु द्रव्यव्ययेन किं ॥४१७॥ अशरणै विहङ्गै र्यै न्यग्रोधः श्रीयते यथा । अन्यां गतिमदृष्ट्वा ते जाताः कुमार सेवकाः ॥४१८॥ १. ग्रहः = केदी ।
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟
Jain Education Inte
1
2010_05
For Private & Personal use only
jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- W लोकोक्तिर्या प्रसिद्धास्ति कर्तव्यो महदाश्रयः । दुष्कालेऽपि समायाते मूलतो नैव नश्यति ॥४१९॥ मयणामृत
| सुव्यवस्थापितास्तेन भटास्ते शरणागता । स्वभाग-प्राप्त-पोतेषु कुमारेण दयालुना ॥४२०॥ जनेभ्योऽत्र' कुमाराय पश्या(शं ददात्यहो । विश्वे विश्वे विना यत्नं किं किं नाप्नोति पुण्यभाग् ॥४२१॥ विनाऽदृष्ट कृतः शुद्धिं निजं मन्यते मानवाः । भवे भ्रमणं साहित्ये ऊर्ध्वं श्लोकाद्यथाभवेत् ॥४२२॥ मोचयित्वा महाकालं मानयति महीपतिम् । महतां हि गुणौघानामुपकारेऽवधि न हि ॥४२३॥ श्रीपालस्य महाकालनृप सुता मदनया सह विवाहः रत्नद्वीपगमनं च महाकालोऽपि तं दृष्टवा समानीय निजे पुरे । सम्मानितो भृशं वित्तैः स्थापयित्वा समासने ॥४२४॥ प्रोचे भूपः कुमाराय कुमारेन्द्र ! प्रमोदतः । त्वदायत्ताः मम प्राणा साम्राज्यं च श्रियोऽपि च ॥४२५॥ नाम्ना मदनसेना मे तनया प्राणवल्लभा । ममोपरि प्रसौनां परिणीय कृतार्थय ॥४२६॥ १. हे जन ! इभ्यः ।
盟强强飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
微盟盟盟露盟盟認證飄飄飄飄飄飄飄飄飄靈盟盟盟盟器激
Jain Education Interion
2010_05
For Private & Personal use only
Page #59
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盟蹤飄飄飄盪器發飄飄盪盪器綴綴飄飄盪盪激盟飄器設
वैदेशिकस्तथाऽज्ञात कुल-शीलोऽस्मि हे नृप ! । कुलं ज्ञात्वा सुता देया नीतिशास्त्रमनुस्मर ॥४२७॥ यतः | ययोरेव समं वित्तं ययोरेव समंकुलम् । तयोर्मैत्री-विवाहश्च न तु पुष्ट-विपुष्टयोः ॥४२८॥ तथा प्रोक्ते नृपो वक्ति ह्याचारैर्ज्ञायते कुलम् । बाहुना कथ्यते वित्त-माकृति र्गुण शंसिनी ॥४२९।।
तस्य तूष्णीकभावेनोमित्य जाननरेश्वरः । सम्मतेः सूचकं मौन मेतदुक्ति-र्न विस्मृता ॥४३०॥ • शीघ्रं संपाद्य सामग्री मुद्वाहिता महा-महै: । महाकालोऽपि भूपालः श्रीपालाय ददात्यलम् ॥४३१॥
गजाश्व-रत्न-माणिक्य-सुवर्णभूषणानि च । वसनानि सुचारूणि मौक्तिकानि बहूनि च ॥४३२॥ रत्नालङ्कारवस्त्रैश्च सम्पूर्णं नव-नाटकम् । यानपात्रं चतुः षष्टि-कूप-स्थंभ-युतं महत् ॥४३३॥ विशाल-यानपात्रादि-सुता-जामातृ रक्षणे । कुशलां सबलां सेनां हेति-भक्ति-पुरसरां ॥४३४॥
(चतुर्भिः कलापम् )
盟飄飄盪盪盈盈盈露微微露露盈盈器鑑認證認證强認認認
Jain Education Inter
2010-05
For Private & Personal use only
386jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
श्रीपाल
काव्यम्
मयणामत-1
.
अथ श्रेष्ठी महायानं दृष्ट्वा ऋद्धिमचिन्तयत् । स्वामित्वं सेवकः प्राप्तो वस्त्रं दास्यति मे नवा ॥४३५॥ • याचतेऽथ गते मासे भाटकं स कुमारकम् । दापयति स तस्मै च दश-गुण प्रमाणकम् ॥४३६॥
स्वीयं कन्याकुमारं च स्थापयित्वा सुयानके । दत्वा शुभाशिषं भूपो याति स्वीयां पुरीं प्रति ॥४३७॥ सार्थोपेतः कुमारोऽथ सागरेऽवाह्यत्तरी । रतिकामौ यथा भातः नौ गवाक्षोपरि स्थितौ ॥४३८॥ | पुण्येनेव प्रशान्तेऽथ पवनेन महाम्बुधौ । प्रयान्ति सुखगत्याऽमि पोता: सुधी नियंत्रकैः ॥४३९॥
रत्नद्वीपं क्रमात्प्राप्य पथिका इव पादपः । वाणिज्याद्यै निजान्योताँस्तम्भयन्ति च नङ्गरैः ॥४४०॥ | पोतादुत्तार्य भाण्डानि स्थापितान्यथ मण्डपे । महार्घाणि च दय॑न्ते वणिग्भिरागतान्पुरात् ॥४४१॥ वरमंडपमध्यस्थः कुमारोऽथ सुरेशवत् । रमते नाटकाद्यैश्च न कुर्वन् क्रय-विक्रयं ॥४४२॥ विज्ञाय बहुलाभं स ऊचे श्रेष्ठी कुमारकम् । देव ! पोतस्थितं भाण्डं विक्रीणासि कथं न हि ॥४४३॥ १. वस्त्रं = भाटकं ।
X
w
.jainelibrary.org
Jain Education inteR
2010_05
Page #61
--------------------------------------------------------------------------
________________
श्रीपाल -
मयणामृत
सोsपि प्राह त्वमेवात्र यज्जानासि कुरुष्व तत् । एक स्थानस्थयोर्मध्ये नैवान्तरं मयि त्वयि ॥४४४॥ श्रीपालस्य वचः श्रुत्वा श्रेष्ठी हृष्यति चेतसि । पयः पश्यन्यथौतुर्वा चिन्तामणि करे नरः ॥ ४४५ ॥ इतश्चैति हयारूढः कोऽपि स्वरूपवान्नरः । आहूत स कुमारेण सानंदं पट - मन्दिरम् ॥४४६ ॥ सन्मानित: कुमारेण नम्र आगन्तुकः पुनः । स्वपार्श्वमुपाविश्याध प्रेक्षते देवनाटकम् ॥४४७॥ नाटके पूर्णतां प्राप्ते सुरसे सुरदुर्लभे । स्मितेन वदनेनैवं कुमारेण प्रपृच्छ्य ॥४४८॥
महाभाग भवान् कस्त्वं वासस्ते कुत्र वर्तते । चित्रं ब्रूहि जगत्यां यन्नवं दृष्टं श्रुतं त्वया ॥४४९ ॥
रत्नसञ्चयानगरी स्वर्णकेतुः नृपः मदनमञ्जूषा कन्या
सोऽप्याह रत्नसान्वौ पुर्यस्ति रत्नसञ्चया । वसन्ति धनिनस्तत्र समृद्ध्याऽपि कुबेरवत् ॥४५० ॥ स्वर्णकेतुर्नृपस्तत्र सुख सौभाग्य शेखरः । वरे तस्याऽवरोधेऽस्ति स्वर्णमाला प्रिया सती ॥४५१ ॥
१. ओतुः बिडालः ।
Jain Education Intel 2010 05
| YOY
=
काव्यम्
५०
.
Page #62
--------------------------------------------------------------------------
________________
श्रीपाल-
काव्यम
मयणामृत-8
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈樂
चतुःपुत्रोपरी पुत्री मदनमञ्जूषाभिधा । तयोश्च रतिरूपाऽस्ति जिनधर्मैकनिश्चला ॥४५२॥ तत्रस्थश्रावकस्याहं जिनदेवस्य देहजः । जिनदासोऽभिधानेन चित्रं श्रुणु श्रुतिहरं ॥४५३॥ राजसुतान्यदास्वीये पितामहेन कारिते । महापूजां विरच्याऽथ भावेन जिनमन्दिरे ॥५४॥ | स्तौति यावच्छुभैर्भावै जिनेशं नाभिनन्दनम् । परिवार युतो भूपः जिनान्नन्तुं समागतः ॥४५५॥ संवीक्ष्याऽथ महापूजां जैनी निजात्मजाकृताम् । साश्चर्यो भूपति ईष्ट श्चित्ते दध्यौ तथानिजे ॥४५६॥ मत्पुत्र्या रचिता पूजाऽदृष्टपूर्वे अहो मया । कौशलं जिनपूजायां कीदृगस्याः वरं शुभं ॥४५७॥ धन्याऽसौ कृतपुण्याऽसौ सम्यक्त्व वासिता सती । वरोऽनुरूप एतस्या यदि भवेत्सुखं मम ॥४५८॥ एवं विमूढ चित्तत्वात् शल्ययुक्तो नृपोऽशुभः । क्षणमासीत् निषण्णश्च विस्तृते रंग मण्डपे ॥४५९॥
盟靈靈靈靈靈靈靈靈靈靈靈蒙靈靈靈靈靈靈靈靈靈靈靈靈靈
283801
१. श्रुतिहरं = मनोहरं ।
का ५१
Jain Education inte
sow.jainelibrary.org
SAI 2010_05
Page #63
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- | यावन्निर्याति कन्या सा गर्भगृहाच्छुभावहा । समुल्लसित-रोमाञ्चा कृतपूजा शुभोदया ॥४६०॥ मयणामृत-18
कपाट-युगलं गर्भ-गृहस्य मीलितं दृढम् । बलिष्ठेनापि नैवेदं प्रोद्घटते प्रणोदितम् ॥४६१॥ संलब्ध-चिरनिद्रावत् दृश्यते मन्दिरं तथा । बहुयत्नैर्न जागर्ति कुम्भकर्णो यथा चिरम् ॥४६२॥ | सुता रोदिति तद् दृष्ट्वा हा हा विराधना मया । किं कृता येन हे नाथ ! लभ्यते दर्शनं न ते ॥४६३॥ | आज्ञाहीनं क्रियाहीनं मन्त्रहीनञ्च यत्कृतम् । तत् सर्वं कृपया देव ! क्षमस्व परमेश्वर ! ॥४६४॥ | आज्ञां तव न जानामि न जानाम्यर्चनाविधिम् । भक्तिं ते नैव जानामि क्षमस्व परमेश्वर ! ॥४६५॥ • अज्ञातास्मि ध्रुवं तस्मात् पूजावज्ञाभवद्यदि । त्वं क्षमस्वापराधं मे दर्शनं देहि मे प्रभो ! ॥४६६॥ | नृपेणोक्तं सुते ! नैव दोषोऽस्ति ते परं मम । मया जिनालयेऽकार्या वरचिन्ता कृता तव ॥४६७॥ | रोषं जिना: न कुर्वन्ति कुतश्चन कदाचन । नष्टे हेतौ तु बीजस्या-प्यंकुरः किं भवेत्कदा ॥४६८॥ • तथापि ज्ञायते नूनं चेतसि मम कारणम् । रुष्टाः स्यु जिनदेवस्याधिष्ठायकामराः यदि ॥४६९॥
琪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
靈靈靈靈靈靈靈靈靈靈靈飄飄飄飄靈靈靈靈靈靈靈靈靈靈望
Jain Education Inte1982) 2010_09
183
For Private & Personal use only
sow.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
*6806658369368550
काव्यम्
श्रीपालमयणामृत
飄飄飄飄飄飄飄飄飄靈飄飄飄飄
| नृपो ध्यात्वेति सञ्चक्रे तपो दिनत्रयं मुदा । पूजाद्रव्यैः महामूल्यैः ससुतो धूपपूर्वकम् ॥४७०॥ सामन्ताः नागरास्तस्मात् विषण्णा भावसंयुताः । कन्यायै केऽपि भूपाय केऽपि ददति दूषणम् ॥४७१॥ तृतीयस्याः रजन्याश्च चतुर्थे प्रहरे मुदा । सहसाऽऽकाशवाण्येवं संजाता रंगमण्डपे ॥४७२॥ | दोषो नास्ति कुमार्या भोः ! राज्ञश्चापि न कश्चन । श्रृण्वन्तु भविका ! द्वारं पिहितं केन हेतुना ॥४७३॥ | यदृष्ट्या जिनगेहस्यापावृतं द्वार्भविष्यति । ज्ञेयो मदनमञ्जूषा-योग्यो नूनं वरो हि सः ॥४७४॥
अहं चक्रेश्वरी देवी नाभेयपादसेविका । समानीय वरं नूनं मासान्तः प्रव्रजाम्यतः ॥४७५॥ विधाय पारणां प्रातः नृपः परिवृतः स्वकैः । विस्तारयति तां वार्ता लोके शीघ्रतया ततः ॥४७६॥ न द्वारोद्घाटनं जातं सर्वै-र्यत्ने कृतेऽपि हि । किञ्चिदूनोऽद्य मासोऽस्ति वदाश्चर्योऽवबोधितः ॥४७७॥ | उद्घाटयिष्यसि त्वं चेद् द्वारं तत्पुरुषोत्तम ! । चक्रेश्वर्याः ध्रुवं तर्हि दैवीवाणी फलिष्यति ॥४७८॥ इतिवार्ता निशम्याथ चमत्कृतश्च चेतसि । सन्मान्य प्रभूतं तेन जिनदासः विसर्जितः ॥४७९॥
張梁盤靈靈靈飄蠻蠻靈靈靈靈靈靈靈靈靈靈號
५३ w.jainelibrary.org
For Private Personal use only
Jain Education in 1982
2010_05
Page #65
--------------------------------------------------------------------------
________________
श्रीपालेण जिनमंदिरद्वारोद्घाटनं
काव्यम्
श्रीपालमयणामृत
网靈器靈靈靈靈盟認盟盟望張靈靈靈靈靈靈靈靈靈盟
प्रोदितवान्कुमारोऽथ विस्मितो धवलं प्रति । रे रे श्रेष्ठिन् समायाव नगर्यां तं जिनालयम् ॥४८०॥ दर्शनं-देव-देवस्य दर्शनं पाप-नाशनम् । दर्शनं श्रेयस्सोपानं दर्शनं चार्थसाधनम् ॥४८१॥ | कुमारप्रेरितः श्रेष्ठी ममेहा नेति वक्ति सः । देवस्य दर्शनं पुण्य-हीनेभ्यो न हि रोचते ॥४८२॥ | किं त्वं जानासि भो वत्स ! व्यापार विषयेऽधुना । बालोऽसि त्वञ्च मुग्धोऽसि ज्ञातं त्वया न भावि किम् ॥४८३॥ | वसूनि खलु सिद्ध्यन्ति व्यापारेणोद्यमेन हि । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥४८४॥ | भोक्तुमपि न कालोऽस्ति व्यापारेऽस्मिन्दिन-त्रयात् । त्वमेव गच्छ चेच्छा चेद् मुधाऽलं वार्तयाऽनया ॥४८५॥ | जिनमन्दिरमागत्य श्रीपालः बहुभिर्युतः । प्रेरयति जनान्सर्वान् द्वारोद्घाटन-कारणं ॥४८६॥
蒙蒙蒙蒙蒙蒙蒙蒙蒙眾盟盟盟盟蒙蒙眾跟蹤激發靈靈靈靈
Jain Education Intel
2010_05
For Private & Personal use only
Pow.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盟盟盟飄飄盪盪露盟强强强强强靈靈靈强
नाऽपाकृतं यदा द्वारं कृतयत्नैः जनैः परैः । तेऽथ सर्वेऽपि निर्भाग्याः प्रेरयन्ति कुमारकम् ॥४८७॥ कुमार हे ! पवित्रात्मन् द्वारमपावृणु प्रभो ! । यत्कुमार्याश्च ते भाग्य-मंदिरद्वारवत् खलु ॥४८८॥ स सज्जीभूय सानंदः जनताप्रेरितस्तदा । परिधायोत्तरासंगं नैषेधिकीयुतः मुदा ॥४८९॥
प्रविशति यदा सिंह-द्वारेऽररियुगं द्रुतम् । किंक्रिमितिरवं कृत्वा तद्दृष्ट्याऽहो विमोचितम् ॥४९०॥ | स्तुत्वा ऋषभदेवेशं कुमारो विधि-पूर्वकम् । भावेन शुद्धचित्तेन करोति चैत्यवन्दनम् ॥४९१॥
यतः | चैत्यवन्दनतः सम्यक् शुभो भावः प्रजायते । सर्वकर्मक्षयस्तस्मात् ततः कल्याणमाप्यते ॥४९२॥
विधाय भावपूजां स निर्याति चैत्यतो बहिः । पुष्पवृष्टिसमं पौराः जयवृष्टिं व्यधु सुदा ॥४९३॥ | तदोदन्तं पुरिव्याप्तं सौरभ्यमिव वायुना । तं विज्ञाय नृपो हृष्टः सुताद्यैः सहितोऽगमत् ॥४९४॥ | समागत्य नृपामात्य-सुतादिक-जनास्तथा । वंशं-कुलाभिधानञ्च जिज्ञासंतिकुमारकात् ॥४९५॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
___JainEducation intent
2010_05
For Private & Personal use only
.
Page #67
--------------------------------------------------------------------------
________________
श्रीपाल-
मयणामृत
望靈靈靈靈强强强强强鬣鬣獵獵獵靈靈靈靈靈靈靈靈靈靈盟
द्वारोद्घाटनतो देवो दर्शितो भाग्यवत्त्वया । मुखोद्घाटनतो देव ! दर्शय कुलादिकं तथा ॥४९६॥ स्वमुखेनोत्तमो लोके वंशादीन् न प्रकाशते । इत्येवं चिन्तयामास चित्ते यावद् करोमि किम् ॥४९७॥ तदा गगनमार्गेण चारणमुनिरागमत् । मणि-रत्न-मयाँस्तत्र नत्वा स्तुत्वा जिनेश्वरान् ॥४९८॥ | मुनीन्दु उपविष्टश्च सुन्दरे पार्श्व-मण्डपे । धर्मलाभाशिषं दत्त्वा प्रसन्नो ज्ञान-धारकः ॥४९९॥
अत्रान्तरे नराधीशः प्रमोद-प्रेरितो भृशम् । गुरुं विज्ञापयामास संयोज्य करकुड्मलौ ॥५००॥ | सागरस्येव मे नाथ ! तवास्यशशि दर्शनात् । प्रक्षिप्तं पाप-शैवालं दूरे हि भक्ति-वीचिभिः ॥५०१॥ चारणमुनिना श्रीपालस्य परिचयः दत्तः नृपेण कन्यादत्ता विवाहिता च वन्दित्वा तं निषण्णेषु नृपादिषु सुदेशनाम् । प्रारेभे श्रमणस्तत्र जन्तुक्लेश-विनाशिनीम् ॥५०२॥ तत्त्वत्रयीमयो धर्मः सम्यक्त्व सहितो हितः । आराध्यो मानुषे जन्मे शिवशर्म-निबन्धनम् ॥५०३॥ इह परत्र कल्याण-कर-ईति-भियांहरः । तत्तु द्वि-त्रि-चतुर्भेदैस्तत्त्वं प्रोक्तं जिनर्मुदा ॥५०४॥
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙眾蒙毁飄飄飄飄飄發飄飄飄飄飄飄飄器
Jain Education Inte
2010-05
For Private & Personal use only
ww.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत-28
飄飄飄飄靈靈靈靈靈飄飄飄
| सुदेवाभिधमाद्यं तु तत्त्वं-प्रकीर्तितं जिनैः । साध्यरूपं तु तज्ज्ञेयमर्हत्सिद्धद्विभेदतः ॥५०५॥ | द्वितीयं दर्शितं तत्त्व-मज्ञानध्वान्तभेदकम् । गुरुतत्त्वं त्रिधाज्ञेयं सूरि-वाचक-साधुभिः ॥५०६॥ दर्शन-ज्ञान-चारित्र तपोनाम चतुर्विधम् । धर्मतत्त्वं तृतीयं हि प्ररूपितं जिनेश्वरैः ॥५०७॥ | एतदाराधनान्नूनं भवेऽस्मिन्नपि लभ्यते । श्री-सौभाग्य-सौख्यानि श्रीपालवत् सुनिश्चितम् ॥५०८॥ स्वर्णकेतु नूपोऽपृच्छच्चारणं मुनिवारणम् । कः श्रीपालः कदा जातः कुत्राराध्याभवत्सुखी ॥५०९॥ तव पार्वे समासीनः सिद्धचक्रस्य सेवकः । श्रीपालोऽयं करेणैवं दर्शितवान्मुनिस्तकम् ॥५१०॥ श्रीपालोऽयमिति ज्ञात्वा सहर्ष पृष्टवान्मुनिम् । चरित्रं कीदृशं चास्य कृपां कृत्वा प्रदर्शय ॥५११॥ आमूलचूलं तद्वृत्तं जगदाश्चर्य-कारकम् । नृपादीन्बोधितुं तत्र प्रोक्तवान्स मुनीश्वरः ॥५१२॥ हर्षितस्तेन भूपालः संश्रुत्य तत्कुलादिकम् । सुतां मदनमञ्जूषां कुमाराय प्रदत्तवान् ॥५१३॥ जिनेशभवनस्याग्रे कारितश्च महोत्सवः । शीघ्रं मदनमञ्जूषाविवाहस्य शुभे दिने ॥५१४॥
飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
JainEducation intercel 2010_05
For Private Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
मणिकाञ्चनरत्नानि-भूषणानिहयागजाः । उपहारे प्रदत्ताश्च कन्यादाने नृपेण तु ॥५१५॥ द्विकलत्र-युतः स्थित्वा नृप-दत्ते वरे गृहे । दर्शनं पूजनं चैत्य-गृहे नित्यं करोति सः ॥५१६॥
विहितश्चैत्र मासेऽथ दिनाष्टको महोत्सवः । सिद्धचक्र समाराध्य श्रीपालोऽपि वधू-युतः ॥५१७॥ • मन्दिरे नाभिनंदस्य जनानन्दस्य संमदात् । स-श्रीपालोऽथ भूपालः पूजां करोति सात्त्विकीम् ॥५१८॥
भटैर्बद्धो धवलस्य श्रीपालेन मोचनं धवलेन सह समुद्रयात्रा च
आगत्यप्रणिधिः कोऽपि नृपं कथयति द्रुतम् । एकेन सार्थपेनात्र शुल्कभङ्गः कृतस्तव ॥५१९॥ | क्रियते तस्य को दण्डोऽधुना बद्धोऽस्ति हे प्रभो ! । भ्रूविभ्रमेण तं माप आदिदेश वधाय हि ॥५२०॥ श्रीपालो वक्ति तदृष्टवा स संभ्रममं महीपतिं । सावद्ययोग-कार्यं तु कार्यं न जिनमन्दिरे ॥५२१॥ सापराधेऽपि नो देयो दण्डोऽदृष्ट्वा कदाचन । नीति-शास्त्रेऽपि संप्रोक्तं तथैव कुरु भूपते ! ॥५२२॥
蒙蒙靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
१. प्रणिधिः = चरपुरुषः ।
Jain Education Inteo
!
2010_05
For Private & Personal use only
sow.jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
नृपनिर्देशतो यावत् तमानयति सागसम् । लक्षयित्वा कुमारस्तं वक्ति भूपं विहस्य च ॥५२३॥ एष तु तात-तुल्योऽस्ति ममैतं तात ! मुञ्चतात् । प्रोच्यैवं मोचयाञ्चक्रे श्रेष्ठिनं धवलं नृपात् ॥५२४॥ श्रीपालेन्द्रोऽथ नाकीव स्वर्गवद्राजवेश्मनि । सौख्यान्यन्यैर्दुरापानि भुंक्ते नित्यं प्रमोदतः ॥५२५॥ श्रीपालेऽथ सुखासीने वणिक् कोऽपि समागतः । कृत्वाऽञ्जलिं कुमारेन्द्रं विज्ञापयति नाथ हे ! ॥५२६॥ | गमनार्थ निजे देशे धवलेनाऽथ श्रेष्ठिना । सज्जीकृतास्तटे पोता जलं-धान्यादिनाभृताः ॥५२७॥ (युग्मम् )
अस्माभिस्तव पोताश्च पूर्णीकृता क्रयाणकैः । अतः शीघ्रण युष्माभिरागन्तव्यं स्वयानके ॥५२८॥ श्रीपालेन समापृष्टो देशे गन्तुं नृपस्तदा । शिक्षां दत्वा निजां पुत्री जामातरं व्यसर्जयत् ॥५२९॥ प्रस्थान-मङ्गले काले भेर्यादौ वादिते सति । याने स्थित्वा महाब्धौ च श्रीपालोऽपि चचाल स ॥५३०॥ पल्यौ श्रियं कुमारस्य दृष्ट्वा धवल-मानसे । मात्सर्य-ज्वलनो जातो यथा दावानलो वने ॥५३१॥ एकाक्यपि स सम्प्राप्तः लक्ष्मी तु महती महो । यस्येदृश्यौ स्त्रियौ सत्यौ धन्यो विश्वेऽखिलेऽप्ययम् ॥५३२॥
微盟靈靈靈靈靈靈靈器靈飄飄飄飄飄靈靈靈靈靈靈靈靈
Jain Education Intel
2010_05
For Private & Personal use only
w.jainelibrary.org.
Page #71
--------------------------------------------------------------------------
________________
श्रीपाल- 8 वामे रामे रमा रम्या एतस्य यदि मे भवेत् । तदैव हि कृतार्थोऽह-मन्यथा जन्म मे वृथा ॥५३३॥ मयणामृत
| धवलोऽधवलो पाप्मा विद्धो काम-शरैस्तथा । रतिं न लभते लोभात् शल्येन पीडितो यथा ॥५३४॥
दृष्टो मध्यनिशायामे श्रेष्ठी टलवलंन्स्तदा । गतनिद्रः सुशय्यायां पृष्टः मित्रजनैर्यथा ॥५३५॥ | को व्याधिर्बाधते देहं मित्र ! शीघ्रं वद स्फुटम् । येन तस्योपचारास्तु क्रियन्ते ह्यधुना भृशम् ॥५३६॥ | हा हा किं कथयाम्यहं वृत्तांतं श्रृणु मे सखे ! । व्याधिर्न बाधते देह माधिना पीड्यते मनः ॥५३७॥
आधिः को वर्तते मित्र ! ह्यस्मत्सूपस्थितेस्वपि । इति पृष्टे स्वचित्तस्था श्रीपालेा प्रकाशिता ॥५३८॥ मित्रैः प्रोक्तं निशम्येवं जातविस्फारनेत्रकैः । शूल-तुल्यं तु कर्णानां किमिदं भणितं त्वया ॥५३९॥ | अन्यस्यापि वधूवित्तहरणं निन्दितं जनैः । प्राणघातः प्रभोश्चैवं धिधिक् दुर्गति कारणं ॥५४०॥ | चालनं रुद्धपोतानां महाकालाद्विमोचनम् । स्वर्णकेतुनृपादाप्तं जीवितं किं न संस्मृतम् ॥५४१॥ | उपकारिणि दुष्चेष्टा कालिमा धवलस्तव । अतोऽस्यधवलो नूनं पैशुन्यं दृश्यते त्वयि ॥५४२॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
蒙蒙蒙蒙蒙蒙蒙飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈第
__JainEducation inteAI 2010_05
118x
For Private & Personal use only
Ipw.jainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
श्रीपाल -
मयणामृत
यतः
कुटसाक्षी सदारोषी विश्वस्तघ्नः कृतघ्नकः । चत्वारः कर्म चाण्डालाः पञ्चमो जातिसम्भवः ||५४३ ॥ मित्रद्रोही कृतघ्नश्च स्तेनो विश्वास-नाशकः । चत्वारो नरकं यान्ति यावच्चन्द्र - दिवाकरौ ॥५४४॥ उपकारोऽपि नीचाना मपकाराय जायते । पयः-पानं भुजङ्गानां केवलं विषवर्धनम् ॥५४५॥ मैत्रीं नीतिं विहायेत्थं कथं सर्पायते त्वया । भज स्वीयोपकाराय श्रीपाले सुखशीलिताम् ॥५४६॥ एवं संबोधितो मित्रैः श्रेष्ठी बुद्धो न मूर्खवत् । मुखमालिन्यसंज्ञातः ते चिन्तयन्ति मानसे ॥५४७ ॥ ( गाथा छंद )
नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम् । खलजनमानसं चैवं बोधितं याति नैवापि माधुर्यम् ॥५४८ ॥
नाम्नासि धवलः किन्तु कृष्णोऽसि त्वं तु लेश्यया । तव दर्शन -मात्रेऽपि मालिन्यं मानसे भवेत् ॥५४९॥
Jain Education Intel 2010 05
有
काव्यम्
६१
Page #73
--------------------------------------------------------------------------
________________
श्रीपाल
मयणामृत
Jain Education Inte
28282
इत्युक्त्वा स्वास्पदं मित्राण्यगच्छंस्ते त्रयोऽपि हि । यतः क्षिपति को पादं दुर्जने - कर्दमे बुधः ॥५५०॥ तुर्यो वक्रमतिस्तस्य श्रेष्ठनः पार्श्वमाश्रितः । यथा कज्जल-वर्गे हि कृष्णवर्णो विराजते ॥ ५५९ ॥ स प्राह यैरनालोच्य कथ्यते रिपवस्तव । पश्य तत्साधनोपायं दर्शयामि क्षणाच्छुभम् ॥ ५५२ ॥ सौहार्दं कृत्रिमं कृत्वा सह तेन ततः प्रभो ! । यो धनार्थे कृते मञ्चे गुणाधारेण मण्डिते ॥५५३॥ श्रीपालं तु समारोह्य कुतूहलमिषेण च । तद्ज्जुच्छेदनेनैव पातनीयो महार्णवे ॥ ५५४॥ ( युग्मम् ) भर्ता भावी ततस्त्वं हि श्रियां स्त्रियोश्च निश्चितम् । ततो वाञ्छित - सिद्धिः स्याल्लोकनिन्दा भयोऽपि न ॥ ५५५ ॥ धवलेन श्रीपालस्य समुद्रे पातनं नवपदप्रभावाच्च रक्षणं
सन्तुष्टो धवलस्तेन नित्यं केलिपरोऽभवत् । श्रीपालेन समं यावद् सौहार्दं जायते यथा ॥ ५५६ ॥ मुखं पद्मदलाकारं वाणी चन्दन शीतला । हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम् ॥ ५५७ ॥
2010 05
काव्यम्
६२
w.jainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
श्रीपाल-
काव्यम्
मयणामृत
微飄飄飄張靈靈靈跟靈靈靈飄飄飄蒙蒙蒙蒙眾飄飄靈激湯
धवलो मत्सरी धूर्तः कुमारं भद्रकं सदा । कौतुकं पश्य रेऽपूर्व-मेवमाहूतवान्यदा ॥५५८॥ दृष्टं नैतावते स्माभिरब्धौ कल्लोलचञ्चले । स्थिरोऽयं मकरो नूनं गुहायामिव साधकः ॥५५९॥ श्रीपालोऽपि च तद्दृष्टुं मञ्चमायति सोत्सुकः । सानंदकौतुकं पश्यन् स्थिरीभूत इवाम्बुधिः ॥५६०॥ | रज्जुबन्धं ततो मित्रं कुबुद्धिर्नाम दुष्टधीः । छन्नं छिन्नत्ति दृष्ट्वाऽऽखु र्दशी वस्त्रस्य निर्जने ॥५६१॥ | रज्जुछेदस्य संकेतं प्राप्याऽथ मित्रतो द्रुतं । छलेन धवलो याति याने शीघ्रं बिडालवत् ॥५६२॥ | मञ्चादब्धौ पतँश्चित्ते ध्यात-नवपदस्ततः । अतो पपात मीने स महायाने पतङ्गवत् ॥५६३॥ | स्थिरो मकरपृष्ठेऽथ कुमार: कौंकणं तटं । क्षणात्प्राप्तो महासत्त्वो नवपदप्रभावतः ॥५६४॥ | कुत्रापि च वने तत्र चम्पकस्य तरोस्तले । सुप्त्वोत्थाय तदात्मानं वीक्षते वेष्टितं भटैः ॥५६५॥ तैः प्राञ्जलिपुटैर्भटैः विज्ञप्तं श्रुणु हे प्रभो । अस्त्यत्र कोंकणे देशे स्थानाख्ये प्रवरे पुरे ॥५६६॥ वसुपालाभिधो राजा प्रजां पालयति प्रभुः । सादरमद्य सद्यो हि त्वदर्थं प्रेषिता वयम् ॥५६७॥
微微飄飄飄飄飄飄飄飄飄飄飄飄盪盪靈靈靈靈靈飄盪盪器
2010_05
For Private & Personal use only
Page #75
--------------------------------------------------------------------------
________________
श्रीपाल- अद्यैव पश्चिमे यामे नररत्नं समाश्रितम् । परीक्ष्य तत्समानीय-मित्युक्ताः स्वामिना वयम् ॥५६८॥ मयणामृततस्य महानुभावस्य प्रभावात्पयोधेस्तटे । चंपको यः स्थिरछायस्तदधः सुप्तवाँ स हि ॥५६९॥
(चतुर्भिः कलापकम्) . स्वामिन्तथैव दृष्टोऽस्य-स्माभिस्त्वमेव सम्प्रति । अश्वमारुह्य शीघ्रं हि पुनीहि राजमन्दिरम् ॥५७०॥
कुमारोऽपि हयारूढो गच्छति नगरं प्रति । सोत्सवं वसुपालोऽपि प्रवेशयति पत्तने ॥५७१॥ अशनै वसनै भक्ती राज्ञा सद्भावतः कृता । उचे तं च नृपः प्रेम्णा श्रुणोतु हे नरोत्तम ॥५७२॥ सम्पृष्टो मत्सभांप्राप्तः कश्चिन्नैमित्तिको मया । वरो मदनमञ्जर्याः मत्पुत्र्याः को भविष्यति ॥५७३॥
स्थानपुरे मदनमंजर्या सह श्रीपालस्य विवाहः • तेनोक्तं शुक्ल-वैशाखे दशम्यां वारिधेस्तटे । वृक्षस्याचलच्छायायां सुप्तो नरो वरो भवेत् ॥५७४॥ • अद्यैव पुण्ययोगेन प्राप्तोऽसि त्वं तथैव हि । परिणय सुतां शीघ्र-मिमां मदनमञ्जरीम् ॥५७५॥
靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄
風飄飄飄飄靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈盟
_JainEducation Intee
2010_05
Jw.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- विवाहं कारयित्वाथ दत्तवान्महः पूर्वकम् । हरि-हस्ति-हिरण्यादीन् जामात्रे करमोचने ॥५७६॥ मयणामृत-2
• राज्ञाऽथ दीयमानानि देशग्रामादिकानि तु । दाक्षिण्यतोऽपि नाऽऽदत्ते कुमारो निःस्पृहो यतः ॥५७७॥
नृपं प्रार्थयते किन्तु स्थगीधर-पदाय सः । “न कांक्षा राजकार्ये मे देहि स्थगीधरं पदम्" ॥५७८॥ • संतोषार्थं नृपो दत्त्वा तस्मै च तत्पदं पुनः । तेनाति-मानयोग्येभ्यस्ताम्बूलं दाप्यते यथा ॥५७९॥ | इतश्च हृदि संतुष्टो धवलो बाह्य भावतः । लोकानां प्रत्ययार्थं सोऽरोदीत्यूत्कारपूर्वकम् ॥५८०॥ | कृतं दैव त्वया कि रे ! मत्स्वामी पातितोऽम्बुधौ ।रे ! रे ! व क गमिष्यामो जाताः स्मोऽशरणा वयम् ॥५८१॥ • इत्युक्त्वा पोत-कुड्येषु कुट्टयति स्वमस्तकम् । शोकोदधि निमग्नः स मृते पत्यौ यथा स्त्रियः ॥५८२॥ | श्रुत्वेति मदने हा हा कुर्वन्त्यौ पतिते क्षितौ । सहसा प्राप्य मूर्छा ते वज्रेण प्रहते यथा ॥५८३॥ | शीतेन वायुना लब्ध-चेतने ते रुरुदतुः । हीनयो र्दीनयो दैव ! कोऽस्ति शरणमावयोः ॥५८४॥
蒙徽徽墨飄飄飄飄飄飄飄飄飄飄飄飄盪盪綴盟盟鹽蒙蒙蒙
鹽踢踢强强强强强强强强强飄飄飄飄器毁数器毁蒙强强强
Jain Education Interi 2011 2010_05
For Private & Personal use only
Pandu.jainelibrary.org.
Page #77
--------------------------------------------------------------------------
________________
कामार्त्त-धवलस्य कुटिल-वचनं चक्रेश्वर्या सत्योः रक्षणं च
काव्यम्
श्रीपालमयणामृत
發飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈
हे नाथ ! नाथ ! किं जात मावां त्यक्त्वा व यातवान् । किमस्मिन्नखिले विश्वे जीवितेन त्वया विना ॥५८५॥ इत्थं तद्बुदितं श्रुत्वाऽऽगत्य वक्ति धिया शठः । स्नेहीव धवलः श्रेष्ठी "खेदं मा कुरुथां युवाम्" ॥५८६॥ "हरिष्यामि भवत्यो यद् दुःखं नित्यं सुनिश्चितम् । युवां मुक्त्वा मृतः स्वामी तदाऽहं वां धवोऽस्मि हि" ॥५८७॥ तद् दुःश्राव्यां गिरं श्रुत्वा विशेषाद्दुःखिते खलु । कर्णौ पिहितौ हस्ताभ्यां न प्रवेशाय पाप्मनः ॥५८८॥ चित्ते चिन्तितवत्यौ यदयमेवं करोति किम् । ज्ञायतेऽनेन नूनं तत्पापकार्यं कृतं ध्रुवम् ॥५८९॥ चिन्तयन्त्योस्तयो वित्तदैवोच्छलितं जलं । अकूपारे तु महोल्लोलः दुष्टवायुर्विजृम्भितः ॥५९०॥ उन्नताः मेघमाला खे द्योतिता विद्युतो द्रुतम् । विस्तृतं च तमो गाढमट्टहास्यं प्रवर्तितम् ॥५९१॥
以强强强强强强强强飄飄飄飄飄飄飄盤盤靈靈靈靈跟靈園
६६
Jain Education Inter
!
2010-05
For Private & Personal use only
APujainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
风蠻蠻蠻蠻眾飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈如
स्वयमेव समुत्पन्ना नूत्पातान्छतशस्तदा । तान्दृष्ट्वा धवलश्चित्ते भयाक्रान्तो बभूव स ॥५९२॥
___ यानपात्रेऽखिलालोकाः सांयत्रिक-नियामकाः ।
प्रेक्ष्याम्भोधि जलक्षोभं क्षुब्धाश्च मूर्छिताः क्षणात् ॥५९३॥ क्षेत्रपाल-चतुर्वीर-प्रातिहार-युता ततः । चक्रेश्वरी प्रकटाथ भ्रामयन्ती हि चक्रकम् ॥५९४॥ आदिशत्क्षेत्रपालं सा गृह्णातु प्रथमं तु तम् । दुर्बुद्धिदं नरं येन प्रेरितोऽनर्थकर्मणि ॥५९५॥ क्षेत्रपालोऽपि तं बद्ध्वा कूपस्तंभे ह्यधोमुखम् । कर्दमं च मुखे तस्य क्षिपत्यथ कुभाषिणः ॥५९६॥ खड्गेनाङ्गादि संछिद्य तस्य दुष्टस्य चाङ्गकैः । दिक्पालेभ्यो दशाशासु विचिक्षेप यथाबलिं ॥५९७॥ तदृष्ट्वा धवलो गत्वा भयभीत उपस्त्रियं । प्रार्थयते च देव्यौ मां रक्षतां शरणागतम् ॥५९८॥ चक्रेश्वरी तदोवाच दुष्ट ! पापिष्ठ ! दुर्मुख ! । शरणत्वात्महासत्योः जीवन्मुक्तोऽसि त्वं मया ॥५९९॥ त्वया न दुष्कृतं कार्य-मीदृशं हि कदा पुनः । स्नेह-विनयतो वक्ति चक्रा च मदने प्रति ॥६००॥
風飄飄飄飄飄飄飄飄飄飄飄飄飄靈器靈飄飄飄飄盟盤盤設靈
59
Jain Education Interie
2010_05
For Private & Personal use only
www.jainelibrary.ory.
Page #79
--------------------------------------------------------------------------
________________
मयणामृत
श्रीपाल - खेदं मा धरतां देव्यौ कल्याणं वां भविष्यति । समृद्धो युवयोः स्वामी मासमध्ये मिलिष्यति ॥ ६०१ ॥ धवलां निर्मलां चार्वी सुगन्धिनीं मनोहराम् । देव - तरुत्रजं स्त्रियोः कण्ठे प्रक्षिप्य वक्ति सा ॥६२॥ माला - प्रभावतो दुष्टा न द्रक्ष्यंति कदापि वां । न पश्यति यथोलूकः सहस्रकिरणं दिवा ॥६०३ ॥ एवमुक्त्वा तिरोभूता देवी चक्रेश्वरी ततः । उपसर्गा विलीयन्ते सत्त्व - शील- प्रभावतः ||६०४॥ चारु बुद्धि-धरा प्राहुः त्रयस्ते धवलं प्रति । विपाकः किं त्वया दृष्टः दुर्बुद्धेः दुःखदो न वा ? ||६०५॥ एतयोः शरणं प्राप्य विमुक्तोऽसि भवान्नपि । जिनधर्मशरण्यत्वात् कर्णौघतस्तु जीववत् ॥ ६०६ ॥ भज त्वं सत्वरं सत्त्वं चिन्तां दुष्टां विहाय वा । कुर्वन्नघं पुनः श्रेष्ठिन् ! प्राप्स्यस्यनर्थ - सन्ततिम् ॥ ६०७॥ वहमानेषु पोतेषु वारिधौ स महर्द्धिकः । पश्चाद् कतिपयैः दिनैः पुनरेवमचिन्तयत् ॥६०८॥
अहो पुण्योदयो मेऽस्ति यन्मां श्रीः फलिता खलु । मदने यदि मन्येते सुवर्णे सौरभं तदा ॥ ६०९ ॥ एवं विचिन्त्य तत्पार्श्वं प्रेषिता तेन चेटिका । प्रार्थिते मदनाभ्यां सा शुनीव तर्जिता तदा ॥ ६१० ॥
Jain Education Inte
2010_05
88
काव्यम्
६८
Page #80
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
靈靈靈靈靈盟盟靈靈靈靈靈靈靈靈靈靈蒙蒙激發靈驗證
| अन्यदाथ स्वयं धृत्वा नारीरूपं तयो गुहे । प्रविष्टोऽपि न दृष्टे ते दिव्य-माला-प्रभावतः ॥६११॥ नेत्रान्धवत् स रागान्धो भ्रमति यत्र तत्र हि । चेटीभिस्ताडयित्वाऽथ श्वेव निष्कासितो बहिः ॥६१२॥ सर्वाणि यानपात्राणि सानुकूलेन वायुना । कोंकणान् प्रापुरन्येनाध्वना तूर्णं निरापदम् ॥६१३॥ धूर्तोऽथ धवल-श्रेष्ठी नगरे प्राभृतैर्युतः । समागत्य धराधीनं सभासीनं प्रणौति सः ॥६१४॥ स्थगीधरेण तांबूलं प्रदापयति भूपतिः । धवलोऽयमिति ज्ञातो दृष्टमात्रः स तेन हि ॥६१५॥
श्रीपालं वीक्ष्य स श्रेष्ठी चित्ते चिन्तितवानहो ।
किं श्रीपालोऽस्ति वा कोऽपि तत्तुल्योऽन्यजनोऽस्ति वा ॥६१६॥ | तत्क्षणाबहिरागत्य प्रतीहारान्स पृच्छति । कोऽयं नरोऽस्ति भूपाने स्थितः स्थगीधरासने ॥६१७॥ | तस्य सर्वं सुवृत्तान्तं ब्रवीति द्वारपालकः । वज्राऽऽहत इव श्रेष्ठी तच्छ्रुत्वा दुःखमाप स ॥६१८॥ | चिन्तितं श्रेष्ठिना स्वान्ते विधिना विषमेण हि । यद्यद्कृतं मयाकार्य म पसव्यमभूदरम् ॥६१९॥ १. अपसव्यम् = प्रतिकूलम् । २. अरम् = सत्वरम् ।
盟飄飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙盟
६९
Jain Education InteY
2010 05
For Private & Personal use only
Iww.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
以靈靈靈靈靈靈靈靈靈靈靈靈盟靈靈靈靈靈靈靈靈靈靈體認
श्रीपालस्तु नरेन्द्रस्य जामाताऽभूत्ततो मम । किं भावीति न तज्जानेऽपराधो मे यतो महान् ॥६२०॥ | वित्तस्य वपुषो नाशं करिष्यति नृपेऽथ मे । संशोध्यः कोप्युपायस्तु येनापत्ति भवेन्नहि ॥६२१॥
हा तमेव हनिष्यामि पश्चान्मम कुतोभयम् । वृक्षाभावे कुतः शाखा इति न्यायात् सुखं सुखम् ॥६२२॥ | चिन्तयन्निति स श्रेष्ठी यावत् स्वगृहमाप्तवान् । गीत-निपुण-डुम्बानां कुटुम्बं तत्र चागतम् ॥६२३॥
दानं ददाति न श्रेष्ठी तेभ्यस्तच्चिन्तया तदा । पृष्टो दुम्बेन स श्रेष्ठी किं रुष्टोऽस्मासु हे प्रभो ॥६२४॥
धवलो कपटेन कुमार डुंबीति प्रख्यापयति • श्रेष्ठी रहसि तं वक्ति डुम्बमाकार्य यद् यदि । नृपजामातरं हंसि ददामि मुख-मार्गितम् ॥६२५॥
डुम्बोऽपि वक्ति हे श्रेष्ठिस्तदुपायोऽस्ति मारणे । कस्मा अपि न वक्तव्यं भवेत्कीर्ती न लाञ्छनम् ॥६२६॥ अद्यैव वैदेशिकत्वात् तस्याज्ञातकुलो नृपः । मत्सुत इति तं डुम्बं घोषयिष्यामि हे विभो ! ॥६२७॥ ततो यम गृहे भूपः प्रेषयिष्यति निश्चितम् । जामातरं तवेच्छावत् कार्य-सिद्धि भविष्यति ॥६२८॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器靈留
७०
Jain Education Intel
2010_05
Pow.jainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
श्रीपाल
मयणामृत
वणिजा चिन्तितं पश्य कीदृशं पुण्यमस्य हि । नद्या शश्वद्वहन्त्या किं दृढोऽप्यद्विर्न भिद्यते ! ॥६२९॥ ददाति स्वर्णकोटिं स तस्मै पापो वदत्यथ । दास्यामि तेन सन्तुष्टः पश्चाद्यत्तव वाञ्छितम् ॥६३०॥ तत्प्रतिपद्य डुम्बोऽपि सकुटुम्बो नृपान्तिके । गीतगानादि कृत्वाथ तोषयति नृपं बहु ॥६३९॥ न दृष्ट मीदृशं लास्यं याचध्वं तद् ददाम्यहं । कल्पवृक्षायते भूपे पुमान्वृद्धः वदत्यथ ॥ ६३२॥ यदि तुष्टोऽसि भूप ! त्वं मानं देहि धनेन किम् । धनं तु लभ्यते सर्वै र्मानं न सुलभं यतः ॥६३३॥ उर्वीशोऽपि कुमारेण ताम्बुलं तमदापयत् । यथाऽतिमाननीयेभ्यः सन्मानो दीयते नृपैः ॥६३४॥ तदैका वृद्ध-डुम्बी तु श्रीपाल - गलकेऽलगत् । सहसा विह्वलीभूय भूयोभूयो लपत्यथ ॥६३५ ॥ कुतः कीयद्दिनैः पुत्र ! त्वमत्र संस्थितोऽसि च । त्वां विना स्मो निराधारा गति रद्दक् कथं तव ॥६३६ ॥ मिलितस्त्वं न कुत्रापि शोधितेऽपि पदे पदे । चिरात्पूर्वस्य पुण्येन पुत्र ! प्राप्तो मयाधुना ॥६३७॥
१. लास्यं
नृत्यम् ।
Jain Education Inter2010-05
=
काव्यम्
७१
Xw.jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
88888
Jain Education Inter
अगच्छो हंसद्वीपे त्वमित्यस्माभिः श्रुतं जनात् । कथं त्वमिह सम्प्राप्तः कथय सत्वरं परम् ॥६३८॥ तदान्या वक्ति मातङ्गी त्वं भ्रातृव्योऽसि रे ! मम । देव स्त्वं मम पुण्येन मिलितोऽस्यपराऽवदत् ॥६३९॥ नृपं सम्बोध्य मातङ्गः प्रोचे भूपाल ! पश्यतु । पार्श्वे तव स्थितो भ्राता मयापि नोपलक्षितः ॥६४०॥ तस्मान्मानमिषेणैव ततश्च समुपायत् । प्रेक्ष्योपलक्षितो बन्धु-रेषोऽस्माकं तु नेतरः ॥ ६४१ ॥ तस्यैतद्वचनं श्रुत्वा दध्यौ क्षितिपतिर्यथा । कृतमेतत्प्रदुष्टेन मम कुलं कलंकितम् ॥६४२॥ अतः पापः प्रहन्तव्यो नूनं शीघ्रतया मया । एष विषधरो दुष्टो दूरीकार्योऽविलंबतः ॥६४३॥ मातङ्गोऽयं कथंनोक्तः पृष्ठे नैमित्तिकोऽवदत् । नरेश ! नैष मातङ्गो मातङ्गाधिपतिः परम् ॥६४४॥ क्रुद्धेन तेन भूपेन भटेभ्यो जीवितावधि । नैमित्तिकः कुमारश्च प्रादिष्टौ हननाय तौ ॥ ६४५ ॥
१. देवृ संबोधन ए. व. ।
2010 05
-
************
काव्यम्
७२
ww.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- पत्नीभ्यां कुमारकुलप्रख्यापनम् मयणामृत
तदा शीघ्रं समागत्य प्रोचे मदनमञ्जरी । तात ! किं क्रियतेऽकार्यं त्वया विचारितं नवा ॥६४६॥ आचारः कुलमाख्याति सूक्तिर्लोकेऽपि गीयते । उत्तमाचारवर्ती स चण्डालस्तु कथं भवेत् ॥६४७॥
ततः मूर्धाभिषिक्तोऽपि पृच्छति तं कुमारकम् । कृपां कुरु कुमार ! त्वं कुलं स्वीयं प्रकाशय ॥६४८॥ • विहस्याऽथ कुमारोऽपि वक्ति किं कुल-पृच्छनम् । युक्ता पृच्छा न लोकेऽपि जल-पाने कृते गृहे ॥६४९॥ | • तथाऽपि श्रोतुमिच्छा ते सैन्यं सज्जय भूपते । बाहुना वर्ण्यते वंशो लज्जाकृत् यदि जिह्वया ॥६५०॥ • प्रत्ययश्चेद्यदि स्यात्ते आनय्य पृच्छ भूपते । महासिन्धुतटस्थस्य यानस्यान्तः स्थिते स्त्रियौ ॥६५१॥ | नार्यार्थं धवलो पृष्टो धृष्टः काल-मुखोऽभवत् । मानपूर्व समानीते राज-पुंभिर्नृपाज्ञया ॥६५२॥ | दृष्ट्वा स्व प्राणनाथं तं नृपासन-समास्थितम् । हर्षोमिव्याप्त-चित्ते ते चन्द्रेण सागरो यथा ॥६५३॥ १. मूर्धाभिषिक्तः = नृपः ।
飄飄飄飄飄飄飄飄飄飄飄靈獵獵盟飄飄飄飄飄盤
微飄飄靈强强强强强强强强激飄飄飄飄靈靈靈强强强强强强
Jain Education in
2010.05
IPorlww.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
श्रीपाल-.
मयणामृत
风靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈體靈靈靈靈靈靈靈靈靈靈强
नृपस्तु मदनामूचे हर वत्से तु संशयम् । वृत्तान्तमस्य कोऽस्तीति भणित्वा मूल-चूलतः ॥६५४॥ श्रोतुमुत्कंठिता पर्षत्पुरीवर नराकुला । विद्याधरात्मजा वक्ति शीललब्ध सुरीवरा ॥६५५॥ | पुण्य-प्रभाव लब्धश्रि कुमार-चरितं शुभम् । चमत्कृताः जनाः श्रुत्वा धवलाघप्रकाशकम् ॥६५६॥ | वसुपालोऽपि भूपालः प्राह हर्षेण तत्क्षणम् । एष मे भागिनेयोऽस्ति कुमारोऽयं धवस्तव ॥६५७॥ मानं दानं भृशं तस्मै करोति भूपतिस्तथा । ताडयति नृपो भृत्यैः डुम्बान्कोपान्वितो भृशम् ॥६५८॥ तेऽप्याहुस्सार्थवाहस्त्व-कारयत्पापमेष हि । अस्माभि ईव्यलोभेन हा धिग् धिग् दुष्कृतं कृतम् ॥६५९॥ | निर्दोषाः स्मो वयं चैव वराकाः निर्धनाः विभो ! । दुश्चेष्टितानि नः स्वामिन्क्षमस्व करुणा-निधे ॥६६०॥ | निबिडैर्बन्धनैर्बद्ध्वा नतेतिप्रादिशन्नृपः । प्लवेभ्य': सार्थवाहं तं धवलं रुष्टमानसः ॥६६१॥ स्वभावेनोपकुर्वन्ति सन्तो न प्रतिवाञ्छया । सिञ्चन्ति हि कृषि मेघाः याचन्ते न हि वेतनम् ॥६६२॥
靈靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈盟
१. प्लव = चंडाल ।
___JainEducation internr
2010-05
For Private & Personal use only
fw.jainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- तथैव स कुमारोऽपि मोचयति कृपाधरः । नृपात्तं धवलं डुम्बं सकुटुम्बं च मित्रवत् ॥६६३॥ मयणामृत-18|
कथं मातङ्गनाथोऽय मित्युदितं तदा त्वया । एवं पृष्टे नृपेणाथ वक्ति नैमित्तिकः प्रभो ॥६६४॥ मातङ्गो हस्ति पर्यायस्तेषां नाथो नृपो हि वै । ज्ञात्वाऽभिप्रेतमस्येति तुष्टो भूपो व्यसर्जयत् ॥६६५॥ | कुमारो धवलं नीत्वा स्थापितवान् स्व-वेश्मनि । उचितं सादरं तस्य सदा करोति मानदम् ॥६६६॥ धवलश्चन्द्रशालायां सुप्तोऽथ निश्यचिंतयत् । विधि र्खलु विचित्रोऽयं सर्वसत्त्वान् प्रनर्तयन् ॥६६७॥ यद् यत्करोमि कार्यं तत्सर्वं भवति निष्फलम् । मद् दैवः कीदृशो वक्रो वर्तते हा प्रभो खलु ॥६६८॥ | चिन्तां मा कुरु चित्त ! त्वं किमुपायैर्न साध्यते । उपाये प्रबले प्राप्ते नोपेयं दुर्लभं यतः ॥६६९॥ तथैवायं कुमारश्चेन् मयोपायेन केनचित् । मुक्तप्राणः कृतस्तर्हि सर्वा लक्ष्मी भवेन्मम ॥६७०॥ सप्तमभूमिकायां तं सुप्तप्रेव निहन्मि चेद् । स्त्रियौ श्रियं ततः तस्य भुनज्म्यहं बलादपि ॥६७१॥ चिन्तयित्वेति स श्रेष्ठी स्वहस्त-क्षुरिकाधरः । धाविता उपभूमिं तां धृष्टो दुष्टो निकृष्टकः ॥६७२॥
取盤靈靈靈靈靈靈靈靈跟靈靈靈靈强
毁强靈靈靈盟盟飄飄飄飄飄體飄飄激缴费最蒙激發靈靈盟盟
Jain Education Intel
2010_05
For Private & Personal use only
F
w
.jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
श्रीपाल
• दुरेऽस्तु ह्युपकारस्त्व-पकारः क्रियते कथम् । नास्त्यकृत्यविधेः सीमा प्रायो दुष्टात्मनां नृणाम् ॥६७३॥ मयणामृत
स्वच्छुरिकयैव धवलस्य मरणं पादं मुञ्चत्यथोन्मार्गे भय-त्वरांधकारतः । सप्तम्याभूमितः शीघ्रमधोऽपतत्तदैव सः ॥६७४॥ उरोविद्धं मृतस्तेन क्षुरिकया करस्थया । यियासुः सप्तमीभूमी यातो यातोऽधस्सप्तमावनिम् ॥६७५॥ तथैवं श्रेष्ठिनं दृष्ट्वा प्रातस्तु चिन्तितं जनैः । मारणाय कुमारस्य नूनं हि धावितो निशि ॥६७६॥ | विस्मार्यन्तेऽधमत्वेनोपकर्तृणां गुणा अपि । किन्त्वत्युग्रपापानां फलमत्रैव दृश्यते ॥६७७॥ • भावना भाव्यते यादृग् तादृगासाद्यते फलम् । परस्मै खनिते कूपे स्वयं पतितवान्खलु ॥६७८॥
मृतोऽप्यदर्शनीयोऽयं पापोऽथ पुरतो गतः । धिकृत्वा निखिला लोकाः निर्ययुः सदसस्तदा ॥६७९॥
धनवैभवसम्पत्त्या ऋद्धोऽपि धवलः खलु । अवाप कीदृशं मृत्युं नियतिः केन लझ्यते ॥६८०॥ • पातकं पातयत्येव यद्गुप्तमपि निर्मितम् । विजनेऽन्यं जिघांसु हि संयमनीं' स आप्तवान् ॥६८१॥
१. संयमनी = यमपुरीम् ।
盟强强强强强强强强强强强强器蒙靈靈靈飄飄飄蹤器
聚蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈靈靈靈飄飄飄
Jain Education Intel
2010_05
For Private & Personal use only
w.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत-
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器
उदन्तं श्रेष्ठिनः श्रुत्वा कुमारोऽथ शुचाऽसहम् । आक्रंदति भृशं जाने निजपितुम॒तौ तदा ॥६८२॥ प्रेतक्रियां स कृत्वाथ दापयति जलाञ्जलिं । श्रेष्ठिनं स्वोपकारिण मिव स्मरति स ध्रुवम् ॥६८३॥ त्रयोऽपि धवलस्याथ सुबुद्धिदायकाश्चये । स्थापितास्ते कुमारेण श्रेष्ठिलक्ष्यधिकारिणः ॥६८४॥ | तत्रस्थोऽथ कुमारोऽपि मदनात्रिक-संयुतः । भोगं भुनक्ति मानुष्ये-जन्मन्याम्रफलोपमम् ॥६८५॥
कुमारो निर्गतो राज-पाटिकार्थमथोऽन्यदा । दृष्ट्वा च सार्थपं कञ्चित्तं पृच्छति स यद्यथा ॥६८६॥ कुतस्त्वमागतः कुत्र यियासु वेद भव्य भो । त्वयाश्चर्यञ्च दृष्टं यद् विदेशभ्रमणे वरं ॥६८७॥ प्राहाथ सार्थपः कान्ती-पुरीत आगमं त्वितः । कम्बुद्वीपं गमिष्यामि देव ! चित्रं श्रृणोतु तत् ॥६८८॥ कुण्डलपुरे गुणसुंदरी वृत्तान्तः कुण्डलपुरनामास्ति शतयोजनदुरगम् । नगरं राजते राजा मकरकेतु नामतः ॥६८९॥ १. देवचित्रं = हे देव ! चित्रं, देवानां अपि चित्रं ।
肌張張讓張靈靈靈靈靈覺靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
७७
___JainEducation International 2010_05
Page #89
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
तस्य राज्ञी सुशीला च कर्पूरतिलकाभिधा । द्विपुत्रयोरुपर्येका समुत्पन्ना सुता तयोः ॥६९०॥ रम्भा तुल्यास्ति रूपेण नाम्ना सा गुणसुन्दरी । सर्वकलासु सा दक्षा वीणायां तु विशेषतः ॥ ६९१ ॥ तया कृता प्रतिज्ञा यद् भर्ता मे स भविष्यति । जेष्यति यः पुमान्वीणा वादने मां तदैव हि ॥ ६९२ ॥ तत् श्रुत्वा राजपुत्रास्तु मिलित्वा देश - देशतः । वीणाभ्यासं प्रकुर्वन्ति गुरुपार्श्वे दिने दिने ॥६९३॥ प्रतिमासं परीक्षायां केनापि सा न जीयते । रूपं ते सफलं चैतां वादे त्वं यद् विजेष्यसि ॥६९४॥ निशम्यैवं कुमारेण सन्मान्य स विसर्जितः । निजगेहं समागत्य चिन्तितं गमनेच्छ्या ॥ ६९५ ॥ प्रेक्षिष्ये कौतुकं केन नगरं खलु दूरगम् । द्रक्ष्यामि यन्न वैचित्र्यं जन्म मे विफलं तदा ॥ ६९६ ॥ कथं करोमि दुर्ध्यानं मत्पार्श्वे विश्वदुर्लभम् । आस्ते नवपद ध्यान - मलञ्चापर चिन्ता ॥ ६९७ ॥ विचिन्त्य चेतसि दध्यौ यावन्नवपदं स हि । कुमारस्तत्क्षणादेव दैवीभास्तत्र जायते ॥ ६९८ ॥ सौधर्मकल्पवास्यथ प्रकट्य विमलेश्वरः । करयो हरमाधाय कुमारं तु वदत्यदः ॥ ६९९ ॥
Jain Education Inten 02 2010_05
काव्यम्
७८
jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盟飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈
(उपजाति)
इच्छाकृतिकॊमगतिः कलासु प्रौढिर्जयः सर्व-विषापहारः ।
कण्ठस्थितो यत्र भवत्यवश्यं कुमार ! हारं तमिमं गृहाण ॥७००॥ संभाष्यैवं कुमारस्य कण्ठे हारं निवेश्य च । जगाम विमलो देवस्तिरोभूय प्रदीपवत् ॥७०१॥ हारानुभावतः सोऽपि सम्प्राप्तः कुण्डलं पुरम् । ययौ च पाठशालायां विरच्य' वामनं वपुः ॥७०२॥ | उपाध्यायमुवाचैवं गुरो ममापि पाठय । श्रुत्वा सर्वेऽपि तद्वाणी प्राहसन् राजसूनवः ॥७०३॥ | हीनकुलमिति ध्यात्वाऽपाठ्यन्नहि पाठकः । यतोऽहं राजपुत्राणां पाठक इति पूजितः ॥७०४॥
न प्राप्यापि गरो विद्यां वामनो खिन्नमानसः । असिरत्नं महददत्वा वशीकरोति वाचकम् ॥७०५॥
靈靈靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈激發靈靈綴飄飄飄飄盟
यतः
जनः को न वशं याति मुखे पिण्डेन पूरिते । मृदङ्गो मुख-लेपेन करोति मधुरं ध्वनिम् ॥७०६॥ १. वि + रच् (ग.१)।
Sery.org
Jain Education Interi
|2010_05
For Private Personal use only
Page #91
--------------------------------------------------------------------------
________________
मयणामृत
श्रीपाल - उपाध्यायोऽपि सर्वाग्रे निवेश्य तत्करे ततः । ददाति च निजां वीणामुत्साह मानपूर्वकम् ॥७०७ ॥ विपरीततया तंत्री गृहीत्वा त्रोटिता बलात् । तुम्बकं स्फोटयामास बिसतन्तून्यथा करी ॥७०८ ॥ स चैवं प्रवर्तमानस्तु हासयति नृपात्मजान् । बभूवादरपात्रञ्च गुरूणां दान - शक्तितः ॥७०९ ॥ पूर्णे मासे परीक्षार्थं समाजे तु प्रयोजिते । सर्वैर्निवार्यमाणोऽपि प्राविशत्तत्र वामनः ॥७१०॥ तस्य निरूपमं रूपं क्षितिपतेः सुतेक्षते । रूपं तस्यैव पश्यन्ति चान्ये जनास्तु वामनम् ॥७११॥ कुमारी चिन्तयामास रूपं दृष्टं यथैव चेत् । कृतपुण्या तदैवाऽहं प्रतिज्ञाऽनेन पूर्यते ॥७१२॥ अनुत्तीर्णास्तु सर्वेऽपि प्रदर्श्य स्वकलां क्रमात् । म्लानीभूतास्ततस्तेऽपि पद्मवच्च विनेन्दुना ॥७१३॥ दृश्यतां मे कला नूनं प्रोच्येति वल्लकीकरा । गुणाद्या सुन्दरी सैवं दर्शयति निजां कलां ॥७१४॥ संगीतध्वनिमाकर्ण्य समायान्ति मृगाः यथा । वीणावादननादेन नेत्रमृगाः सुयंत्रिताः ॥७१५ ॥
१. सुता + ईक्षते । २. वल्लकीकरा = वीणाकरा ।
Jain Education Inte
2010 05
काव्यम्
८०
Page #92
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈露露 飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈與
• कुमार्यास्तु कलायावत्सर्वैर्भूरि प्रशंसिता । प्रवक्ति वामनो हा हा पुरलोकास्तु कीदृशाः ॥७१६॥ | सर्वे जना मिलित्वाऽत्र प्रशंसन्ति परस्परम् । यथा करभा उष्ट्राश्च अहोरूपमहोध्वनिः ॥७१७॥ तेनात्मानं कुमारी सा मानयन्त्युपहासिता । तस्मै निजां वरां वीणां दत्वा वदति वादय ॥७१८॥ वामनाकारधारिणा श्रीपालेन वीणावादने गुणसुंदरी विजिता परिणीता च गृहीत्वा प्राह वीणां तां निरीक्ष्याशु यथा पटु । अशुद्ध-लक्षणोपेता-वीणैषा तव वर्तते ॥७१९॥ गर्भभृतास्ति तन्त्रीस्तु गलितं तुम्बकं गलात् । दण्डोऽपि वह्निदग्धोऽस्ति सदोषैषा न वाद्यते ॥७२०॥ हा हा ! ज्ञातं कुमार्येषाऽस्ति वीणावादने पटुः । ईदृशी वीणयाऽभिख्या' विवर्णेषु प्रसारिता ॥७२१॥ सर्वदोषानपाकृत्य यावद्वीणामवादयत् । सर्वेऽप्यचेतनाजाता: जनास्तदा प्रसुप्तवत् ॥७२२॥ कुमारेण गृहीत्वाथ मुद्रां कस्यापि कुण्डलम् । वलयं मुकुटं वस्त्रं कस्यापि चोत्करः कृतः ॥७२३॥ १. अभिख्या = कीर्ति । २. विवर्णेषु = मूर्खेषु ।
眼靈靈靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄靈靈靈靈靈靈缴
८१
____JainEducation International 2010_05
For Private & Personal use only
Page #93
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- अपनिद्रे ततो लोके दृष्ट्वाश्चर्यं कुमारिका । "पूर्णा मम प्रतिज्ञेति" वृणुते तं कुमारकम् ॥७२४॥ मयणामृत
• राजाद्याश्चिन्तयामासु र्यावद् हा वामनोवृतः । श्रीपालस्स्वरूपं दिव्यं दर्शयति मनोरमम् ॥७२५॥
सन्तुष्टस्तेन भूपोऽपि स्वपुत्री दत्तवाँस्तथा । रत्नस्वर्ण-युतं गेहं ददाति कर-मोचने ॥७२६॥ श्रीपालस्तत्रसंस्थाय सुखंभुक्ते स्वपुण्यतः समेतो गुणसुन्दर्या यथेच्छममरोपमः ॥७२७॥ | कुमारणाथ संपृष्टो पान्थो वक्ति तथाऽन्यदा । यदाश्चर्यं मया दृष्टं पुरुषोत्तम तच्छृणु ॥७२८॥ काञ्चनपुरे त्रैलोक्यसुंदरी वृत्तान्तः श्रीकाञ्चनपुरे राजा वज्रसेनोऽस्ति तस्य च । देवी काञ्चन-मालास्ति पुत्री त्रैलोक्य-सुन्दरी ॥७२९॥ तस्या योग्य वरार्थं यत्स्वयंवरणमण्डपम् । नृपेण रचितं तत्र विशालञ्च मनोहरम् ॥७३०॥ | तत्र निमन्त्रिताः सन्ति बहु सङ्ख्यानृपेश्वरा । नभः' श्वेत-द्वितीयायां कल्येऽस्ति तन्मुहूर्तकम् ॥७३१॥
盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙眾飄飄飄
१. नभस् = श्रावणः (मास)।
Jain Education Intern
|2010.05
For Private & Personal use only
ENGainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈蒙蒙蒙靈靈靈靈靈靈靈飄飄飄飄飄靈靈靈驗
मार्गोऽस्ति चात्रतस्तस्य त्रिंशद्योजनमानकः । श्रुत्वा व्यसर्जयत् तस्मै प्रदाय कंठ-मण्डनम् ॥७३२॥ कुमारः कुब्जरूपेण हारतः काञ्चने पुरे । गत्वा मण्डपमास्थित्य कलां च तस्य पश्यति ॥७३३॥ राजमानां सभासीनां भूषितां रत्न-भूषणैः । राजमालां भ-मालां च गगने वरमण्डपे ॥७३४॥ तन्मण्डपे प्राविशन्द्वार-पालेन वारितो यदा । सुवर्ण-वलयं दत्त्वा वारितं स्वप्ररोधनम् ॥७३५।। प्रविश्याऽथ निषण्णश्च तत्रोपशालभञ्जिकाम् । प्रेक्ष्य तत्कुब्जकं रूपं पृच्छन्ति तं नरेश्वराः ॥७३६॥ आगतोऽसि कथं कुब्ज ! त्वमत्र राज-मण्डपे । वक्ति कुब्जोऽपि तेभ्यस्तु प्रसन्नास्यः प्रमोदतः ॥७३७॥ येन कार्येण सर्वेऽपि यूयं सम्मीलिता इह । नरेशा: केवलं तस्मै कार्यायैवाहमागमम् ॥७३८॥ भूपेन्द्रास्तं हसित्वोचुः कंदर्प-रूपवानहो । धन्या तदैव कन्यैषा सुरूपं त्वां वरिष्यति ॥७३९॥ रम्भारूप-धरा तत्र कुमारी शिबिकास्थिता । पुष्पमालाधरा धन्या शुभ्र-वस्त्रा समागता ॥७४०॥ निसर्ग-स्वरूपं प्रेक्ष्य श्रीपालस्य प्रशंसति । निजात्मानं "महाधन्याऽद्वितीयाऽस्मीति विष्टपे ॥७४१॥
幽靈靈靈靈蒙蒙蒙蒙蒙靈靈靈靈靈靈靈飄飄飄靈靈靈激激
_Jain Education inte|
ForLijainelibrary.org
1 2010_05
Page #95
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盤靈靈靈靈器靈靈靈靈靈靈靈靈靈靈靈激盟
रसार्थं भ्रमरो याति यथाऽऽरामे' सुमान्तरम् । वरार्थं सा कुमारी तु याति नृपान् नृपान्तरम् ॥७४२॥ अखिलेष्वपि भूपेषु वेत्रिणा दर्शितेष्वपि । प्रसन्ना नैव भूता सा मौनमादाय तिष्ठति ॥७४३॥ तदैव शालभञ्जिका-मुखेन हार-देवता । वाण्या मधुरया वक्ति श्रृणोति सैव नेतरे ॥७४४॥ यदि धन्यासि विज्ञासि जानासि च गुणाऽगुणम् । तदैनं कुब्जकाकारं वत्से ! वृणु नरोत्तमम् ॥७४५। संश्रुत्यैवं कुमारी सा कुब्जकं प्रवृणोति तम् । तत्कण्ठे पुष्पमालाञ्च प्रक्षिप्य मुमुदे भृशम् ॥७४६॥ त्रैलोक्यसुंदरीवृतेन कुब्जीभूतश्रीपालेन नृपाः जिताः समीक्ष्य वृत-कुब्जां तां नृपाः सर्वे वदन्ति तं । रे कुब्ज ! मुञ्च मालां त्वमात्मनो मृत्युदायिनीम् ॥७४७॥
यद्यपि सातिमुग्धास्ति जानाति न गुणागुणम् । कन्यारत्नं तु कुब्जायाऽऽस्माभिर्देयं कदापि न ॥७४८॥ | तत् शीघ्रं त्यज मालां त्वं वदन्त्युदायुधा नृपाः । चेन्नेति करवालस्ते गलनालं लविष्यति ॥७४९॥
飄飄飄靈靈靈靈飄飄盟靈綴飄飄靈靈靈靈綴飄飄飄飄靈飄飄
१. वेले = आरामे ।
Jain Education Internet | 2010_05
For Private & Personal use only
X
ainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- प्राह कुब्जो हसित्वाथ यूयं वृता न कन्यया । दौर्भाग्य दग्धदेहा स्व-भाग्याय किं न रुष्यथ ॥७५०॥ मयणामृत
B परकान्ताभिलाषाप्तमहाऽघ-शोधन-क्षमा । मेऽसि-धारा तु युष्माकं ग्रीवाऽऽतिथ्येन वर्धताम् ॥७५१॥
कुब्जेन वदता चैवं बलं स्वीयं प्रकाशितम् । दिशो दिशं नृपा नष्टाः हरिणा हरिणा यथा ॥७५२॥
पुष्पवृष्टिः कृता देवै स्तत्पराक्रम रञ्जितैः । तदृष्ट्वा वज्रसेनेन विज्ञप्तः कुब्जको यथा ॥७५३॥ • प्रकाशय निजरूपं दर्शितं हि यथाबलम् । प्रलोक्य मूलरूपं स सानन्दं दत्तवान्सुताम् ॥७५४ B व्यतिविवहतं कन्या स कुमार: महोत्सवैः । विश्वे बहुषु कांक्षिषु किं किं नाप्नोति पुण्यभाग् ॥५५॥ | उपभुक्ते कुमारोऽथ नृपदत्ते निकेतने । स्थित्वा त्रैलोक्यसुन्दर्या सार्धं सर्वोत्तमं सुखम् ॥७५६॥
देवपत्तने श्रृंगारसुंदरीवृत्तांतः | एकदाथ चरः कोऽपि वक्ति प्राप्य सदः प्रभो ! । धारापाल: नरेन्द्रोस्ति नगरे देव-पत्तने ॥७५७॥ • देव्यस्ति गुणमाला च तस्यैव सद्गुणान्विता । उपरि पञ्चपुत्राणां सुता श्रृङ्गारसुन्दरी ॥७५८॥
燃飄飄飄飄飄飄飄靈靈靈靈靈靈靈綴綴飄飄飄飄飄靈
८५
divw.jainelibrary.org
Jain Education Inte
2010_05
Page #97
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत-18
跟眾望望望望望缓激盪盤靈靈靈靈靈盟盟强强强强强强靈望
जिनधर्मे सदाऽऽरक्ता कलारूप-गुणैर्भूता । श्रृङ्गारभृत् त्रिलोकस्य रत्न-भूषण-विग्रहा ॥७५९॥ सखीभिः पञ्चभि वृता क्रमात्ताः सन्ति नामतः । प्रगुणा-निपुणा-दक्षा-पण्डिता च विचक्षणा ॥७६०॥ तासामग्रेऽथ सा वक्ति संश्रूयतां वरो मम । जिनधर्मस्य मर्मज्ञो भावि नाऽन्योऽस्ति कश्चन ॥७६१॥ | संश्रुत्य तन्मनोभावं तदने पण्डिताऽवदत् । अन्यस्यानुक्तभावस्तु कवित्वेन सुलक्ष्यते ॥७६२॥ • येन मे चित्तगै र्भावैः समस्या पूरयिष्यते । वरिष्यामि मनुष्यं तमिति तया कृतः पणः ॥७६३॥ • भूपेभ्यः पण्डितेभ्योऽपि साऽद्यापि नैव पूर्यते । श्रुत्वैवं महदाश्चर्य चकिता हि सभाजनाः ॥७६४॥
| धराधरैश्च धीरैर्योऽपूर्णः प्रश्नस्तु कीदृशः । विश्वे कौतूहलं नूनमेतद् दृश्यं मयाञ्जसा' ॥७६५॥ | विमृश्य हारमाहात्म्यात् कुमार एत्य तत्पुरम् । पर्षद्यासनमास्थित्य तां समस्यां प्रपृच्छति ॥७६६॥ क कुमारीसंज्ञिता तत्र समस्यां वक्ति पण्डिता । समस्या-पदमाद्यं यद् "मणुवंछिय-फलं होई" ॥७६७॥
१. अञ्जसा = सत्वरम् ।
望望露激靈靈靈靈飄飄飄飄飄飄飄飄飄飄强靈靈靈靈靈靈靈器
___JainEducation inmarad
2010_05
For Private & Personal use only
Alww.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
काव्यमा
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈號
श्रीपालेन कृतं समस्या-पूरणं श्रृंगारसुंदर्याः सार्धं विवाहश्च | कुमारोऽपि विचिन्त्येति वक्ति सान्यमुखेन ताम् । समस्यां पूरयिष्यामि पुत्रिकास्येन तां खलु ॥७६८॥ उत्थायासनतस्तेन स्तम्भ-पाञ्चालिका-शिरः । संस्पृष्टं निजहस्तेन निर्गता वाक् च तन्मुखात् ॥७६९॥ 'अरिहंताई-नवपय नियमणु धरई जु कोई । निच्छइ तसु नरसेहर ! मणुवंछियफलं होई ॥७७०॥ ततो विचक्षणा वक्ति “अवर म झंखहु आला" । कुमारः पुत्रिकास्येन पूरयति यथा हि ताम् ॥७७१॥
अरिहंत-देव सुसाधु-गुरुधम्म तु दया विसाला । मंतुत्तम-नवकार पर अवरमझंखहु आला ॥७७२॥ प्रगुणापि तदाकर्ण्य "करिसफल अप्पाणु" । दत्तवती समस्यां च सोऽपि प्राह तथैव हि ॥७७३॥ | आराहिय धुरिदेव-गुरु देहि सुपत्तिहिं दाणु । तव संजम उवयार करि करि सफलउ अप्पाणु ॥७७४॥ | १. अर्हदादि नव-पदानि निजमनसि धरति यः कोऽपि । निश्चयेन तस्य नरशेखर ! मनोवाञ्छितं फलं भवति ॥७७०॥
२. अर्हन् देव सुसाधु-गुरु धर्मस्तु दयाविशालः । मन्त्रोत्तम-नमस्कारः परः अपरं मा स्पृहय आलः ॥७७२॥ | ३. आराधय धुरि देव-गुरू देहि सुपात्रेभ्यो दानम् । तपः संयमोपकारान् कृत्वा कुरु सफलं आत्मानम् ॥७७४॥
飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈眾認
Jain Education Intel
2010 05
AARTw.jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
मयणामृत
श्रीपाल - पठति निपुणा पश्चात् " जितउं लिहउ निलाडि" । सा समस्यापि साश्चर्यं पुत्रिकास्येन पूरिता ॥ ७७५॥ 'अरिमन् अप्पर खंचि धरिचिंता जालि म पाडि । फलु त्तित्तउं परिपामीयइ जितउं लिहउ निलाडि ॥७७६ ॥ पञ्चमी प्राह दक्षाथ स्वोत्तरश्रवणोत्सुका । प्रहेलिकां यथाशीघ्रं "तसुतिहुयण - जण दासु" ॥७७७৷৷ कुमारः करमाधाय पुत्रिकाशीर्षके स तु । पूरितवान् समस्यां स शीघ्रमेव प्रमोदतः ॥७७८ ॥
अन्न भवन्तर संचिरं पुण्ण सुनिम्मल जासु ।
तसुबल तसुसिरि तसु जस तसु तिहुयण जण दासु ॥७७९ ॥
Jain Education Inter
पञ्चभिः सखिभिः सार्धं समस्यां पृच्छ्यतेऽथ सः । कस्याभावेन संप्रोक्ता सिद्धानामक्षयास्थितिः ॥७८०॥
१. अरे ! मन आत्मानमाकृष्य धारय चिन्ताजाले मा पातय ! । फलं तावदेव परिप्राप्यते यावद् लिखितं ललाटे ॥७७६॥ २. अन्य भवान्तर - सञ्चितं पुण्यं सुनिर्मलं यस्य । तस्य बलं तस्य श्रीस्तस्य त्रिभुवनजनः दासः ॥ ७७९ ॥
2010 05
8888888888
काव्यम्
८८
w.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
R
मयणामृत
श्रीपाल- पुत्रीमुखात्कुमारोऽपि स्माह चित्रोत्तरं श्रुणु । आसादयति यद्रूपं मरेणुः १ मरणैः विना ॥ ७८१ ॥ मनोऽनुरूपमित्येवं समस्याः पूरिता यदा । हर्ष - रोमाञ्चिता जाता सखीयुक्ता कुमार्यपि ॥ ७८२ ॥ धन्यं मनुते चात्मानं सा कुमारी तदैव हि । कुमार-कण्ठ-पीठे तु चिक्षेप वर - मालिकाम् ॥७८३॥ अहो दृश्यत आश्चर्यं पुत्रिकास्येन पूरिता । समस्या पर चित्तस्था वदन्त्येवं नृपादयः ॥ ७८४|| चमत्कृतेन राज्ञाऽऽशु कारापितोऽतिविस्तृतः । पुत्र्याः पञ्चसखीभिश्च सार्धं लग्न- महोत्सवः ॥७८५॥ प्रसन्नोऽथ कुमारेन्द्रः स धर्मचारिणीयुतः । नृपदत्ते महावासे सन्तिष्ठति यथासुखम् ॥७८६ ॥
888888
कोल्लाले नगरे जयसुन्दरी वृत्तान्तः
आगत्य भट्टकः कोऽपि सभायां प्राह चैकदा । कोल्लाल - नगरे वीरः पुरन्दर - नरेश्वरः ॥ ७८७॥ तत्पुत्र्या जयसुन्दर्या प्रतिज्ञा चेदृशी कृता । या संश्रुता मया तत्र वक्ष्याम्यहं तथैव हि ॥ ७८८ ॥ १. मरेणुः मरणैः विना = मकार, रकार, ण कार विना यद् रूपं आसादयति प्राप्नोति कं ? अ-ए-उ:, अ+ ए = ऐ+उस् + उस् आयुः, तेनाभावेन सिद्धानामक्षया स्थितिः ।
Jain Education Inte 2010_05
=
= आय
888888
काव्यम्
८९
xxww.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
888
यो मे दृष्टौ समागत्य राधावेधं करिष्यति । तमेव नररत्नं हि वरिष्यामि पतिं ततः ॥७८९ ॥ रचयित्वाऽथ भूपेन तत्सामग्रीं सुशोभनाम् । नरेन्द्राश्च समाहूता सन्मानेन विदेशतः ॥ ७९०॥ परं केनापि राज्ञैवं राधावेधो न साध्यते । अद्यापि क्ष्मापतिस्तेन चिन्तातुरो विशेषतः ॥ ७९१ ॥ राधावेधो ऽपि त्वत्पुण्यै यदि चेत्स भविष्यति । अनैनैव कुमारेण नान्यैः नरैः भुवस्तले ॥७९२ ॥ व्यसृज्यत गदित्वैवं दत्त्वा भट्टाय कुण्डलम् । प्रत्यूषे स कुमारोऽपि गतवान्तां पुरीं मुदा ॥७९३॥ श्रीपालेन राधावेधे कृते कन्या परिणायिता
नरेन्द्रेषूपविष्टेषु राधावेधं चकार सः । तत्कन्या - लोचनाग्रे च श्रीपालस्तत्र लीलया ॥७९४ ॥ संवृतो जयसुन्दर्या कुमारो रूपवाँस्तदा । कारयति धरानाथो विवाहश्च तयो महैः ॥७९५ ॥ सन्तिष्ठति सुखं यावत् सुवद्राजवेश्मनि । पुण्यकर्म - समुत्पन्नं प्राणी सौख्यमवाप्यते ॥७९६ ॥ आनयार्थमनुप्राप्ताः मातुल - नृप - सेवकाः । गमनार्थं स विज्ञप्तो योजित - कर-कुड्मलैः १ ॥७९७॥ १. कुड्मल = अर्ध खीलेली कळी ।
Jain Education Inter 2010_05
「有
काव्यम्
९०
w.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈蒙蒙蒙蒙眾激靈跟靈靈靈靈靈靈靈靈靈靈靈
प्रेषयति नरान् स्वस्य स्त्रीणामानयनाय सः । ताश्च स्वभ्रातृभिः सार्धं तत्रायाताश्च सत्वरम् ॥७९८॥ क्रमेणाथ कुमारोऽपि स्वपरिवार-सङ्कलः । ससैन्यः प्राप्तवान् स्थानाभिधानं नगरं मुदा ॥७९९॥
कुमारस्य श्रियं दृष्ट्वा प्रीणात्यैवं स मातुलः । दृष्ट्वा कान्तं कान्तायुतं मदनापि प्रमोदिता ॥८००॥ | राज्यकार्ये क्षमं ज्ञात्वा जामातरं महोत्सवैः । निजराज्येऽभ्यषिञ्चत्तं वसुपालोऽपि मातुलः ॥८०१॥ राजेव राजते राजा मुकुटच्छत्र-चामरैः । स नरश्रेष्ठः सामन्त-मन्त्र्याद्यैश्च प्रणम्यते ॥८०२॥ उज्जयिनीमार्गन्तःसोपारके तिलकसुन्दरीवृत्तान्तः | कालान्तरेण चाल्पेन चचालोज्जयिनी प्रति । श्रीपालो मातृनत्यर्थं चतुरङ्गचमूयुतः ॥८०३॥
श्रीपाल-नरनाथाय भुवः सारं प्रढौक्यते । पदे पदे नरेन्द्राद्यैः पुण्यकर्म-प्रभावतः ॥८०४॥
सुखं सुखं प्रयाणैः स प्राप्तः सोपारकं पुरम् । राजतेऽत्र महासेनो महासेनो नरेश्वरः ॥८०५॥ ॐ भक्तिर्न दर्शिता तेन श्रीपालो पृष्टवानतः । सिद्धचक्र-प्रभावेण सर्वपूज्यो तथापि हि ॥८०६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈燃靈靈靈鐵路
Jain Education Inter
201005
For Private Personal use only
Page #103
--------------------------------------------------------------------------
________________
काव्यम्
मयणामृत
श्रीपाल- * भूपोऽयं नागतो मन्त्रिन्कथं शुद्धिं कुरु द्रुतम् । निर्भयः किं नु सोऽज्ञो नु राजस्थितेः प्रणालितः ॥८०७॥
अमात्यो वक्ति भो नाथ ! शुद्धिं कृता मया पुरा । शोकार्तोऽस्ति महासेनो दुखदां तत्कथां शृणु ॥८०८॥ | तस्य प्रिय सुतकाऽस्ति नाम्ना तिलकसुन्दरी । दष्टा साऽद्यैव सर्पण दुष्टेन कालबाहुना ॥८०९॥ विहितेषूपचारेषु नृपेण सकलेष्वपि । कन्यां न चेतनां प्राप्ता तेन शोकेन नागतः ॥८१०॥ ततोऽश्वं स समारुह्य प्रेत्य प्रेतगृहं द्रुतम् । भो भूप ! नागरा ! वक्ति कुमारेन्द्रः निशम्यताम् ॥८११॥ | मृतवद् दृश्यते मर्त्यः सर्पदंशेन मूछितः । कर्तव्या उपचारादि कदापि नैव दह्यते ॥८१२॥ | इत्युदीर्य चितायास्तं प्रेतं संस्थाप्य भूतले । कंठस्थ-हार-पूतेन सिक्तः स्वहस्त-वारिणा ॥८१३॥
क्षणान्नीराऽनुभावेन सापि सम्प्राप्त-चेतना । शीघ्रमेवोत्थिता तत्र निशान्ते हि यथा जनाः ॥८१४॥ | पूर्जनैः परिवृत्तां सा निजां दृष्ट्वा स्मशानगां । चेतस्याश्चर्यमुत्पन्नं नृपं पृच्छति विह्वला ॥८१५॥ तात ! ताताद्य किं जातं पूर्जना मिलिताः कथम् । अहमप्यागता केन ज्ञायते न मयाऽधुना ॥८१६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟靈靈靈靈蹤器
盟靈靈靈飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈蹤器
Education Inter
01 201005
w.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈器靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈靈爆强网
कुमारणोज्जीविता कन्या राज्ञा विवाहिता कथयित्वाऽथ तद्वृत्तं महासेनः पिता सुधीः । स्वपुत्री दत्तवान् तस्मै कुमाराय रसेश्वरः ॥८१७॥ एवमष्ट-प्रियायुक्तः स्वमातुर्नति-तत्परः । मदन-सुन्दरी-संग-समुत्सुकमना हि सः ॥८१८॥ वधू-वरूथिनीयुक्तः प्रयाति मालवं प्रति । देशान् जित्वा महाराष्ट्र-सौराष्ट्र-लाटकान् पथि ॥८१९॥ वर्धितवारिकुल्या'वत् स्वबलौघ-विवर्धितः । एवं श्रीपाल-भूपेन्द्रः प्राप्तवान् मालवान् क्रमात् ॥८२०॥ पर-चक्रागमं श्रुत्वा मालवेन्द्रश्चराननात् । घृत-धान्यादि सङ्गृह्य बलानि स्वानि सज्जति ॥८२१॥ नृपादेशेन रक्ष्यन्ते गोपुराण्यपि सर्वतः । धावमानै जनै भीत्या जातः कोलाहलः पुरे ॥८२२॥ ततः श्रीपाल-सैन्येन दुर्गस्तु परिवेष्टितः । आद्यो जम्बूद्वीपो वृत्तो लवणोदधिना यथा ॥८२३॥ एवमावासिते सैन्ये स्वयं यामे निशादिमे । श्रीपालो व्योम-मार्गेण प्राप्तवान् मातृ-मन्दिरम् ॥८२४॥ १. वरूथिनी = सैन्यम् । २. कुल्या = नदी ।
盟飄飄飄飄飄飄飄飄飄靈飄飄盟飄飄盪盪盤盤靈靈靈靈靈盟网
ARTwiainelibrary.org
Jain Education in
2010/05
Page #105
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Inter
अहो ! हार- प्रभावेण कुण्डल - काञ्चनाभिधौ । श्रीपालः प्राप्तवान्पूरौ कृतं तत्रापि विस्मयम् ॥८२५ ॥ जीविता तिलका तेन मातृ-मन्दिर सङ्गम । एवं प्रभाव - चत्वारः देवदत्तं तु नाफलम् ॥८२६॥ (युग्मम्)
मातृ-वध्वोः संवादः
सद्वारे रहः स्थित्वा श्रीपालेशः शृणोति सः । वधूं प्रतीदृशं तावज्जल्पति कमलप्रभा ॥८२७॥ नगरी पर-चक्रेण वेष्टिताऽस्ति हि सर्वतः । लोकाश्च व्याकुलीभूताः हा ! हा ! किं किं भविष्यति ॥८२८॥ देशान्तरे गते वत्से वत्से ! जातेऽपि वत्सरे । अद्यापि तव भर्तु र्हि कापि शुद्धि र्न लभ्यते ॥८२९॥ मदना वक्ति हे मातः ! किमपि त्वं बिभेहि मा । यस्मान्नवपद - ध्यानात् स्युर्भयानि कदापि न ||८३०॥ शुभ भावो ममोत्पन्नः पूजयन्त्याः जिनेश्वरम् । देहे न माति हर्षोऽपि रोमाञ्चोऽपि प्रतिक्षणम् ||८३१॥ तथा स्फुरति मे वाम - लोचनञ्च पयोधरः । मन्येऽहं तेन मातस्ते पुत्रोऽद्यैव मिलिष्यति ॥ ८३२॥
2010 05
但有得有
काव्यम्
९४
ww.jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
盤盤靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈
श्रीपालस्य मात्रा प्रियया च सह मिलनम् श्रुत्वा तद्वचनं वक्ति कमला नन्दिता तदा । सुलक्षणास्ति ते जिह्वा भवत्वैवं सुखावहम् ॥८३३॥ तावत् श्रीपाल-राजोऽपि प्रियाम्बामिलनोत्सुकः । स्थापयित्वा करं द्वारे उद्घाटयेति जल्पति ॥८३४॥
संज्ञाय तद्वचः शीघ्रं कमला वक्ति हर्षिता । वचनं मम पुत्रस्य श्रूयते श्रृणु हे सुते ! ॥८३५॥ | तत उद्घाटिते द्वारे श्रीपालो वन्दते तदा । मातुः पाद-युगं प्रेम्णा सम्भाषयति सुन्दरीम् ॥८३६॥ जननी स्कन्धमारोप्य स्वहस्ते दयितां पुनः । श्रीपालेशः स्वमावासं प्राप्तो हार-प्रभावतः ॥८३७॥ भद्रासन-निषण्णां तां 'जनि वक्ति प्रणम्य च । मातस्तव प्रसादेन फलं प्राप्तं तु पश्य मे ॥८३८॥ स्नुषा अष्टापि ताः श्वश्र्वाः पादौ नमन्ति भावतः । वक्ति मदनमञ्जूषा ताभ्यां सर्वाऽपि सा कथा ॥८३९॥ | पुनस्ताभ्यो नवभ्योऽपि श्रीपालः प्रददाति सः । एकैकं नाटकं दिव्यं वस्त्रविभूषणानि च ॥८४०॥
ततश्च मदना पृष्टाऽऽनयामि पितरं कथं । कया रीत्या, तयोक्तं तु स्कन्धे धृत्वा कुठारकम् ॥८४१॥ | १. जनि = जननी ।
毁飄飄飄飄飄飄飄飄盪盪蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈驗
NRN.jainelibrary.org
Jain Education Inter
?
201005
Page #107
--------------------------------------------------------------------------
________________
श्रीपाल
मयणामृत
आगन्तुञ्च तथा रीत्या दूतेनाऽऽज्ञापितस्तदा । कुप्यति च प्रजापालः मन्त्रिणा वारितः यथा ॥८४२॥ क्रियते न समानेन सार्धं निजबल-व्ययः । विचार्य नीतिवाक्यं तां दूतवाचां प्रधार्यताम् ॥८४३॥ ततो मालव-भूपोऽपि सामन्तादिवृतः प्रगे । स्कंधे स्वाधीतिमारोप्य स्कंधवारं यदेति सः ॥८४४॥ दूरीकृतस्तदैव श्री - श्रीपालेन परश्वधः | सन्मानितः प्रजापाल, रूपावेश्य वरासने ॥८४५ ॥ प्रणम्याथ पितुः पादौ मदना वक्ति तं प्रति । तात ! मे कर्मणा दत्तः वरस्सोऽयं नृपोत्तमः ||८४६॥ प्रजापालेन साश्चर्यं श्रीपालः स नमस्कृतः । जल्पति च न हि ज्ञातः प्रभावस्ते मया पुरा ॥८४७॥ नास्ति कश्चित्प्रभावो मे प्राह श्रीपाल भूपतिः । परं गुरूपदिष्टस्य सिद्धचक्रस्य दृश्यते ॥८४८॥ एषा वार्ता चमत्कारी आजन - राजमन्दिरम् । कर्णोपकर्णैः व्याप्ता जलेषु तैलबिन्दुवत् ॥८४९॥ सौभाग्यसुन्दरी - रूपसुंदरी प्रमुखा अपि । तदाश्चर्यं समाकर्ण्य प्रयान्ति तत्र मण्डपे ॥८५०॥
१. स्कन्धावार: शिबिरः । २. यदा + इति ( गच्छति ) ।
Jain Education Inte 982 2010 05
काव्यम्
९६
.
Page #108
--------------------------------------------------------------------------
________________
श्रीपाल-
काव्यम्
मयणामृत
孤飄飄飄飄飄飄飄飄飄飄飄飄飄靈
मिलिते स्वजने चैवं हर्षोत्कर्षं ततो गतः । नाट्यं कर्तुं तदा शीघ्रं श्रीपालेशः समादिशत् ॥८५१॥ उत्सवे डीम्बमध्यात् सुरसुन्दरी प्राप्ता | आद्यनाटक-वृन्देऽथ प्रोत्थितेऽपि प्रनर्तकी । नोत्तिष्ठति बहूक्ताऽपि सा तु कैरपि लज्जिता ॥८५२॥ । नृत्य-धर्मे ! कथं नृत्ये लज्जा तव क्षणे पले । “त्यक्त-धर्मा भवेत्सर्वे विश्वेऽनर्थो महाँस्तदा" ।
नितान्तं' प्रेरणातोऽन्यैः सा समुत्थापिता तदा । सविषादं निरुत्साहं पठितं दोहकं तया ॥८५३॥ | किहां मालव किहां शंखपुर किहां बब्बर किहां नट्ट ।
सुरसुन्दरी नच्चावियइ दइविहि दलवि भरट्ट ॥८५४॥ श्रुत्वेति वचनस्तस्याः सर्वेऽपि चिन्तयन्ति ते । हा ! सुरसुन्दरी नूनं कुत एषा समागता ॥८५५॥ मातृकण्ठे विलग्ना सा भये मर्कट-पुत्रवद् । पपाताश्रूणि नेत्राभ्यां बाढं रुरोद बालवत् ॥८५६॥ १. अत्यंत । २. व मालव देशः (यत्र जन्माभूत्) व शङ्खपुरी (यत्र परिणायिता) व बब्बर देशः (यत्र विक्रीता) व नृत्यं (लोकानामग्रे नृत्यकरणं) ? दैवेन (मदृति =) गर्वं दलयित्वा सुरसुन्दरी नृत्यते ॥८५४॥
飄飄飄飄飄飄飄飄飄盪盪飄飄欧盟靈靈靈靈靈靈靈靈器
X
_JainEducation Inte
w.jainelibrary.org
201005
Page #109
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
काव्यम्
靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈盟
पृष्टा सा रुदन्ती पित्रा विस्मितेनाऽऽननेन हि । वत्सेऽयं कोऽस्ति वृत्तान्तस्तयापि भणितं तदा ॥८५७॥ सुरसुंदर्याः दुःखदः वृत्तान्तः पश्चातापश्च भोंपेता तदा तात ! शङ्खपुरमहं गता । परिणीयेतस्तु यावत् तादृश्या सम्पदायुता ॥८५८॥ मुहूर्ताय स्थितस्तत्र जामाता ते पुराबहिः । सुभट-परिवाराद्यैः समागच्छत् स्ववेश्मनि ॥८५९॥
अत्रान्तरे महाघाटी चौराणां पतिता तदा । जीवं लात्वा च मां मुक्त्वा जामाता ते पलायितः ॥८६०॥ | चौरैर्भटै गृहीताऽहं युष्मदत्त श्रिया समम् । तै विक्रीता च नेपाले गृहीता सार्थपेन हि ॥८६१॥ विक्रीता सार्थनाथेन यद्बर्बर-कुले पुनः । वेश्यया संगृहीताऽहं गीत-नाट्यं च शिक्षिता ॥८६२॥ महाकालनरेन्द्रो यः क्रीतवान् नाटकप्रियः । नट-पेटकसंयुक्तां गणिकातश्च मां ततः ॥८६३॥ तेन राज्ञा पुनर्दत्ता नवभिर्नाटकैः समम् । सुता-मदन सेनायाः स्वामिने कर-मोचने ॥८६४॥ नृत्यन्त्या च तदने तु कालो यो गमितो मया । परिवार निजं दृष्ट्वा दुःखमुल्लसितं मम ॥८६५॥
徵靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈数靈靈部
___JainEducation inte
2010_05
For Private & Personal use only
aineisy.org
Page #110
--------------------------------------------------------------------------
________________
श्रीपालमयणामत
काव्यम्
蒙蒙眾張强强强强强蒙蒙蒙發飄飄飄蹤監獄獵獵飄飄飄飄
तदा निज-गुरुत्वाच्च मदनाया विडम्बनात् । कृतः गर्व इदानीं तु भुनज्मि कर्मणो फलम् ॥८६६॥ उक्तं च (शार्दूलविक्रीडितम्)
पत्रं नैव यदा करीर-विटपे दोषो वसंतस्य किम्, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्,
यत्पूर्वं विधिना ललाट-लिखितं तन्मार्जितुं कः क्षमः ॥८६७॥ | धन्यानां मदना धुर्या सुशीला कुल-दीपिका । हा हाऽहं कृतपापाऽस्मि कुल-शील-विवर्जिता ॥८६८॥ सद्धर्मो मदनायास्तु फलितः कल्पवृक्षवत् । मिथ्याधर्मो मया ज्ञातो दुःखदो विषवृक्षवत् ॥८६९॥ सम्यक्त्व-सत्त्व-शीलेषु यतध्वं मदनेव च । मिथ्यात्व-मदमारिषु नेक्षितव्यं मनागपि ॥८७०॥ श्रीपालेन समानीतोऽरिदमनः चमू-गणात् । महाकाल-महीपाल-प्रदत्तात्कर-मोचने ॥८७१॥
盟盟綴飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈殿毁盤
Jain Education Intern
2010_05
For Private & Personal use only
AHMM.jainelibrary.org.
Page #111
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- सुरायै दत्तवान्पालः पतिं राज्य-धनैः सह । धर्म-कर्म-फलं दृष्ट्वा प्राप्तौ सदर्शनं च तौ ॥८७२॥ मयणामृत-38
सेव्यतेऽथ नीरोगैश्च तत्सप्तशतकुष्ठिभिः । मदनावचनात् नित्यं श्रीश्रीपालनरेश्वरः ॥८७३॥ भूपेश्वरोपि तान् सर्वान् राज्ञः लघून्करोति च । भानि भान्ति रजन्यां खेऽभितो हि रजनीकरम् ॥८७४॥ मतिसागरमाहूय सादरं दत्तवान्नृपः । मन्त्रि-मुद्रां पुनस्तस्मै निष्ठावान् पूज्यते यतः ॥८७५॥ | अथान्यस्मिन्दिने मन्त्री व्यजिज्ञपयत् नरेश्वरम् । वयसानुभवै वृद्धो रहसि मन्त्रणालये ॥८७६॥ पितृराज्यप्राप्तेः इच्छा बाल्येऽपि स्थापिते त्वयि पितृस्थाने तदा प्रभो । त्वं येनोत्थापितो राज्यात् तस्यारित्वे न संशयः ॥८७७॥ | सति सामर्थ्ययोगेऽपि पितृराज्यं न गृह्यते । हास्यास्पदं स लोके स्यात् ततो राष्ट्र विमोचय ॥८७८॥
अनुभव-कषैस्तीक्ष्णात्प्रधानवचनादनु । श्रीपालपृथिवीशोऽपि प्रभणत्यथ तं प्रति ॥८७९॥ यत्सामादिचतुष्केन तदुपायो विधीयते । शाम्यति सितया पित्तं क्षारौषध्या तदा कृतम् ॥८८०॥
毁飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄線
繳飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈驗體驗激發飄飄飄
2010-05
___JainEducation InteRR
188
Page #112
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
प्रेषयत्यथ भूनाथः पितृराज्याप्तिमिच्छुकः । स्वपितृव्यं प्रतिक्ष्मापं दूतं नाम्ना चतुर्मुखम् ॥८८१॥ गत्वा चम्पां भ्रमँस्तत्र पुरशोभां च पश्यति । शृत्वाऽभिख्यां स्वनाथस्य पितॄणां स प्रमोदितः ॥८८२ ॥ संभाषते सदो गत्वाऽजितसेनं नराधिपम् । श्री श्रीपाल - नरेन्द्रस्य कीर्ते वृद्धि र्भवेद्यथा ॥८८३ ॥
पित्रास्थापि पदे बालो वसुधा वहनेऽक्षमः । इति ज्ञात्वा सुतो भातुस्त्वया प्रोत्थापितः पदात् ॥८८४॥ कुशलत्वं तु तस्याद्य विद्यते राज्य - पालने । रक्षणायास्ति तत्पार्श्वे बलमप्यतुलं तथा ॥८८५ ॥ वन्द्यते राज-राजेन्द्रैः स भक्तै भगवान् यथा । क्षति र्न कोऽपि मे नाथे ततो राज्यं प्रदीयताम् ॥८८६ ॥ भूपोऽप्यजितसेनश्च प्रोचे निशम्य तत्कथाम् । क्रोधाग्निज्वालया दग्धो वह्निना दारुवत्तदा ॥८८७॥ बालकोऽयमिति ज्ञात्वा मुक्तोऽस्ति कृपया मया । किं न संस्मर्यते तेनापकारो खलु मे महान् ॥८८८ जीवस्तदा विमुक्तस्स क्षति र्हा हा कृता मया । मुक्तो बाल-फणी काले महाफण-धरो भवेत् ॥८८९ ॥ रुष्टोऽस्ति यमराजोऽद्य नूनं तव प्रभुं प्रति । सिंहवच्च प्रबुद्धोऽस्मि शत्रुं हन्तुं समुद्यतः ॥८९०॥
Jain Education Inter0032010_05
8888888
काव्यम्
१०१
jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
काव्यम्
蠻蠻蠻蠻蠻蠻飄飄蒙飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈
| जीवन्मुक्तोऽसि दूतत्वादतस्त्वं गच्छ सत्वरम् । गत्वाऽथ तेन वृत्तान्तः श्रीपालाय निवेदितः ॥८९१॥ संबोधितोऽप्यबुद्धोऽस्ति वृद्धत्वेन मतिर्गता । नास्त्यतः कोऽप्युपायोऽन्यः युद्धे सज्जीभव द्रुतम् ॥८९२॥
श्रुत्वा श्रीपालभूपालः चचाल सबलस्ततः । गर्जित'-कल्पितोपेतः लघुराजैः समावृतः ॥८९३॥ | चम्पासीम्नि स्थिते गङ्गा-तट आवास-संस्थितः । संध्याकाले यथा सर्वं न्यग्रोधे पक्षिसङ्गमः ॥८९४॥
अजितसेनः युद्धे पराजितः परिवजितश्च | राजा त्वजितसेनोऽपि तत्रैवागत्य सन्मुखम् । निजसैन्यसमायुक्तः पटावासं करोति सः ॥८९५॥ परस्परमथो युद्धे सञ्जाते सुभटैस्तयोः । कियद्-दिनैः कुन्ताकुन्ति खड्गाखड्गि शराशरि ॥८९६॥ जिते च लभ्यते लक्ष्मी म॒ते चापि सुराङ्गना । क्षण-विध्वंसिनी काया का चिन्ता मरणे रणे ॥८९७॥ एवं विचार्य चित्ते ते शूराविहित-मङ्गलाः । परस्परमयुध्यन्त मत्स्यैर्मत्स्या इवार्णवे ॥८९८॥ १. गर्जितः = मदोन्मत्तः गजः । २. कल्पितः = युद्ध माटे तैयार हाथी ।
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
Join Education Intel
2010-05
For Private Personal use only
ainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
激飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄
तत्सङ्ग्रामे प्रभज्यन्ते रथाः पर्पटवत् तयोः । भिद्यन्ते हस्तिनस्तत्र कुष्माण्डफलवत् तथा ॥८९९॥ च्छिद्यन्तेऽश्वगणाः सर्वैश्चिर्भटीवद्भटैस्तदा । म्रियन्ते सुभटास्तत्र 'कृत्यन्ते हा ! यथाऽर्जुनम् ॥९००॥ भग्नां सेनां निजां दृष्ट्वा जितसेन धराधरः । शीघ्रमुत्थाय युद्धार्थं रिपुसेनां प्रतर्जितः ॥९०१॥ यावद् शत्रुभटाँस्तत्र संहरति कृतान्तवत् । लघुभूपशतेनाथ सप्तभिः संप्रवेष्टितः ॥९०२॥ तमधः पातयित्वाथ जीवन् बद्धश्च लीलया । उपश्रीपालमानीतस्तेनापि स विमोचितः ॥९०३॥
वक्ति भूपोऽपि हे तात ! सङ्क्लेशं मा विचिन्तय ।
किन्तु स्वकीय-भूमि त्वं भुङ्क्षव सौख्येन पूर्ववत् ॥९०४॥ श्रुत्वा तद्वचनं राजाऽजितसेनो व्यचिन्तयत् । अविमृष्टं कृतं कार्यं हा हा किं भावि मामकम् ॥९०५॥
वृद्धोऽप्यहं महापापी परद्रोह-परायणः । परोपकार-रक्तोयं पुनर्बालोऽपि सात्त्विकः ॥९०६॥ • गोत्र-राज-शिशुद्रोहै-नश्यत्यनुक्रमेण हि । कीर्ति-नीतिः सुगत्यादि र्हा व गच्छामि साम्प्रतम् ॥९०७॥
१. कृत्-कर्तने । २. अर्जुनम्-तृणम् ।
१०३
_Jain Education interEST 2010_05
Jainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
蒙靈靈靈靈盟盟盟認靈靈靈靈靈露蒙蒙蒙蒙靈靈蒙蒙蒙
अङ्गीकुर्वे प्रव्रज्यां हि पापत्रय-विघातिनीम् । नान्य-मार्गोऽस्ति संसारो दधौ पापकृतो हि मे ॥९०८॥ यत:प्रव्रज्या भवपाथोधिनिस्तारणतरी-निभा । प्रव्रज्या साम्यमाकन्द-वसन्तसमयोपमा ॥९०९॥ यावच्चिन्तयति ज्ञानं जातिस्मृत्यभिधं ध्रुवम् । समुत्पन्नं क्षणां तेन पूर्वभवस्तु संस्मृतः ॥९१०॥ तत्स्मृत्याजितसेनोऽपि सर्वविरति-नामकम् । प्रत्यपद्यत चारित्रं विबुध-दत्त-वेषकः ॥९११॥ | दृष्ट्वा प्रपन्न-चारित्रं तद्राजर्षि प्रणम्य च । स्तौति श्रीपालभूपोऽपि शीघ्रं सद्भावतः यथा ॥९१२॥
श्रीपालेन कृताऽजितर्षिस्तुतिः • क्रोधादि-दश्यवो ये ये क्षान्ति-खड्गेन संहताः । सुरेन्द्रैरपि दुर्जेया भवते मुनये नमः ॥९१३॥
त्रिकं रागादि-निर्धूतं स्वकीयचित्त-वस्त्रतः । द्वेषो वशीकृतो येन भवते मुनये नमः ॥९१४॥ प्रायश्चित्तं न गृह्णात्यशुभयोग-गतं खलु । पाप-प्रपतितायाधं तस्मै सद्योगिने नमः ॥९१५॥ १. प्रायः = बाहुल्येन, अघं-पापं न गृह्णाति चित्तमिति कर्ता पापात् प्र-प्रकृष्टेन पतितः मुक्तः तस्मै पतिताय ।
鹽鹽飄飄飄飄飄飄飄飄飄飄飄飄蒙蒙蒙蒙眾盟徽盟靈靈靈發出
१०४
JainEducation Intemand2010_05
For Private & Personal use only
jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈激
स्तुत्वैवं च नमस्कृत्याऽजितसेनं मुनि नृपः । स्थापयति पितृस्थाने तस्य पुत्रमनन्तरम् ॥९१६॥ प्रादिशत् पितृ-साम्राज्ये ह्यन्तर्विगाहनाय च । नृपामात्यादयः सर्वे सज्जीभूता महामहैः ॥९१७॥ ततः स्नानादिकं कृत्वा सुरभिणाऽथ वारिणा । हरिचन्दन-लिप्ताङ्गः श्वेताम्बर-विराजितः ॥९१८॥
मुकुटाद्यैरलङ्का-रैर्भूषितः कृत-मङ्गलः । नारीगीतरवापूर्णदिगन्तश्छत्र-शोभितः ॥९१९॥ | वाद्यमानोरुवादित्रो भट्टोद्धष्ट-जयारवः । वरकुञ्जरमारूढो बहुनृपैः समावृतः ॥९२०॥ | श्रीपालस्य चम्पापुरीप्रवेशः राज्यपालनं च
चम्पापुर्यां मुहूर्तेऽथ श्रीपालाधिपतिः क्रमात् । देवपुर्यामिवेन्द्रोऽथ प्रविशति महामहैः ॥९२१॥ | पश्यन् नगर-शोभां च जनहर्षोद्भवां खलु । नृपास्थानीप्रविष्टोऽथ नागरभिनन्दितः ॥९२२॥ स्थापयित्वा पितुः पट्टे तत्र सर्वैनरेश्वरैः । कृतो राज्याभिषेकश्च नागरैरपि नन्दितः ॥९२३॥ प्रस्थाप्य पट्टराज्ञीत्वे सती मदन-सुन्दरीम् । लघुपट्टाभिषेकञ्च शेषाणां कृतवान्नृपः ॥९२४॥
跟露露器强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露出
१०५
SRw.jainelibrary.org
Jain Education Inte
l
2010 05
Page #117
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
网靈靈露露露飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟
धवलश्रेष्ठिनस्त्रीणि मित्राण्यपि च पूर्ववत् । स्थापितवान्प्रधानत्वे मुख्यत्वे मतिसागरम् ॥९२५॥ कौशाम्बीतः समानीय धवल-श्रेष्ठिनः सूतः । राजश्रेष्ठि-पदे श्रेष्ठे विमलः स्थापितः पुनः ॥९२६॥ पालयन् न्यायमार्गेण राज्यं सौख्यं भुनक्ति सः । नित्यं श्रीसिद्धचक्रस्य पूजां ध्यानं करोति च ॥९२७॥ अजितर्षिणा धर्मदेशनान्ते श्रीपालस्य पूर्वभवः कथितः सम्प्राप्तेऽथावधिज्ञाने शुद्धचारित्रपालनात् । सोऽजितसेनराजर्षिश्चम्पापुर्यां समागतः ॥९२८॥ | परिवारयुतो राजा श्रुत्वा तस्यागमं ततः । नमस्कर्तुं ययौ तत्र भक्ति-विस्मय-नोदितः ॥९२९॥
क्षमा-तल-मिलन्मौलि-जानु-पाणियुगस्ततः । क्षमापालो नमश्चक्रे क्षमापाल-पतिं गुरुम् ॥९३०॥ दृष्ट्वा सुस्थिरनेत्राभ्यां तेनाप्युनत-पाणिना । धर्मलाभाशिषा भूपोऽप्यभ्यनन्द्यत सूरिणा ॥९३१॥ प्रणम्योपविशद्राजा प्रमुच्याऽवग्रहं सुधीः । सूरि पमथोद्दिश्य विदधे धर्मदेशनाम् ॥९३२॥ | चत्वारि परमङ्गानि दुर्लभानि तु देहिनाम् । मानुष्यत्वं श्रुतिः श्रद्धा संयमे च पराक्रमः ॥९३३॥
盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈累激盟徽墨飄蹤器
१०६
86600000
___JainEducation intenS T 2010-05
Alujainelibrary.org
Page #118
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈飄飄飄飄飄飄靈蒙蒙設靈激發關證號盟盟
मार्गः साध्यस्तदावाप्त्या मोक्षस्यैकं तु कारणम् ।
साम्य-भावः सदा भाव्यः धर्तव्याः हृदि भावनाः ॥९३४॥ कार्यं किञ्चिद्धि संसारे विनाहेतुं न जायते । अङ्कुरस्य यथा बीजं यथा देहस्य चेतनाम् ॥९३५॥ तथैव सर्व-जीवानां भ्रमतामत्र विष्टपे । प्रवृतौ कर्म-सञ्चारान्नाऽन्यत् प्रधानकारणम् ॥९३६॥ स्वकीयसुखलाभेऽपि दुःखेऽपि चिन्तयेत् सदा । स्वोपार्जितं पुराकर्म नाऽतो रत्यरती कुरु ॥९३७॥ संश्रृत्य देशनां तत्र पप्रच्छाऽथ नरेश्वरः । अजितसेनराजर्षि जिज्ञासु विनय-तत्परः ॥९३८॥ भगवन्मम बालत्वे तादृशी केन कर्मणा । देहे व्याधिः समुत्पन्ना शान्ता च केन कर्मणा ॥९३९॥ महधि कर्मणा केन प्राप्तवाञ्च पदे पदे । अब्धौ पातश्च डुम्बत्वं केनाभूत् कर्मणा प्रभो ! ॥९४०॥ तदा मुनि-वरेन्द्रोऽपि भणति भो ! नृपेन्द्र ! यद् । इहोद्भवफलानां हि स्वस्वकर्मैव कारणम् ॥९४१॥
望强强强强强强强强强强蠻蠻蠻聚飄飄飄飄蠻蠻蠻蠻蠻靈靈靈
१०७
Jain Education
a l 2010_05
For Private & Personal use only
Page #119
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
यतः
कार्यं कारण-सदृक्षं लोके भवति निश्चितम् । सहकार-द्रुमान्निम्ब-फलं स्यान्नैव कर्हिचित् ॥९४२॥ | श्रूयतामथ हे राजन् शुभाशुभस्य कारणम् । दुःखं पापात्सुखं पुण्यात्सिद्धान्तोऽस्ति सनातनः ॥९४३॥
श्रीकान्तनृपेण मुनिर्विराधितस्तेन कुष्ठित्वं समुद्रे मज्जन डुम्बत्त्वप्रापणं च | पुरा हिरण्यपुर्यासीत् श्रीकान्ताभिध-भूपतिः । समाधानकरी चित्ते कथां श्रुणु नराधिप ! ॥९४४॥ श्रीमतिः पट्टराश्यस्ति श्रीतुल्या तस्य निर्मला । शुभा सम्यक्त्वशीला सा जिनधर्मैक-तत्परा ॥९४५॥ पापद्धिनिरतश्चाभूद् राजा संसर्ग-दोषतः । साऽन्यदा मधुरैर्वाक्यैः स्वपति प्रत्यबोधयत् ॥९४६॥ सैनिकैश्च हयारूढैः भीषणैः शस्त्र-पाणिभिः । जीवा नरैः प्रहन्यन्तेऽनाचारः क्षत्रियस्य सः ॥९४७॥ । दीना वराका निर्दोषा जीवा: वृथैव मार्यन्ते । तव हा कीदृशी नीति ाय-मार्गेऽपि निन्दिता ॥९४८॥ परप्राणान् निहत्यात्र स्वप्राणं पोषयन्ति ये । ते दुष्टाः स्वल्प-घस्त्रैःहा निजं नन्ति हि निश्चितम् ॥९४९॥ १. घस्त्रैः दिनैः ।
那靈靈靈靈靈靈靈飄飄飄飄盤靈器靈靈靈靈靈靈靈靈靈體强网
强强强螺蒙蒙驗
Jain Education Intel
2010_05
For Private & Personal use only
Jww.jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________
काव्यम्
683
श्रीपाल- Wl इत्येवं बोध्यमानोऽपि सन्तोषरहितो नृपः । मृगयार्थं गतः सप्त-शत-वण्ठै र्वने तदा ॥९५०॥ मयणामृत
* धर्मध्वजयुतं तत्र मुनि प्रेक्ष्य नृपोऽवदत् । कश्चामरकरोऽत्राऽयं कुष्ठिरूपश्च दृश्यते ॥९५१॥ | नृपवाक्याच्च वण्ठैस्तै मुनिश्रेष्ठ उपद्रुतः । श्वेव विताड्यते साधुः क्षमावाँल्लोष्टु-यष्टिभिः ॥९५२॥
यथा यथा मुनिश्रेष्ठस्ताड्यते स्म तथा तथा । प्रावर्धत रसः शान्तः स्वभावालम्बनेन हि ॥९५३॥ | भूपते हृदि वर्धन्ते हर्षोर्मय इवोदधौ । सत्कारयन्ति ह्यात्मानं कृत्वाऽप्यागांसि पापिनः ॥९५४॥ | तथान्यस्मिन्दिनेऽगच्छदाखेटाय स कानने । मुनिमेकं नृपोऽपश्यत्सरितायाः तीरे स्थितम् ॥९५५॥ | तं प्रेक्ष्याथ मुनि शान्तं कराभ्यां सहसा नृपः । पातयित्वा सरिन्नीरे न्यकार्षीत् त्वरितं तथा ॥९५६॥
गृहमागत्य देवी सा ज्ञापिता ऋजुभावतः । तयापि बोधितस्तत्र मधुरवचनै र्यथा ॥९५७॥ | अन्येषामपि जीवानां पीडा तु दुःखदा खलु । पुनर्नूनं मुनीनां तु हा ! दारुण-फल-प्रदा ॥९५८॥ मुनिघातस्तु जन्तूनां दीर्घ-संसार-कारणम् । भवेच्च दुर्लभा बोधिरेवमुक्तं जिनागमे ॥९५९॥
靈靈靈靈綴飄飄飄飄飄飄飄强强强强强强臨
१०९
___JainEducation inm
2
010_05
For Private Personal use only
voww.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
काव्य
श्रीपालमयणामृत
蠻靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器
१'चेइयदव्वविणासे इसिघाये पवयणस्स उड्डाहे । संजइचउत्थभग्गे मूलग्गी बोहिलाभस्स" ॥९६०॥ राजीवाचां हितां श्रुत्वा नृपोऽपि समबुध्यत । प्रोक्तं च न करिष्येऽहमकृत्यमीदृशं पुनः ॥९६१॥ नृपोऽन्यदा गवाक्षस्थो दृष्ट्वा किञ्चिन्मुनि जगौ । रे रे निवार्यतां शीघ्रं डुम्ब एष पुराद् बहिः ॥९६२॥ तदादेशेन तैर्वण्ठैः निष्कासितो मुनिः पुरात् । स्वगवाक्षस्थया देव्या दृष्टः साधुस्तपोमनाः ॥९६३॥ ततो निर्भत्सितो देव्या नृपेन्द्रोऽपि तं मुनिम् । समावाय्य स्वसौधे च पूजितवाङ् क्षमारसैः ॥९६४॥ श्रीमत्या च मुनिघृष्टोऽज्ञानत्वात् ज्ञानवन् ! प्रभोः । साधूपसर्गं कृत्वायद् राज्ञा पापमुपार्जितम् ॥९६५॥ स्वामिन् क्षमस्व भूपस्योपायं प्रसद्य दर्शय । येन कृतेन राजाऽयं पापान्मुच्येत सत्वरम् ॥९६६॥ भद्रे ! सान्द्रं कृतं पापं राज्ञाऽवदत् मुनिर्यतः । साधोरस्त्युपघातस्तु सर्वगुणविनाशकः ॥९६७॥ विनश्यति महांह'स्तत्क्षणात्सद्भाववृद्धितः । यथाब्धौ घनशेवाल: महानिलै विभज्यते ॥९६८॥ १. चैत्यद्रव्य-विनाशे ऋषि (साधु) घाते प्रवचनस्य उड्डाहे । संयतीचतुर्थव्रतभङ्गे मूलेऽग्निः (ज्ञातव्याः) बोधिलाभस्य । २. महा + अंहस् (पाप)।
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟盟毁靈靈靈靈器
११०
___JainEducation intems
|201005
For Private & Personal use only
FORajainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈毁靈靈靈靈靈靈激蒙飄飄飄靈靈靈靈靈靈蒙蒙激發靈感
भावोल्लासकृते सिद्ध-चक्रस्याराधनं वरम् । मुनिभिः प्रोपदिष्टं यद् सिद्धं नवपदैः शुभम् ॥९६९॥ श्रीकान्तेन कृता नवपदाराधना तस्याश्च प्रभावेण श्रीपालत्वे राज्यं नवपल्यश्च
देव्या सार्धं स भूपोऽपि समाराधनोति तद्वतम् । पूर्णे तपसि तेनैव विस्तृतोद्यापनं कृतम् ॥९७०॥ | तस्यैवोद्यापनस्येतोऽनुमोदनां करोति सा । श्रीमत्यष्टसखीयुक्ता भावोपेतां पुनः पुनः ॥९७१॥
'सम्यक्कृतमिति प्रोच्य क्षणमात्रं प्रशंसितम् । राज्ञः धर्मादि कार्यं च तस्य सप्तशतं नरैः ॥९७२॥ | अथान्यदा नृपादेशात् तैर्कण्ठैः सिंहभूपतेः । संहृतः पार्श्वगो ग्रामं प्रपातेनाऽतिशीघ्रतः ॥९७३॥ | तत्रतो धावमानास्ते यावन्निज-पुरं प्रति । धनधान्य-सुवर्णादीन् गृहीत्वा गोधनं पुनः ॥९७४॥ • चण्डः सिंहाभिधो भूपो महासेनासमन्वितः । जघान घातकान् पुंसः तेषां पृष्ठे समेत्य सः ॥९७५॥
मृत्वा सर्वेऽपि ते सप्त-शतं वै कुष्ठिनोऽभवन् । यः श्रीकान्त-जीवस्त्वं नृपो जातः सुपुण्यतः ॥९७६॥ | श्रीमत्याः जीव एषोऽपि जाता मदन-सुन्दरी । जीवरक्षा परादक्षा जिनधर्मे सदास्थिता ॥९७७॥
盟靈盤盤靈飄飄靈靈靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈感
___JainEducation interfal 2010_05
For Private Personal use only
Nw.jainelibrary.org.
Page #123
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
मुने विराधनां कृत्वा त्वया प्राप्तं स्वकर्मणा । कुष्ठित्वं पतनं सिन्धौ डुम्बत्वमिह जन्मनि ॥९७८॥ दृश्यते विस्तृता ऋद्धिर्या चैषा निखिला तव । सिद्धचक्र प्रसादोऽयं ज्ञातव्यं नान्यकारणम् ॥ ९७९ ॥ श्रीमत्याश्च सखीभिर्या कृता व्रतानुमोदना । तस्याः पुण्य-प्रभावेण लघुदेव्योऽभवंस्तव ॥९८०॥ धर्मानुमोदनात्कर्म तेषां सत्समुपार्जितम् । तत्कर्मणा नृणां जाता सप्तशत्या पि नीरुजाः ॥९८१॥ पूर्वजन्मगतस्नेहाच्छुभकर्मोदयाच्च वा । स्यात्सम्बन्धोऽत्र जन्तूनां तृतीयं नास्ति कारणम् ॥९८२॥ सिंहस्तु पीडितो घातै र्दीक्षां प्रपाल्य मासिकीम् । जातोऽस्म्यजितसेनो यः शैशवे तव राज्यहृत् ॥९८३॥ पूर्वाभ्यास - सुयोगेन संयमं प्रगृहीतवान् । संप्राप्ते चावधिज्ञाने समेतोऽस्मीह पार्थिव ! ॥ ९८४ ॥ येनैवं यादृशं यद्यद् कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तेनैवात्र तु तादृशम् ॥९८५॥ श्रुत्वैवं सद्गुरोर्वाणीं नृपो व्यज्ञपयद् विभो ! । संयमस्यास्ति मे भावस्तेन तारय मां भवात् ॥ ९८६ ॥ प्राह मुनिवरेन्द्रोऽपि भोगकर्मोदयाच्छुभात् । नास्त्यस्मिंस्ते भवे नूनं चारित्रपालने बलम् ॥९८७॥
Jain Education Intal 2010_05
For
काव्यम्
११२
6 ww.jainelibrary.org.
Page #124
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
微露盟盟景盤蒙蒙蒙激發飄飄飄飄飄飄靈蒙蒙蒙蒙蒙蒙蒙蒙
किन्तु ध्यात्वाऽर्हदादीनि पदानि भावतो नव । प्राप्स्यसि नवमं नाकं भवान्नवभवानितः ॥९८८॥ | मामर्त्यभवान्प्राप्याथोत्तरोत्तरसौख्यदान् । प्राप्स्यसि शाश्वतं सौख्यमरूपमक्षतं ध्रुवम् ॥९८९॥ इत्याकर्ण्य नरेन्द्रोऽपि भाव-सम्भृत-मानसः । जगाम निजकं धाम सिद्धचक्रस्थ-मानसः ॥९९०॥ बद्धकर्म-विपाकस्य फलं भुञ्जन्ति जन्तवः । संबोध्येति च भव्यानां विजहार मुनीश्वरः ॥९९१॥ श्रीपालोऽप्यथ राजेन्द्रो नवपत्नीभिरन्वितः । आराधयति सद्भक्त्या सिद्धचक्रं यथाविधि ॥९९२॥ आराधनान्ते उद्यापनम् सविस्तरपूजनञ्च एवं पूजयतो यावत् वत्सरानर्घपञ्चमान् । तपसि पूर्णतामाप्ते कृतमुद्यापनं यथा ॥९९३॥ चैत्ये कुत्रापि संपाद्य त्रिपदामथवेदिकाम् । धवलै नवरङ्गैश्च रञ्जयति मनोहरैः ॥९९४॥ शाल्यादिप्रमुखै र्धान्यै मन्त्रपूतैस्तु पञ्चकैः । श्रेष्ठं निर्माति तत्र श्रीसिद्धचक्रस्य मण्डलम् ॥९९५॥ तस्मिन्नवपदे तेन नारिकेलफलानि हि । आदौ सघृतखण्डानि स्थाप्यन्ते नवसङ्ख्यकैः ॥९९६॥
强强强强强綴飄飄飄飄飄飄飄飄飄飄飄靈毁靈靈靈靈靈激發
Jain Education Inter
2010.05
For Private Personal use only
Page #125
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत
盟盟蒙蒙蒙飄飄飄蠻蠻靈靈激發飄飄飄靈靈靈靈强認
| अथोपतिष्ठते तत्र जिनं यन्त्रञ्च मण्डलम् । उत्तमोत्तमसामय्या यथाविधिं यथाक्रमम् ॥९९७॥
अर्हत्पदं पुनस्तेन श्वेतवर्णैः सुपूजितम् । कर्केतनाष्टरनैश्च चतुस्त्रिंशत्सुहीरकैः ॥१९८॥ सिद्धपदं द्वितीयं तु पूजितं रक्त-वर्णकम् । एकत्रिंशत्प्रवालैश्च माणिक्यैरष्टभिः शुभैः ॥९९९॥ | सूरिपदेऽथ संस्थाप्य तृतीयेऽपूजयत् क्रमात् । पञ्चगोमेदरत्नानि षट्त्रिंशद्वै'-सुमानि च ॥१०००॥ | चतुर्थे-वाचक-स्थाने चतुर्नीलमणीन् पुनः । ढौकित्वा पूजितं भूपैः मणीनां पञ्च विंशतिं ॥१००१॥ • पञ्चभी राजपट्टैश्च मुनिपदं सु-पूजितम् । मणीनां सप्तविंशत्या पञ्चमं श्याम-वर्णकम् ॥१००२॥ • चतुष्षु पद-शेषेषु मौक्तिकानि न्यढौकत । दर्शन-ज्ञान-चारित्र-तपसां गुणमानतः ॥१००३॥ | अनाहतेषु भूपेन्द्रः संस्थाप्य शर्करोपलान् । द्राक्षाभि वर्णमानिभिरष्टवर्गानपूजयत् ॥१००४॥ तदन्तरेषु भागेषु बीजपूरफलानि च । संस्मृत्याहत्पदं तत्र स्थापयति नरेश्वरः ॥१००५॥ १. रै = स्वर्णम् ।
飄飄飄飄飄飄飄飄飄飄飄飄飄盪盪器蒙靈靈飄飄靈强强
For Private & Personal use only
Jain Education Inte19821 2010 05
183
ww.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Interna
張證照
खारिकफलपुजैश्च लब्धिपदं सुभावतः । सद्गुरुपादुकास्थानमर्चितं दाडिमैः फलैः ॥१००६ ॥ नारङ्गादिफलैरष्ट - जयाद्याश्च सुपूजिताः । चक्राधिष्ठायकास्तेन चतुष्कुष्माण्डकैः फलैः ॥१००७॥ आसन्नसेविकानाञ्च सिद्धचक्रस्य नित्यशः । तासां द्वादश-देवीनां कृतापूजालवङ्गकैः ||१००८ ॥ विद्यादेवी तथा यक्षाः यक्षिण्यः शासनस्य च । चतुषष्ठि-पदेष्वेवं पूगैः प्रपूजिताश्च ते ॥१००९ ॥ चतुर्षु द्वार पालेषु चतुर्वीर - पदेषु च । पीत्तकृष्णसुपक्वान्न - पुञ्जानि स्थापितानि वै ॥ १०१० ॥ तथा नवनिधिस्थाने रत्नपूर्णानि भूपतिः । स्थापयति स्म कल्याण - कलशान्यति-भक्तिमान् ॥१०११॥ स्व-स्व-वर्ण- फलैः पुष्पैः क्षितिनाथोऽप्यपूजयत् ।
सेवकान् सिद्धचक्रस्य ग्रहान् दिक्पालकानपि ॥ १०१२ ॥
उद्यापने
तु संपन्ने करोति श्रीनरेश्वरः । स्नात्र महोत्सवं तस्य विस्तृतं विधिनान्वितम् ॥१०१३॥ पूजाथाष्टकारी या भूपालैः पर्यपूर्यत । सङ्खेन तिलकं मौलौ श्रीपालस्य कृतं मुदा ॥ १०९४ ॥
2010 05
काव्यम्
११५
nelibrary.org
Page #127
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
飄飄飄靈靈驗激激蒙蒙蒙蒙蒙蒙眾 望張張靈靈靈靈靈靈礙
द्रव्यार्चायां तु पूर्णायां भावपूजां करोति सः । तत्रादौ पृथिवीनाथः कुरुते चैत्यवन्दनं ॥१०१५॥ श्रीपालस्य भावपूजाप्रारम्भः स्थित्वा विनय-मुद्रायां बद्धाञ्जलिरभून्नृपः । जिनेन्द्र-सम्मुखं प्राह गम्भीर-स्वरया गिरा ॥१०१६॥ | 'जो धुरि सिरि अरिहंतमूलदृढ-पीढ-पइटिओ । सिद्ध-सूरि-उवज्झाय-साहु-चउसाह-गरिट्ठिओ ॥१०१७॥ दसणनाणचरित्ततवहिं पडिसाहाहिं सुंदरं । तत्तक्खर-सरवग्गलद्धि-गुरुपयदलडंबरुं ॥१०१८॥ दिसिवाल-जक्ख-जक्खिणी( ? )-पमुहसुर-कुसुमेहिं अलंकियो । स सिद्ध-चक्क-गुरुकप्पतरु अम्हह मणवंछिअं दिओ ॥१०१९॥ १. यो धुर्य,यहत्-मूल-दृढपीठ-प्रतिष्ठितः । सिद्धसूर्युपाध्याय-साधु-चतुः-शाखा-गरिष्ठकः ॥१०१७॥ २. दर्शन-ज्ञान-चारित्र-तपोभिः प्रतिशाखाभिः सुंदरः । तत्त्वाक्षर-स्वरवर्ग-लब्धि-गुरुपद-दलाडम्बरः ॥१०१८॥ ३. दिक्पाल-यक्ष-यक्षिणीप्रमुख-सुरकुसुमैरलङ्कृतः । सः सिद्धचक्र-गुरुकल्पतरुः अस्मभ्यं मनोवाञ्चितं ददातु ॥१०१९॥
___JainEducation Intem
44w.jainelibrary.ory.
/2010-05
Page #128
--------------------------------------------------------------------------
________________
श्रीपाल
काव्यम
मयणामृत
靈靈靈靈靈靈靈靈靈靈靈張靈靈靈靈靈 山靈靈靈靈靈靈
नमस्कारान्भणित्वैवं भावोल्लासैश्च पावनैः । शक्रस्तवादिपूर्वं स स्तौति नवपदं यथा ॥१०२०॥ नवपदस्तुतिः
'उप्पन्नसन्नाणमहोमयाणं सप्पाडिहेरासणसंठियाणं । सद्देसणाणंदियसज्जणाणं नमो नमो होउ सया जिणाणं ॥१०२१॥ 'सिद्धाणमाणंद-रमालयाणं नमोनमोऽणंतचउक्क्याणं । सूरीण दूरी-कय-कुग्गहाणं नमो नमो सूरसमप्पभाणं ॥१०२२॥ रेसुत्तत्थवित्थारणतप्पराणं नमो नमो वाचककुञ्जराणं ।
साहूण संसाहिअ-संजमाणं नमो नमो सुद्धदयादमाणं ॥१०२३॥ | १. उत्पन्नसद्ज्ञानमहोमयेभ्यः सप्रातिहार्यासनसंस्थितेभ्यः । सद्देशनानन्दितसज्जनेभ्यः नमो नमो भवतु सदा जिनेभ्यः ॥१०२१॥
२. सिद्धेभ्य आनंदरमालयेभ्यः नमो नमोऽनंत-चतुष्केभ्यः । सूरिभ्योः दूरीकृत-कुग्रहेभ्यः नमो नमः सूर्यसमप्रभेभ्यः ॥१०२२॥ | ३. सूत्रार्थ-विस्तारण तत्परेभ्य: नमो नमो वाचक-कुञ्जरेभ्यः । साधुभ्यः संसाधितसंयमेभ्यः नमो नमः शुद्धदयादमेभ्यः ॥१०२३॥
战飄飄飄飄飄飄飄飄靈飄飄飄飄飄飄飄靈靈靈靈靈靈靈跟靈
ww.jainelibrary.org
Jain Education in
2010.05
Page #129
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈靈靈靈靈靈靈靈跟靈靈靈靈靈靈靈靈靈靈靈靈
'जिणुत्ततत्तेरुइलक्खणस्स नमो नमो निम्मलदसणस्स । अन्नाणसम्मोहतमोहरस्स नमो नमो नाणदिवायरस्स ॥१०२४॥ आराहिआऽखंडिअसक्कियस्स नमो नमो संजमवीरिअस्स ।
कम्महुमुम्मूलणकुंजरस्स नमो नमो तिव्वतवोभरस्सं ॥१०२५॥ • इय नवपदसिद्ध लद्धिविज्जासमिद्धं, पयडिअ सरवग्गं ही तिरेहासमग्गं ।
दिसिवइ-सुर-सारं खोणिपीढावयारं, तिजयविजयचक्कं सिद्धचक्कं नमामि ॥१०२६॥ • इत्थं संस्तूय सद्भावैः समुल्लासैः पदान् नव । निर्वेदादि-निजेच्छां सः प्रार्थनया न्यवेदयत् ॥१०२७॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器靈器
| १. जिनोक्त-तत्त्वे रुचिलक्षणाय नमो नमो निर्मलदर्शनाय । अज्ञानसंमोह-तमो हराय नमो नमो ज्ञानदिवाकराय ॥१०२४॥ २. आराधिताऽखण्डित सक्रियाय नमो नमः संयम-वीर्याय । कर्मद्रुमोन्मूलनकुञ्जराय नमो नमस्तीव्रतपोभराय ॥१०२५॥ ३. इति नवपद-सिद्ध लब्धि-विद्या-समृद्धं, प्रगटित-स्वरवर्ग ही त्रिरेखा-समग्रम् ।
दिक्पाल-सुर-सारं क्षोणिपीठावतारम्, त्रि-जगद्-विजयचक्र सिद्धचक्रं नमामि ॥१०२६॥
Jain Education into
1
2010-05
For Private & Personal use only
4
w
.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________
श्रीपाल -
मयणामृत
'षट्कारणेच्छुना चक्रे कायोत्सर्गस्त्रियोगतः । निवृत्यैवं महीनाथः विस्तृतभाव-पूजनात् ॥ १०२८ ॥ मङ्गलैर्वाद्य-निस्वानैः शासनं च प्रभावयन् । साधर्मिकस्य वात्सल्यं सङ्घपूजां करोति च ॥ १०२९ ॥ ( युग्मम् ) एवं क्षितीश्वरः पट्ट- देव्यादिसज्जनैर्युतः । श्रद्धया सिद्धचक्रं स नित्यमाराधयद् भृशम् ॥१०३०॥ सुता भुवनपालाद्यास्तस्यासन् नव संख्यकाः । राज्ये गज - रथानां च सहस्त्रनवकं स्थितम् ॥१०३१ ॥ नवलक्ष-तुरंगानां पत्तीनां नवकोट्यः । नव शतानि वर्षाणि नीत्याराज्यमपालयत् ॥१०३२॥ पुत्रं भुवनपालाख्यं श्रीपालो महपूर्वकम् । राज्यपीठेऽथ संसिक्तः योगक्षेम वह क्षमं ॥१०३३॥ निवृत्तो राज्य कार्येषु संलीनो धर्म-कर्मसु । स्वान्ते स्फटिक - संकाशे स्तौति नवपदं यथा ॥१०३४॥
नवपदस्तुति: ( तात्त्विकचिन्तनम् )
तृतीयस्मिन् भवे येन जिनगोत्रमुपार्ज्यते । संसेव्य - विंशतिस्थानं तमर्हन्तं नमाम्यहम् ॥१०३५॥ चतुर्दशमहास्वप्नैः सूच्यन्ते यस्य सद्गुणाः । राजकुले हि सूते यस्तमर्हन्तं नमाम्यहम् ॥१०३६॥
१. 'वंदणवत्तियाए' इत्यादि - षट्कारणानि (निमित्तानि )
Jain Education Intel 2010_05
काव्यम्
११९
vodww.jainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपाल- * महिमा दिक्कुमारीभिर्यज्जन्मनि विधीयते । चतुःषष्टि सुरेन्द्रश्च तमर्हन्तं नमाम्यहम् ॥१०३७॥ मयणामृत
& जन्मनि यस्य कल्याणे सर्व-शाता-प्रदेऽपि वै । इन्द्रोऽपि प्राप पञ्चत्वं तमर्हन्तं नमाम्यहम् ॥१०३८॥
आ जन्मतः सुरेन्दैश्च घातिकर्म-क्षयात् तथा । जायन्तेऽतिशया यस्य तमर्हन्तं नमाम्यहम् ॥१०३९॥ | रोगाः शोका विलीयन्ते मण्डले योजनावधौ । यस्यागमनमात्रेण तमर्हन्तं नमाम्यहम् ॥१०४०॥
येन प्रवर्तितं तीर्थं भव्यानां मोक्षदायकम् । जिनेन कृतकृत्येन तमर्हन्तं नमाम्यहम् ॥१०४१॥ | पञ्चत्रिंशद्गुणैर्वाचा विबोध्यन्ते च भव्यकाः । प्रातिहार्याष्टकोपेतं तमर्हन्तं नमाम्यहम् ॥१०४२॥ | चलत्यग्रे ध्वजो यस्य योजनैक-प्रमाणकः । नव-स्वर्णाम्बुजे यान्तं तमर्हन्तं नमाम्यहम् ॥१०४३॥ त्रिज्ञानं गर्भतो यस्य तुर्यं चारित्रतोऽभवत् । पञ्चमं कर्मनाशेन तमर्हन्तं नमाम्यहम् ॥१०४४॥ यदन्तिम-शरीरस्य-त्रिभागोनावगाहनात् । लोकाग्रं प्राप्यते यैस्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४५॥ पूर्व-प्रयोग-निसर्ग-बन्धच्छेद-स्वभावतः । येषामूर्ध्वगतिश्चैव सिद्धाः सिद्धि दिशन्तु मे ॥१०४६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
数眾眾飄飄飄飄飄飄飄飄飄飄靈蒙飄盪盪靈靈靈靈靈跟靈靈盟第
१२०
Jain Education Interfal
2010_05
For Private & Personal use only
ARw.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत-8
双徽墨飄飄飄盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
ईषत्प्राग्भार-भूम्याः हि लोकान्ते योजनात्परम् ।
येषां स्थितिः प्रसिद्धास्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४७॥ जिनाजिनादिभेदै यः पञ्चदश तु भाषिताः । जिनेश्वरैश्च सिद्धान्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४८॥
जानन्तोऽपि गुणान्येषां वक्तुं शक्तो न योगिनः ।
ज्ञानिनश्चैव सिद्धानां सिद्धाः सिद्धि दिशन्तु मे ॥१०४९॥ विगुणा अप्यनन्ताष्ट्रकत्रिंशद्गुणिनोऽपि च । सिद्धानन्त-चतुष्कास्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५०॥ येषां स्तः दर्शन-ज्ञानोपयोगौसमयान्तरे । क्रमाद्वा युगपद्वा ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५१॥ अनस्थिरमशरीस्थमनिर्वाच्यमनुत्तरम् । निरुपमक्षयं नित्यं स्वाधीनमपुनर्भवम् ॥१०५२॥ अव्याबाधमनन्त च सदानन्दञ्च शाश्वतम् । प्राप्ता ये सिद्धि-सौख्यं ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५३॥
(युग्मम्)
跟靈靈靈靈綴飄飄靈靈靈靈靈靈靈靈靈靈靈靈
१२१
Iain Education Inte
l
2010_05
For Private Personal Use Only
म
w.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत
飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈
| आचारमाचरन्तश्च प्रकाशयन्ति पञ्चकम् । यल्लोकानुग्रहार्थं ये तानाचार्यान्नमाम्यहम् ॥१०५४॥ | विरक्ताविकथाभ्यो ये ऽप्रमत्ता अकषायिनः । धर्मोपदेशसक्ता ये तानाचार्यान्नमाम्यहम् ॥१०५५॥
स्मारणादिचतुष्केन ये रक्षन्ति स्वगच्छकम् । रक्तान् परोपकारे च तानाचार्यान् नमाम्यहम् ॥१०५६॥ | शिवं गतेषु सार्वेषु शासनं धारयन्ति ये । राजन्ते राजवत् तीर्थे तानाचार्यान् नमाम्यहम् ॥१०५७॥
ये षट्त्रिंशत् प्रकारेण षट्त्रिंशत्सद्गुणैः सदा ।
शोभन्तेऽखिल-लोके ये तानाचार्यान् नमाम्यहम् ॥१०५८॥ | प्रस्तरोपम-शिष्यान् ये कुर्वन्ति सूत्रधारया । प्राज्ञाञ्जगति पूज्यांस्तान् ध्यायामि वाचकान् सदा ॥१०५९॥ |
संज्ञाय द्रव्य-दानं ये आ-दिन-मास-जीवनम् । ज्ञानं यच्छन्ति मुक्त्यन्तं ध्यायामि वाचकाँश्च तान् ॥१०६०॥ अज्ञानान्ध-जनानां यन्नेत्रं शास्त्र-शलाकया । प्रोद्घाटयन्ति सम्यक्तान् ध्यायामि वाचकान् सदा ॥१०६१॥
靈器靈靈飄飄飄飄盪盪盤飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈器
___JainEducation intereel
2010-05
For Private & Personal use only
w.jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
网靈鬚飄飄飄飄飄靈飄飄飄飄飄飄飄靈靈靈靈飄飄靈靈靈靈靈
राजकुमार-तुल्याः ये तोषयन्ति निजं गणम् ।
सूरिपदस्य योग्यास्तान् ध्यायामि वाचकान् सदा ॥१०६२॥ द्वादशाङ्गी-सुधाम्भोधे जलपोतैक-तत्पराः । ध्यानाध्ययन-युक्तांस्तान् ध्यायामि वाचकान् सदा ॥१०६३॥
दर्शन-ज्ञान-चारित्र-श्रुत-सामायिके सदा । यैश्चर्यन्ते त्रियोगैस्तान् सर्व-साधू स्तवीम्यहम् ॥१०६४॥ * यतिधर्मे प्रसक्ता ये प्रवचनाष्टमातृजे । धारकाः षड्व्रतानां तान् सर्व-साधू स्तवीम्यहम् ॥१०६५॥ | शीलाङ्गस्थ-मारूह्य येऽष्टादशसहस्रकम् । भवाटवी व्ययन्ते तान् सर्व-साधू स्तवीम्यहम् ॥१०६६॥
कर्मकश्मल-शुद्ध्यर्थं तपस्यन्ति द्विधा तपः । सहन्ते परीषहाँस्तान् सर्व-साधू स्तवीम्यहम् ॥१०६७॥ द्विविधोपधि संयुक्ताः शिक्षाद्वयेन शिक्षिताः । द्विध्यानेन विमुक्तास्तान् सर्व-साधू स्तवीम्यहम् ॥१०६८॥ सदेवगुरुतत्त्वेषु श्रद्धानं परिकीर्तितम् । दर्शनं ज्ञानिभिस्तस्मै दर्शनाय नमो नमः ॥१०६९॥ क्षायिकादिप्रभेदैर्यद् समये दर्शितं त्रिधा । जिनेन्द्राणां पुनस्तस्मै दर्शनाय नमो नमः ॥१०७०॥
望眾靈靈靈靈靈靈靈擺
१२३
S
Join Education Inter
1
wjainelibrary.org
2010_05
Page #135
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
काव्यम्
欢發飄飄盟毁毁毁靈靈激器靈飄飄飄飄飄飄蒙蒙激發靈驗
सकृद्वा पञ्चकृत्वोवाऽसंख्य-कृत्वो भवे क्रमात् । यद् भव्यै र्लभ्यते तस्मै दर्शनाय नमो नमः ॥१०७१॥ पुद्गलार्धपरावृत्तिः यन्मात्र-स्पर्शनात्खलु । शिष्टा भवस्थितिस्तस्मै दर्शनाय नमो नमः ॥१०७२॥ येन विनाऽप्रमाणं हि ज्ञानं च चरणं मुधा । मोक्षस्यासम्भवस्तस्मै दर्शनाय नमो नमः ॥१०७३॥ भक्ष्य-पेय-सुकृत्यानां सेतरेषां प्रबोधकम् । हेयोपादेय तत्त्वानां चार्हज्ज्ञानं प्रणौमि तद् ॥१०७४॥ अष्टाविंशति-भेदैश्च चत्वारिंशत्शतैस्त्रिभिः । यज्ज्ञानं भ्राजते धुर्यं मतिज्ञानं नमामि तद् ॥१०७५॥
श्रुतज्ञानं महाज्ञानं शासनं येन तिष्ठति । चतुर्दशप्रकारैर्यच्छोभते तन्नमाम्यहम् ॥१०७६॥ | यदवधिविभौ च सम्यग्मिथ्याविभेदतः । सप्तधा ह्यागमे प्रोक्तं तज्ज्ञानाभ्यां नमोऽस्तु मे ॥१०७७॥
यस्याधिकारमात्रेण सम्यक्त्वं दृश्यते खलु । विपुल द्विधाभिन्नं ज्ञानं तुर्यं नमाम्यहम् ॥१०७८॥ | सर्वकर्मक्षयप्राप्यमुपयोगद्वयान्वितम् । सूर्यकोटीप्रभादीप्रं-केवलं तन्नमाम्यहम् ॥१०७९॥ जिनेन्द्रैः प्रतिपन्नं यत्परिपाल्य प्ररूपितम् । पुनः प्रदत्तमन्येभ्यस्तच्चारित्रं नमाम्यहम् ॥१०८०॥
网張靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈駕飄飄盪盪蜜蜜露
१२४
Jain Education InterX
2010_05
For Private & Personal use only
wjainelibrary.org
Page #136
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
風蠻靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈感
यन्मात्रप्रतिपन्नत्वात् रंकोऽपि परिपूज्यते । सर्वैरखिल-लोकेषु तच्चारित्रं नमाम्यहम् ॥१०८१॥ अनन्तभेदयुक्तं यत् सप्तदशप्रकारवत् । प्रोक्तं सप्ततिभेदं च तच्चारित्रं नमाम्यहम् ॥१०८२॥ | देश-सर्व-द्विभेदेन गृहिसंयमिनां क्रमात् । प्ररूपितं सुसिद्धान्ते तच्चारित्रं नमाम्यहम् ॥१०८३॥ | सदर्शनं तथा ज्ञानं विश्वं फलति देहिनाम् । येनैव परिवृत्तत्वात् तच्चारित्रं नमाम्यहम् ॥१०८४॥ । यद् बाह्याभ्यन्तरं द्विधा द्वादशधा प्रभेदतः । प्रसिद्ध सार्वसिद्धान्ते वन्देऽहं तत्तपः पदम् ॥१०८५॥ तस्मिन्नैव भवे सिद्धि जानद्भिस्तीर्थरैरपि । यत्तप्तं क्षमया सार्धं वन्देऽहं तत्तपः पदम् ॥१०८६॥ यान्यत्यन्तमसाध्यानि कार्याणि हेलया ध्रुवम् । सिध्यन्ति विष्टपे येन वन्देऽहं तत्तपः पदम् ॥१०८७॥ निःशल्यं येन चीर्णेन प्राप्यन्ते बहुलब्धयः । प्रथमं मङ्गलं विश्वे वन्देऽहं तत्तपः पदम् ॥१०८८॥ प्रक्षीयते क्षणार्धेन कृतेनैव क्षमायुतं । निकाचितं धनं कर्म वन्देऽहं तत्तपः पदम् ॥१०८९॥ उत्तरोत्तर-देवत्वं प्राप्तिः च मुक्तिः इत्येवं संस्तुवन्सिद्ध-चक्रलीन-मना: नृपः । स्वात्मानं प्रेक्षते ध्यानैर्नवपदमयं मुदा ॥१०९०॥
观飄飄飄飄飄飄飄飄飄盪盪器
| १२५
2010.05
For Private & Personal use only
Page #137
--------------------------------------------------------------------------
________________
श्रीपाल -
मयणामृत
8
पूर्णेऽथायुषि मृत्वैवं समाधिमृत्यु - योगतः । प्राप्तवान् नवमं कल्पं नवपदप्रभावतः ॥१०९१॥ माता राज्ञ्योऽपिसर्वांश्च शुभध्यानस्थिराः सदा । आयुः क्षयेण तत्रैव देवभावं प्रपेदिरे ॥१०९२ ॥ ततश्च्युत्वा चतुर्वारान् प्राप्य सौख्याधिकं क्रमात् । मानुष्यत्वं सुरत्वं च भोक्ष्यन्ते भव्य - देहिनः ! || १०९३॥ सम्प्राप्य मानुषत्वं हि श्रीपालो नवमे भवे । कर्णौघं क्षपयित्वा तु लप्स्यते परमं पदम् ॥१०९४॥ एवं भो मगधाधीश ! कथितं चरितं वरम् । सिद्धचक्रस्य माहात्म्यं ध्रुवं चित्तचमत्करम् ॥१०९५॥ माहात्म्यविषयेऽलं तु सिद्धचक्रसमुच्चयः । पृथग् पृथग् पदानां तु प्रभावोऽस्ति महान् यथा ॥१०९६॥ अर्हत्पद-प्रभावेन देवपालोऽपि लब्धवान् । महाराज्यमथो लब्धं शक्रत्वं कार्तिकेन हि ॥१०९७॥ श्रीपुण्डरीक-पाण्डव-पद्मादि - मुनयोऽत्र हि । एक सिद्धपद - ध्यानात् सम्प्राप्ताः शिव-सम्पदम् ॥१०९८॥ कृतपापोऽपि भूपो यो नास्तिकत्वात्प्रदेशिकः । समृद्धि प्राप देवस्याचार्य - पद - प्रभावतः ॥ १०९९ ॥ उपाध्यायपदं नित्यं समाराध्य यथाविधि । धन्याः सूत्रमधीयन्ते शिष्याः सिंहगिरेरिव ॥ ११००॥
Jain Education Inter o 2010 05
80
काव्यम्
१२६
ww.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
飄飄飄飄飄飄靈飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
विराध्याराध्य लब्धानि पञ्चमं पदमेव हि । रुक्मणिरोहिणीभ्यां हि दुःखानि च सुखानि च ॥११०१॥ सम्यग्दर्शनशुद्धत्वात् श्लाघनीयाः सतामपि । कृष्णसत्यकि-मुख्यास्ते नारीषु सुलसा सती ॥११०२॥
सम्यग्ज्ञानं समाराध्य जाता शीलवती बुधा । विराधना-फलं प्राप्तं माषतुषेन साधुना ॥११०३॥ | भवे शिवकुमारस्य लब्ध्वा चारित्रमुत्तमम् । भूत्वा जम्बूकुमारश्च सुखेनाप्तं शिवं पदम् ॥११०४॥ | नवमं पदमाराध्य सिद्धचक्रस्य सम्मदात् । वीरमत्या तु सम्प्राप्तं धर्मामरद्रवः फलम् ॥११०५॥
हे ! राजन् ! किं बहूक्तेन ह्यस्याराधनया खलु । तीर्थकरस्त्वमागामि-भवे नूनं भविष्यसि ॥११०६॥ | एवं गणेश्वरो यावद् विरतो देशनाद् विभुः । श्रेणिकेशपुरस्तावच्चतु नविभाकरः ॥११०७॥ नरः कोऽपि समागत्य वर्धापयति भूपतिम् । श्रीवीरागमनोदन्तै र्दानं नृपोऽपि दत्तवान् ॥११०८॥ वीरप्रभोः देशना
盟靈靈靈靈靈飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈器
१. द्रवः = दु ६-१ ।
१२७
Jain Education Inter
2010.05
For Private & Personal use only
ainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
काव्यम
श्रीपाल- • तदैव वीरनाथोऽपि पुनानः पृथुवीतलम् । अतिशयश्रियायुक्तस्तत्रोद्याने समागमत् ॥११०९॥ मयणामृत-2 धर्मदेशन-सद्यैवं देवैः कृतं महर्द्धिभिः । चतुरिं चतुर्धर्माऽऽगमनाय महालयम् ॥१११०॥
तस्मिन्समुपविश्याथ देशनां क्लेश-नाशिनीम् । सम्बोध्य श्रेणिकं वक्ति भव्योपग्रह-हेतवे ॥११११॥ श्रीसिद्धचक्रमाहात्म्यं ज्ञात्वाश्चर्यं करोषि किम् । त्वया त्वेतत् कियन्मात्रं ज्ञातं तस्य नरेश्वर ! ॥१११२॥ इदमाराधना-मूलं शुभभावोऽस्ति केवलम् । निर्मलैरात्मभिर्जेयं परैर्नैव कदाचन ॥१११३॥ ये संकल्प-विकल्पादि-वर्जिता निर्मला: सदा । आस्ते नवपदं तेषु नवपद्यां त एव हि ॥१११४॥ ध्याता ध्यायन्यदर्हन्तं रूपस्थादि-त्रयेण हि । अर्हत्पदमयं साक्षात् स्वात्मानं प्रेक्षते स तु ॥१११५॥ रूपातीतस्वभावो हि केवलज्ञानदर्शनः । स्वात्मैव केवलानन्दः सिद्धात्मा प्रोच्यते स तु ॥१११६॥ लीनमनाः महामन्त्रे पञ्चप्रस्थान-तत्परः । पञ्चाचार-मयः स्वात्मा स आचार्यो भवेत्खलु ॥१११७॥ यो ध्याता द्वादशाङ्गीनां प्राप्त-सूत्रादि-सारकः । स्वाध्याय-तत्परात्मा स महोपाध्याय उच्यते ॥१११८॥
靈靈靈靈靈飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈器
靈靈靈靈靈綴綴蠶蠶微微飄飄飄靈靈靈靈靈靈靈靈靈靈器靈感
१२८
lain Education Inter
2010-05
For Private & Personal use only
w.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
283 284 285 286 287 2888888
Jain Education Interna
साध्नुवन्ति त्रिभी रत्नैः सावधान - तया शिवम् । विमुक्ताः मन्युमुद्भ्यां येऽप्रमत्तास्ते हि साधवः ॥१११९॥ काव्यम् मोहक्षायोपशम्यत्वात् शमादिपञ्च - लक्षणम् । विशुद्ध- परिणामं यत् स्वात्मनो दर्शनं ध्रुवम् ॥ ११२०॥ यज् ज्ञानावरणीयस्य क्षयोपशम-भावतः । शुद्धावबोधस्तत्त्वानां ज्ञानमात्मनि कथ्यते ॥ ११२१ ॥ कषायनोकषायै र्यद् विकलं शुद्ध-लेश्यकम् । निज - भाव स्थितात्मत्वमेव चारित्र मुच्यते ॥ ११२२ ॥ इच्छानिरोधत: शुद्ध-संवर-सम-भावतः । कर्मणां निर्जरां कुर्वन्नात्मैव प्रोच्यते तपः ॥ ११२३ ॥ संज्ञाय चेवमात्मानं नवपदमयं जनाः । श्रीपालवत्स्युस्सदा यूयं स्वात्मसंलीनमानसाः ॥११२४॥ इत्याकर्ण्य सुमाहात्म्यं नवपदस्य विस्तृतम् । तेन प्रोगत - रोमाञ्चो भावोर्मिपूर्ण मानसः ॥ ११२५॥ नवपद्यैवं मे ह्यात्मा तत्वत्रयी मता बुधैः । प्रकृष्ट-पुण्य-हेतुत्वात्तद्ध्यानात्तन्मयोऽस्महम् ॥११२६॥ इति प्रतीत्य भूपालः श्रेणिकः सत्त्व तत्त्वदृक् । परमानन्द-मग्नः स स्वीयं धाम जगाम सः ॥ ११२७ ॥ १. शोक । २. आनन्द |
2010 05
१२९
XXww.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
काव्यम्
श्रीपालमयणामृत
靈器靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈靈靈認
भव्याब्जान् कुमार्गं च बोधयश्च निवारयन् । तत्रतो व्यचरन्मह्यां वीर जिनो दिनेशवत् ॥११२८॥ नवपदप्रभावस्य कथाऽपूर्वा प्रकाशिका । पठतां श्रृण्वतां नित्यं करोतु सर्व-मङ्गलम् ॥११२९॥
व्याकरणं नैव जानामि तत्त्वं जानामि नैव हि ।
अबुधोऽस्मि ततः विद्भिः क्षन्तव्या स्खलना मम ॥११३०॥ * यदक्षर-परिभ्रष्टं मात्रा-हीनं च यद् भवेद् । क्षन्तव्यं तद् बुधैः सर्वं कस्य न स्खलना भवेद् ॥११३१॥
केवलं भक्तिभावेन मया कथा प्रगुम्फिता । स्वाध्याये सिद्धचक्रस्य भवनिस्तारकारणम् ॥११३२॥ अथ प्रशस्तिः
श्री सूर्यपुरतः सो महोत्साहेन प्रस्थितः । सम्मेत-शैलयात्रार्थं 'छ-रि' पालन-तत्परः ॥११३३। • आगमोद्धारकदीक्षा-शताब्दे-शुभ-वासरे । स्फार-संख्यैः सुसंयुक्तः श्रमणादि-चतुर्विधैः ॥११३४॥ | तदा विहारमध्ये तु स्थित्वा तरुतलेषु हि । कथा-काव्यमिदं रम्यं रचितं च कियद्-दिनैः ॥११३५॥
靈靈靈靈靈靈靈靈靈靈驗盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈
Jain Education Inter 18
2010-05
लाwjainelibrary.org
Page #142
--------------------------------------------------------------------------
________________
श्रीपाल - मयणामृत
Jain Education Inter XX
चरमतीर्थपतेः श्रीवीरस्य पञ्चमान्मुदा । श्रीसुधर्मागणाधीशाद् द्वासप्ते तु पट्टके ॥११३६ ॥ 'तपा 'गच्छाधिपो लोके सूरिरानन्दसागरः । आगमोद्धार - कर्त्तृत्वादागमोद्धारको ऽभवत् ॥ ११३७॥ पट्टप्रभावकस्तस्य नमस्कार - प्रभावकः । वर्धमान - तपोमूर्तिः सूरिः श्रीचन्द्रसागरः ||११३८ ॥ तत्पट्टे संस्थितः श्रीमान् धर्मसागर - वाचकः । शुद्धाचार-विचाराणां यः प्रवर्तयिता भृशम् ॥११३९॥ तच्छिष्यस्त्वभयाब्ध्याख्यः सर्वागम-विशारदः । लीनः सदा महामन्त्रे सर्वशास्त्र - विचक्षणः ॥११४०॥ तच्छिष्याशोकवाद्धिश्च शोभते यः प्रकृष्टधीः । पन्यासपदधारी यः सदाऽशोकी च वर्तते ॥ १९१४१ ॥ तच्छिष्यः सुप्रसिद्धोऽस्ति व्याख्याने परमः पटुः । हेमचन्द्रोदधिर्नाम्ना ख्यातो गणिवरः क्षितौ ॥११४२॥ तदीयाss - सुशिष्येण रचितं सुगमं मुदा । सिरि- सिरिवाल - कहाऽनुसारं काव्यमुत्तमम् ॥ ११४३॥ मुनिकल्प - नभो - नेत्रमिते वैक्रमवत्सरे । राधे मासि सिते पक्ष एकादश्यां सुवासरे ॥११४४॥ सम्मेत- शैलतीर्थे च सङ्घमाला - दिने शुभे । श्रीश्रीपाल - कथाकाव्यं प्रत्यूषे पूर्णतां श्रितम् ॥ ११४५ ॥
2010 05
काव्यम्
१३१
or jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________
काव्यम
श्रीपालमयणामृत
गुरोर्धाता गणेशो यः श्रीजिनचन्द्रसागरः । तेन सम्प्रेरितोऽस्म्यत्र श्रान्तोऽहं च यदा यदा ॥११४६॥ वसु-वह्नि-वियद्-बाहु-श्रीमद्विक्रम-वत्सरे । चातुर्मासं कृतं पुर्यां चन्द्रावत्यां त्रिसाधुभिः ॥११४७॥ वाचकस्य विनेयो यः श्रीपूर्णानन्दवारिधिः । बहुश्रुतो वयोवृद्धस्तत्त्वज्ञो हितचिन्तकः ॥११४८॥ | प्रेरितो पठितुं तेन श्रीश्रीपाल-कथां वरां । या पुराचार्य-हेमेन्दुश्चक्रे गीर्वाण-भाषया ॥११४९॥ अबुधेन मया सापि प्रथमं पठिता यदा । तदा कृतः सुसङ्कल्पः श्रीगुरूणामनुकम्पया ॥११५०॥ अधुना पूर्णतां प्राप्तं कथाकाव्यमिदं मम । नमस्कार-महामन्त्र-सारेण फलितं शुभम् ॥११५१॥ पठतां श्रृण्वतां नित्यं कल्याणं करुतात् सदा । श्रीश्रीपाल-कथाकाव्यं जयताज्जिन-शासने ॥११५२॥
蠻蠻蠻蠻蠻靈飄飄飄飄靈靈靈靈靈靈靈靈靈認需
飄飄飄靈靈靈靈靈飄飄飄飄飄飄飄飄飄靈靈靈靈感
तैलाद् रक्षेज्जलाद् रक्षेद् रक्षेच्छिथिलबन्धनात् । परहस्तगतां रक्षेदेवं वदति पुस्तिका ॥ उदकाऽनलचौरेभ्यो मुर्खकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन एवं वदति पुस्तिका ॥
Jain Education Intern
2010-05
For Private & Personal use only
vw.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________
પરિશિષ્ટ
काव्यम
श्रीपालमयणामृत
કર્તા
૧૦૬
સંસ્કૃત
સિદ્ધચક્રનો પ્રભાવ જણાવનારી શ્રીપાલ કથાઓના આલેખન માટે અનેક આરાધક લેખકોએ પોતાની કલમ ચલાવી છે તેમાં વર્તમાનકાળમાં ઉપલબ્ધ થતો સૌથી પ્રાચીન ગ્રંથ સં. ૧૪૨૮માં લખાયેલ શ્રી રત્નશેખરસૂરિ મ.નો છે. આ વિષય સંબંધી ઘણા ગ્રંથો પ્રગટ થયા છે. તો ઘણા અપ્રગટ અવસ્થામાં જ છે જે હ.લિ. ભંડારોમાં સચવાઈ રહ્યા છે. તેમાંથી શકય માહિતી અત્રે આપવામાં આવી છે. શક્ય છે કે આનાથી વધુ ગ્રંથો અપ્રગટ અને અરાત અવસ્થામાં હોય. જે. સંશોધક,આરાધક આત્માઓને હસ્તગત થાય અને પ્રકાશિત થઈ આરાધના ઉપયોગી બને. રચના વિ.સં.
ભાષા રચના વિ.સં. કર્તા
ભાષા ૧૪૨૮ રત્નશેખરસૂરિ પ્રાકૃત
જ્ઞાનસાગર (અજ્ઞાત) ગુજરાતી ૧૪૨૮ પછી હેમચન્દ્રસૂરિ
૧૭૨૬ પદ્મવિજય
ગુજરાતી ૧૪૯૪ જિનકીર્તિસૂરિ સંસ્કૃત
૧૭૨૭
લક્ષ્મીવિજય ગુજરાતી ૧૪૯૮ માંડણ શ્રાવક ગુજરાતી
૧૭૨૮ ઉદયવિજય
ગુજરાતી ૧૪૯ પહેલાં ભટ્ટારક સકલકીર્તિ
૧૭૩૦
અજ્ઞાત ૧૫/૪ ઉપા. ધર્મસુંદર ગુજરાતી
માણિક્યસાગર
ગુજરાતી ૧૫૧૪ સત્યરાજગણિ સંસ્કૃત
૧૭૩૭ અજ્ઞાત
ગુજરાતી ૧૫૩૧ ધર્મસુંદરસૂરિ સંસ્કૃત
૧૭૩૮
ઉપાધ્યાય વિનયવિજયજી ગુજરાતી
અને ઉપા-યશોવિજયજી ૧૫૩૧ જ્ઞાનસાગર (ના.ગ.) ગુજરાતી
૧૭૪૦
હરખચંદ શ્રાવક ગુજરાતી
盟飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄
સંસ્કૃત
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
ગુજરાતી
૧૭૩૨
१३३
Lain Education Intelis
P
2010_05
anorary.org
Page #145
--------------------------------------------------------------------------
________________
श्रीपालमयणामृत
ગુજરાતી ગુજરાતી
૧૫૫૭ ૧૫૫૭ ૧૫૬૪ ૧૫૭૨
સંસ્કૃત ગુજરાતી ગુજરાતી સંસ્કૃત સંસ્કૃત
સંસ્કૃત
ગુજરાતી
૧૫૭૭
સંસ્કૃત
૧૫૮૫ ૧૬૨૧ ૧૬૨૧ પહેલાં ૧૬૪૨ ૧૬૫૧ ૧૬૬૨ ૧૬૮૩ પહેલાં ૧૭૦૨ (૪) ૧૭૧૭
લબ્ધિસાગરગણિ લબ્ધિસાગર ઈશ્વરસૂરિ અજ્ઞાત ધર્મ ધીર બ્રહ્મનેમિદત શ્રુતસાગર કવિરઈધૂ ઉપા. પાસુંદર વાદિચન્દ્ર રત્નલાભ વિનયવિજયજી જ્ઞાનવિજય ધનવિજય
સંસ્કૃત અપભ્રંશ ગુજરાતી ગુજરાતી ગુજરાતી પ્રાકૃત ગુજરાતી ગુજરાતી
૧૭૪૦ ૧૭૪૨ ૧૭૪૫ ૧૭૯૧ ૧૮૦૬ ૧૮૨૪ ૧૮૦૭ ૧૮૫૩ ૧૮૫૬ ૧૮૬૮ ૧૮૬૯ ૧૮૭૭ ૧૮૭૯ ૧૮૯૮ ૧૯૧૬ ૧૯૮૬ ૧૯૯૦ ૨૦૪૭
જિનહર્ષ જિનહર્ષ જ્ઞાનવિમલસૂરિ જિનવિજય રઘુપતિ રૂપવલ્લભ નેમવિજય લાલચંદ (૨) ચેતનવિજય રૂપચંદ (શ્રાવક ?) જયકીર્તિસૂરિ ઉપાધ્યા. ક્ષમા કલ્યાણ કેશવમુનિ ક્ષેમવર્ધન ઉદયસોમસૂરિ પરમલ્લ (શ્રાવક ?) કનૈયાલાલ જૈન લબ્ધિમુનિ નયચંદ્રસાગર
ગુજરાતી ગુજરાતી ગુજરાતી ગુજરાતી ગુજરાતી સંસ્કૃત સંસ્કૃત ગુજરાતી ગુજરાતી ગુજરાતી
風飄飄飄飄飄飄飄飄飄飄靈飄飄飄飄飄飄飄飄飄飄飄
હિન્દી
૧૭૧૨ ૧૭૧૨
મેરુવિજય મહિમા ઉદય
હિન્દી
ગુજરાતી ગુજરાતી
પ્રાકૃત
સંસ્કૃત
o
w
Jain Education Inter83 2010_05
.jainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ 83861 * श्री श्रीपाल-मयणामृत-काव्यम् - * दिव्याशीर्वाद . आगमविशारद पंन्यासप्रवर पूज्य गुरुदेव श्री अभयसागरजी म. रचयिता बंधुबेलडी पूज्य आचार्यदेव श्री जिनचन्द्रसागरसूरि लघुबन्धु आचार्यदेव श्री हेमचन्द्रसागरसूरीश्वराणां शिष्यरत्न मुनिराज श्री नयचन्द्रसागरजी महाराजः श्री ऊंझा जैनसंघस्य ज्ञाननिधिद्रव्येण श्री आगमोद्धारक प्रतिष्ठानेन मुदापितोऽयं ग्रन्थः Jain Education intomsanon 2010.05 For Private Femaal use only