________________
श्रीपाल - मयणामृत
प्रेषयत्यथ भूनाथः पितृराज्याप्तिमिच्छुकः । स्वपितृव्यं प्रतिक्ष्मापं दूतं नाम्ना चतुर्मुखम् ॥८८१॥ गत्वा चम्पां भ्रमँस्तत्र पुरशोभां च पश्यति । शृत्वाऽभिख्यां स्वनाथस्य पितॄणां स प्रमोदितः ॥८८२ ॥ संभाषते सदो गत्वाऽजितसेनं नराधिपम् । श्री श्रीपाल - नरेन्द्रस्य कीर्ते वृद्धि र्भवेद्यथा ॥८८३ ॥
पित्रास्थापि पदे बालो वसुधा वहनेऽक्षमः । इति ज्ञात्वा सुतो भातुस्त्वया प्रोत्थापितः पदात् ॥८८४॥ कुशलत्वं तु तस्याद्य विद्यते राज्य - पालने । रक्षणायास्ति तत्पार्श्वे बलमप्यतुलं तथा ॥८८५ ॥ वन्द्यते राज-राजेन्द्रैः स भक्तै भगवान् यथा । क्षति र्न कोऽपि मे नाथे ततो राज्यं प्रदीयताम् ॥८८६ ॥ भूपोऽप्यजितसेनश्च प्रोचे निशम्य तत्कथाम् । क्रोधाग्निज्वालया दग्धो वह्निना दारुवत्तदा ॥८८७॥ बालकोऽयमिति ज्ञात्वा मुक्तोऽस्ति कृपया मया । किं न संस्मर्यते तेनापकारो खलु मे महान् ॥८८८ जीवस्तदा विमुक्तस्स क्षति र्हा हा कृता मया । मुक्तो बाल-फणी काले महाफण-धरो भवेत् ॥८८९ ॥ रुष्टोऽस्ति यमराजोऽद्य नूनं तव प्रभुं प्रति । सिंहवच्च प्रबुद्धोऽस्मि शत्रुं हन्तुं समुद्यतः ॥८९०॥
Jain Education Inter0032010_05
For Private & Personal Use Only
8888888
काव्यम्
१०१
jainelibrary.org