SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीपालमयणामृत काव्यम् 蠻蠻蠻蠻蠻蠻飄飄蒙飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈 | जीवन्मुक्तोऽसि दूतत्वादतस्त्वं गच्छ सत्वरम् । गत्वाऽथ तेन वृत्तान्तः श्रीपालाय निवेदितः ॥८९१॥ संबोधितोऽप्यबुद्धोऽस्ति वृद्धत्वेन मतिर्गता । नास्त्यतः कोऽप्युपायोऽन्यः युद्धे सज्जीभव द्रुतम् ॥८९२॥ श्रुत्वा श्रीपालभूपालः चचाल सबलस्ततः । गर्जित'-कल्पितोपेतः लघुराजैः समावृतः ॥८९३॥ | चम्पासीम्नि स्थिते गङ्गा-तट आवास-संस्थितः । संध्याकाले यथा सर्वं न्यग्रोधे पक्षिसङ्गमः ॥८९४॥ अजितसेनः युद्धे पराजितः परिवजितश्च | राजा त्वजितसेनोऽपि तत्रैवागत्य सन्मुखम् । निजसैन्यसमायुक्तः पटावासं करोति सः ॥८९५॥ परस्परमथो युद्धे सञ्जाते सुभटैस्तयोः । कियद्-दिनैः कुन्ताकुन्ति खड्गाखड्गि शराशरि ॥८९६॥ जिते च लभ्यते लक्ष्मी म॒ते चापि सुराङ्गना । क्षण-विध्वंसिनी काया का चिन्ता मरणे रणे ॥८९७॥ एवं विचार्य चित्ते ते शूराविहित-मङ्गलाः । परस्परमयुध्यन्त मत्स्यैर्मत्स्या इवार्णवे ॥८९८॥ १. गर्जितः = मदोन्मत्तः गजः । २. कल्पितः = युद्ध माटे तैयार हाथी । 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 Join Education Intel 2010-05 For Private Personal use only ainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy