SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 燃毁靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 इतः पृष्टो विवाहार्थं राज्ञा लग्नं शुभं मुदा । प्रियकन्या-सुरायास्तु नैमित्तिकस्तदाऽवदत्॥१२९॥ वर्तते दिन शुद्धिस्तु यावदद्य नरेश्वर ! । विगता लग्नवेला तु कन्यापाणिग्रहक्षणे ॥१३०॥ छ श्रुत्वैतद् वचनं तस्य सनिर्वेदं नृपोऽवदत् । आः सुज्ञातं ! शुभं लग्नं मेलनं यत्र कुष्ठिनः ॥१३१॥ | लग्नं शुभं कथं यत्र नैवानंदो न च क्षणं । अहं विवाहयिष्यामि सुतामेतां तु सोत्सवं ॥१३२॥ शीघ्रं सम्पाद्य सामग्री कृतो लग्नमहोत्सवः । करमोचनवेलायां कन्यादानं प्रदत्तवान् ॥१३३॥ हस्त्यश्वाँश्च सुवर्णञ्च दासदासी धनादिकम् । मणि-माणिक्य-रत्नानि कन्यायै प्रददौ नृपः ॥१३४॥ अनुपाणिग्रहं सोऽरि-दमनो नाम राजसूः । समेतः सुरसुन्दर्या प्रस्थितः स निजां पुरीम् ॥१३५॥ | "सञ्जातो योग्य-संबन्धः दैवयोगेन चैतयोः । धन्यास्ति खलु पुण्यास्ति कुमारी सुरसुन्दरी" ॥१३६॥ "एतस्याः पुण्यवन्तो हि माता पिता कुलं गुरुः"। जना इत्थं प्रशंसन्ति शिवधर्मं तथा पुनः ॥१३७॥ Jain Education Inteman512010_05 For Private & Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy