SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 盟靈靈靈靈靈靈靈飄飄飄飄靈靈靈飄飄飄飄飄毁靈靈靈飄飄飄 जाने विवाह-लग्नं सा साधयति नवा तथा । "एष वरः प्रमाणं मे कार्यं नान्येन" वक्ति सा ॥११९॥ मातुलो पुण्यपालश्च ह्यरोदीद् रूपसुन्दरी । परिवारस्तथा तस्याः हा हा जातं किमप्रियम् ॥१२०॥ | सञ्जातः कुष्ठिनां हर्षो लब्ध्वा कन्यां मनोहराम् । अपेक्षाधिकसंप्राप्त्या हर्षः केषां न जायते ॥१२१॥ | निर्वर्तते स्वकोपान्न नृपो यावत्तथापि च । प्रचलति न धैर्यात् सा ज्ञाततत्त्वा हि बालिका ॥१२२॥ ततश्च वेसरारूढो ह्युम्बरो मदनान्वितः । सकुष्ठि-पेटकोऽचालीत् स्वनिवासं प्रति श्रिया ॥१२३॥ • धिक्कारयन्ति केचित्तु राजानं केऽपि मातरम् । तस्याभाग्यमुपाध्यायं केचिन्निन्दन्ति पूर्जनाः ॥१२४॥ केचिद् बालां तथा केऽपि निन्दन्ति जिनशासनम् । 'तुण्डे तुण्डे मतिभिन्ना' इति सूक्ति र्नु स्मर्यते ॥१२५॥ | क्रमेण राजमार्गेण गच्छन्ति घुम्बरादयः । स्थित-प्रज्ञैव सा बाला तिष्ठति पेटकान्तरे ॥१२६॥ • धर्मतत्त्वं विजानाना मदना सुन्दरी हृदि । अतोऽत्र विषमे काले प्रसन्ना दृश्यते जनैः ॥१२७॥ समागत्य निजावासे कृतो जयजयारवः । उम्बरपरिवारेण कृतो लग्न-महोत्सवः ॥१२८॥ 飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙蒙盟 Jain Education Intern 2010_05 For Private & Personal use only v.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy