SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈盟盟靈靈飄飄飄飄靈靈靈靈靈靈靈盟 राज्ञः राजमंदिरगमनं मदनाया: उम्बरेण सह विवाहः • मार्गमध्याद्वलित्वाऽथ समायातः स्वमन्दिरे । समाहूय निजां पुत्री-मवादीत्मदनां त्वदः ॥११०॥ | यदि चेन्मन्यसे बाले ! सुखं मम प्रसादतः । घनं धनं प्रयच्छामि परिणाय्य वरं वरम् ॥१११॥ यदि स्वकर्ममाहात्म्यम् मन्यसे चेत्त्वया सुते ! । तदा ते कर्मणाऽऽनीतो वरो भवतु कुष्ठिकः ॥११२॥ उवाच सा प्रमाणं मे पित्रादेशात् पतिर्मम । राजसू रंकसूनुर्वा ह्यानीतो मम कर्मणा ॥११३॥ समाहूयोम्बरं तत्र ह्यवदत् स विशांपतिः । तवैव कर्मणानीतो भवत्वयं वरस्तव ॥११४॥ नृपोक्तं वचनं श्रुत्वोम्बरो साञ्जसमब्रवीत् । शोभते काककण्ठे न स्वर्णमाला तु भूपते ॥११५॥ कृत-कर्म-फलं भुञ्जे नेच्छा भाव्यशुभे मम । मद्योग्यां देहि कन्यां चेत् कल्याणमस्तु तेऽथवा ॥११६॥ स्वीकृतं चानया कर्म मत्कृपा नैव मन्यते । कर्मणा त्वं समानीतो दोषोऽत्राऽस्ति न मे न ते ॥११७॥ करं गृह्णाति सा शीघ्रं नृपवाक्यात् ततः परम् । मदनोम्बरराजस्य प्रसन्न-वदना मुदा ॥११८॥ 幽靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈靈靈靈靈靈靈靈靈 Jain Education Inter 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy