________________
श्रीपाल
मयणामृत
वणिजा चिन्तितं पश्य कीदृशं पुण्यमस्य हि । नद्या शश्वद्वहन्त्या किं दृढोऽप्यद्विर्न भिद्यते ! ॥६२९॥ ददाति स्वर्णकोटिं स तस्मै पापो वदत्यथ । दास्यामि तेन सन्तुष्टः पश्चाद्यत्तव वाञ्छितम् ॥६३०॥ तत्प्रतिपद्य डुम्बोऽपि सकुटुम्बो नृपान्तिके । गीतगानादि कृत्वाथ तोषयति नृपं बहु ॥६३९॥ न दृष्ट मीदृशं लास्यं याचध्वं तद् ददाम्यहं । कल्पवृक्षायते भूपे पुमान्वृद्धः वदत्यथ ॥ ६३२॥ यदि तुष्टोऽसि भूप ! त्वं मानं देहि धनेन किम् । धनं तु लभ्यते सर्वै र्मानं न सुलभं यतः ॥६३३॥ उर्वीशोऽपि कुमारेण ताम्बुलं तमदापयत् । यथाऽतिमाननीयेभ्यः सन्मानो दीयते नृपैः ॥६३४॥ तदैका वृद्ध-डुम्बी तु श्रीपाल - गलकेऽलगत् । सहसा विह्वलीभूय भूयोभूयो लपत्यथ ॥६३५ ॥ कुतः कीयद्दिनैः पुत्र ! त्वमत्र संस्थितोऽसि च । त्वां विना स्मो निराधारा गति रद्दक् कथं तव ॥६३६ ॥ मिलितस्त्वं न कुत्रापि शोधितेऽपि पदे पदे । चिरात्पूर्वस्य पुण्येन पुत्र ! प्राप्तो मयाधुना ॥६३७॥
१. लास्यं
नृत्यम् ।
Jain Education Inter2010-05
=
For Private & Personal Use Only
काव्यम्
७१
Xw.jainelibrary.org