________________
काव्यम्
श्रीपालमयणामृत
以靈靈靈靈靈靈靈靈靈靈靈靈盟靈靈靈靈靈靈靈靈靈靈體認
श्रीपालस्तु नरेन्द्रस्य जामाताऽभूत्ततो मम । किं भावीति न तज्जानेऽपराधो मे यतो महान् ॥६२०॥ | वित्तस्य वपुषो नाशं करिष्यति नृपेऽथ मे । संशोध्यः कोप्युपायस्तु येनापत्ति भवेन्नहि ॥६२१॥
हा तमेव हनिष्यामि पश्चान्मम कुतोभयम् । वृक्षाभावे कुतः शाखा इति न्यायात् सुखं सुखम् ॥६२२॥ | चिन्तयन्निति स श्रेष्ठी यावत् स्वगृहमाप्तवान् । गीत-निपुण-डुम्बानां कुटुम्बं तत्र चागतम् ॥६२३॥
दानं ददाति न श्रेष्ठी तेभ्यस्तच्चिन्तया तदा । पृष्टो दुम्बेन स श्रेष्ठी किं रुष्टोऽस्मासु हे प्रभो ॥६२४॥
धवलो कपटेन कुमार डुंबीति प्रख्यापयति • श्रेष्ठी रहसि तं वक्ति डुम्बमाकार्य यद् यदि । नृपजामातरं हंसि ददामि मुख-मार्गितम् ॥६२५॥
डुम्बोऽपि वक्ति हे श्रेष्ठिस्तदुपायोऽस्ति मारणे । कस्मा अपि न वक्तव्यं भवेत्कीर्ती न लाञ्छनम् ॥६२६॥ अद्यैव वैदेशिकत्वात् तस्याज्ञातकुलो नृपः । मत्सुत इति तं डुम्बं घोषयिष्यामि हे विभो ! ॥६२७॥ ततो यम गृहे भूपः प्रेषयिष्यति निश्चितम् । जामातरं तवेच्छावत् कार्य-सिद्धि भविष्यति ॥६२८॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器靈留
७०
Jain Education Intel
2010_05
For Private & Personal Use Only
Pow.jainelibrary.org