SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीपालमयणामृत 靈靈靈靈靈盟盟靈靈靈靈靈靈靈靈靈靈蒙蒙激發靈驗證 | अन्यदाथ स्वयं धृत्वा नारीरूपं तयो गुहे । प्रविष्टोऽपि न दृष्टे ते दिव्य-माला-प्रभावतः ॥६११॥ नेत्रान्धवत् स रागान्धो भ्रमति यत्र तत्र हि । चेटीभिस्ताडयित्वाऽथ श्वेव निष्कासितो बहिः ॥६१२॥ सर्वाणि यानपात्राणि सानुकूलेन वायुना । कोंकणान् प्रापुरन्येनाध्वना तूर्णं निरापदम् ॥६१३॥ धूर्तोऽथ धवल-श्रेष्ठी नगरे प्राभृतैर्युतः । समागत्य धराधीनं सभासीनं प्रणौति सः ॥६१४॥ स्थगीधरेण तांबूलं प्रदापयति भूपतिः । धवलोऽयमिति ज्ञातो दृष्टमात्रः स तेन हि ॥६१५॥ श्रीपालं वीक्ष्य स श्रेष्ठी चित्ते चिन्तितवानहो । किं श्रीपालोऽस्ति वा कोऽपि तत्तुल्योऽन्यजनोऽस्ति वा ॥६१६॥ | तत्क्षणाबहिरागत्य प्रतीहारान्स पृच्छति । कोऽयं नरोऽस्ति भूपाने स्थितः स्थगीधरासने ॥६१७॥ | तस्य सर्वं सुवृत्तान्तं ब्रवीति द्वारपालकः । वज्राऽऽहत इव श्रेष्ठी तच्छ्रुत्वा दुःखमाप स ॥६१८॥ | चिन्तितं श्रेष्ठिना स्वान्ते विधिना विषमेण हि । यद्यद्कृतं मयाकार्य म पसव्यमभूदरम् ॥६१९॥ १. अपसव्यम् = प्रतिकूलम् । २. अरम् = सत्वरम् । 盟飄飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙盟 ६९ Jain Education InteY 2010 05 For Private & Personal use only Iww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy