SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मयणामृत श्रीपाल - खेदं मा धरतां देव्यौ कल्याणं वां भविष्यति । समृद्धो युवयोः स्वामी मासमध्ये मिलिष्यति ॥ ६०१ ॥ धवलां निर्मलां चार्वी सुगन्धिनीं मनोहराम् । देव - तरुत्रजं स्त्रियोः कण्ठे प्रक्षिप्य वक्ति सा ॥६२॥ माला - प्रभावतो दुष्टा न द्रक्ष्यंति कदापि वां । न पश्यति यथोलूकः सहस्रकिरणं दिवा ॥६०३ ॥ एवमुक्त्वा तिरोभूता देवी चक्रेश्वरी ततः । उपसर्गा विलीयन्ते सत्त्व - शील- प्रभावतः ||६०४॥ चारु बुद्धि-धरा प्राहुः त्रयस्ते धवलं प्रति । विपाकः किं त्वया दृष्टः दुर्बुद्धेः दुःखदो न वा ? ||६०५॥ एतयोः शरणं प्राप्य विमुक्तोऽसि भवान्नपि । जिनधर्मशरण्यत्वात् कर्णौघतस्तु जीववत् ॥ ६०६ ॥ भज त्वं सत्वरं सत्त्वं चिन्तां दुष्टां विहाय वा । कुर्वन्नघं पुनः श्रेष्ठिन् ! प्राप्स्यस्यनर्थ - सन्ततिम् ॥ ६०७॥ वहमानेषु पोतेषु वारिधौ स महर्द्धिकः । पश्चाद् कतिपयैः दिनैः पुनरेवमचिन्तयत् ॥६०८॥ अहो पुण्योदयो मेऽस्ति यन्मां श्रीः फलिता खलु । मदने यदि मन्येते सुवर्णे सौरभं तदा ॥ ६०९ ॥ एवं विचिन्त्य तत्पार्श्वं प्रेषिता तेन चेटिका । प्रार्थिते मदनाभ्यां सा शुनीव तर्जिता तदा ॥ ६१० ॥ Jain Education Inte 2010_05 For Private & Personal Use Only 88 काव्यम् ६८ www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy