________________
श्रीपाल - मयणामृत
88888
Jain Education Inter
अगच्छो हंसद्वीपे त्वमित्यस्माभिः श्रुतं जनात् । कथं त्वमिह सम्प्राप्तः कथय सत्वरं परम् ॥६३८॥ तदान्या वक्ति मातङ्गी त्वं भ्रातृव्योऽसि रे ! मम । देव स्त्वं मम पुण्येन मिलितोऽस्यपराऽवदत् ॥६३९॥ नृपं सम्बोध्य मातङ्गः प्रोचे भूपाल ! पश्यतु । पार्श्वे तव स्थितो भ्राता मयापि नोपलक्षितः ॥६४०॥ तस्मान्मानमिषेणैव ततश्च समुपायत् । प्रेक्ष्योपलक्षितो बन्धु-रेषोऽस्माकं तु नेतरः ॥ ६४१ ॥ तस्यैतद्वचनं श्रुत्वा दध्यौ क्षितिपतिर्यथा । कृतमेतत्प्रदुष्टेन मम कुलं कलंकितम् ॥६४२॥ अतः पापः प्रहन्तव्यो नूनं शीघ्रतया मया । एष विषधरो दुष्टो दूरीकार्योऽविलंबतः ॥६४३॥ मातङ्गोऽयं कथंनोक्तः पृष्ठे नैमित्तिकोऽवदत् । नरेश ! नैष मातङ्गो मातङ्गाधिपतिः परम् ॥६४४॥ क्रुद्धेन तेन भूपेन भटेभ्यो जीवितावधि । नैमित्तिकः कुमारश्च प्रादिष्टौ हननाय तौ ॥ ६४५ ॥
१. देवृ संबोधन ए. व. ।
2010 05
-
For Private & Personal Use Only
************
काव्यम्
७२
ww.jainelibrary.org