________________
काव्यम्
श्रीपाल- पत्नीभ्यां कुमारकुलप्रख्यापनम् मयणामृत
तदा शीघ्रं समागत्य प्रोचे मदनमञ्जरी । तात ! किं क्रियतेऽकार्यं त्वया विचारितं नवा ॥६४६॥ आचारः कुलमाख्याति सूक्तिर्लोकेऽपि गीयते । उत्तमाचारवर्ती स चण्डालस्तु कथं भवेत् ॥६४७॥
ततः मूर्धाभिषिक्तोऽपि पृच्छति तं कुमारकम् । कृपां कुरु कुमार ! त्वं कुलं स्वीयं प्रकाशय ॥६४८॥ • विहस्याऽथ कुमारोऽपि वक्ति किं कुल-पृच्छनम् । युक्ता पृच्छा न लोकेऽपि जल-पाने कृते गृहे ॥६४९॥ | • तथाऽपि श्रोतुमिच्छा ते सैन्यं सज्जय भूपते । बाहुना वर्ण्यते वंशो लज्जाकृत् यदि जिह्वया ॥६५०॥ • प्रत्ययश्चेद्यदि स्यात्ते आनय्य पृच्छ भूपते । महासिन्धुतटस्थस्य यानस्यान्तः स्थिते स्त्रियौ ॥६५१॥ | नार्यार्थं धवलो पृष्टो धृष्टः काल-मुखोऽभवत् । मानपूर्व समानीते राज-पुंभिर्नृपाज्ञया ॥६५२॥ | दृष्ट्वा स्व प्राणनाथं तं नृपासन-समास्थितम् । हर्षोमिव्याप्त-चित्ते ते चन्द्रेण सागरो यथा ॥६५३॥ १. मूर्धाभिषिक्तः = नृपः ।
飄飄飄飄飄飄飄飄飄飄飄靈獵獵盟飄飄飄飄飄盤
微飄飄靈强强强强强强强强激飄飄飄飄靈靈靈强强强强强强
Jain Education in
2010.05
For Private & Personal Use Only
IPorlww.jainelibrary.org