SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈露露 飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈與 • कुमार्यास्तु कलायावत्सर्वैर्भूरि प्रशंसिता । प्रवक्ति वामनो हा हा पुरलोकास्तु कीदृशाः ॥७१६॥ | सर्वे जना मिलित्वाऽत्र प्रशंसन्ति परस्परम् । यथा करभा उष्ट्राश्च अहोरूपमहोध्वनिः ॥७१७॥ तेनात्मानं कुमारी सा मानयन्त्युपहासिता । तस्मै निजां वरां वीणां दत्वा वदति वादय ॥७१८॥ वामनाकारधारिणा श्रीपालेन वीणावादने गुणसुंदरी विजिता परिणीता च गृहीत्वा प्राह वीणां तां निरीक्ष्याशु यथा पटु । अशुद्ध-लक्षणोपेता-वीणैषा तव वर्तते ॥७१९॥ गर्भभृतास्ति तन्त्रीस्तु गलितं तुम्बकं गलात् । दण्डोऽपि वह्निदग्धोऽस्ति सदोषैषा न वाद्यते ॥७२०॥ हा हा ! ज्ञातं कुमार्येषाऽस्ति वीणावादने पटुः । ईदृशी वीणयाऽभिख्या' विवर्णेषु प्रसारिता ॥७२१॥ सर्वदोषानपाकृत्य यावद्वीणामवादयत् । सर्वेऽप्यचेतनाजाता: जनास्तदा प्रसुप्तवत् ॥७२२॥ कुमारेण गृहीत्वाथ मुद्रां कस्यापि कुण्डलम् । वलयं मुकुटं वस्त्रं कस्यापि चोत्करः कृतः ॥७२३॥ १. अभिख्या = कीर्ति । २. विवर्णेषु = मूर्खेषु । 眼靈靈靈靈靈靈靈靈靈靈飄飄飄飄飄飄飄飄靈靈靈靈靈靈缴 ८१ ____JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy