SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मयणामृत श्रीपाल - उपाध्यायोऽपि सर्वाग्रे निवेश्य तत्करे ततः । ददाति च निजां वीणामुत्साह मानपूर्वकम् ॥७०७ ॥ विपरीततया तंत्री गृहीत्वा त्रोटिता बलात् । तुम्बकं स्फोटयामास बिसतन्तून्यथा करी ॥७०८ ॥ स चैवं प्रवर्तमानस्तु हासयति नृपात्मजान् । बभूवादरपात्रञ्च गुरूणां दान - शक्तितः ॥७०९ ॥ पूर्णे मासे परीक्षार्थं समाजे तु प्रयोजिते । सर्वैर्निवार्यमाणोऽपि प्राविशत्तत्र वामनः ॥७१०॥ तस्य निरूपमं रूपं क्षितिपतेः सुतेक्षते । रूपं तस्यैव पश्यन्ति चान्ये जनास्तु वामनम् ॥७११॥ कुमारी चिन्तयामास रूपं दृष्टं यथैव चेत् । कृतपुण्या तदैवाऽहं प्रतिज्ञाऽनेन पूर्यते ॥७१२॥ अनुत्तीर्णास्तु सर्वेऽपि प्रदर्श्य स्वकलां क्रमात् । म्लानीभूतास्ततस्तेऽपि पद्मवच्च विनेन्दुना ॥७१३॥ दृश्यतां मे कला नूनं प्रोच्येति वल्लकीकरा । गुणाद्या सुन्दरी सैवं दर्शयति निजां कलां ॥७१४॥ संगीतध्वनिमाकर्ण्य समायान्ति मृगाः यथा । वीणावादननादेन नेत्रमृगाः सुयंत्रिताः ॥७१५ ॥ १. सुता + ईक्षते । २. वल्लकीकरा = वीणाकरा । Jain Education Inte 2010 05 For Private & Personal Use Only काव्यम् ८० www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy