SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ काव्यम् मयणामृत श्रीपाल- IN जीवाजीवादि-तत्त्वानां बोधो ज्ञानं तु कीर्तितम् । श्रद्धया तन्मुमुक्षुभिर्ध्यातव्यं सप्तमे पदे ॥३६॥ | आश्रवद्वाररोधेन संवर-निर्जरात्मकम् । ध्येयं सद्भिः सुचारित्रमात्मशुद्धिकरं परम् ॥३७॥ मूलोत्तर-गुणोपेतं चारित्रं द्विविधं मतम् । देशतः सर्वतस्तच्च ह्याराध्यमष्टमे पदे ॥३८॥ * सर्वकार्याणि साध्नोति तपसः स्थिरता सदा । द्विविधं तत्तपः प्रोक्तं बाह्याभ्यन्तर-भेदतः ॥३९॥ • सिद्धान्त-सारभूता या सर्वकल्याणकारिका । अपवर्गस्य दात्री सा नवपदी जिनोदिता ॥४०॥ एतैर्नवपदैः सिद्धं सिद्धचक्रं सुख-प्रदम् । श्रीपालवच्च सेवातः श्रियं प्राप्नोति धर्मवित् ॥४१॥ कः श्रीपालः कथं तेन सिद्धचक्रं सुभावतः । समाराध्य सुखं प्राप्तं गणेश्वर ! प्रकाशतां ॥४२॥ एवं पृष्ट नृपेणाथ प्रोक्तवान् गौतमो गणी । श्रोतव्या दत्त-चित्तेन कथा नरपते ! त्वया ॥४३॥ श्रीपालकथारंभ:-मयणाजन्म-अध्ययन-परीक्षा च इहैव भारते क्षेत्रे देशे मालव-संज्ञके । पूरस्त्युज्जयिनी तत्र प्रजापालाभिधो नृपः ॥४४॥ शिष्टे सौम्यः स राजास्ति दुष्टे दण्डप्रदायकः । नीतिशास्त्रानुसारेण प्रजा पालयते सदा ॥४५॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 風靈跟靈擺盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露露露露 ____JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy