________________
श्रीपालमयणामृत-
काव्यम्
श
.
.
.
微微飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈
तत्स्थैर्यार्थं तु निर्दिष्टं ध्यानं स्वालम्बनं शुभम् । आलम्बनं विना ध्यानं दुर्लभं देहधारिणाम् ॥२७॥ बहुशो दर्शितं शास्त्रे सद्भिरालम्बनं ततः । तत्रापि सिद्ध-चक्रस्य ध्यानमुत्तममुच्यते ॥२८॥ नवपद स्वरूपं प्रभावश्च | अर्हत्-सिद्ध-सुसूरीश-वाचकाः सर्वसाधवः । दर्शन-ज्ञान-चारित्र-तपांसीति नवात्मकम् ॥२९॥ | दशाष्टदोष-निर्मुक्तं प्रातिहार्याष्ट-शोभितम् । पूजितं देव-देवेन्द्रैस्तद्ध्येयं प्रथमं पदम् ॥३०॥
कर्म-मल्ल-विजेतारो लोकान्तेऽवस्थिताश्च ये । प्राप्ताऽनंतगुणाश्चैवं ध्येयाः सिद्धाः मुमुक्षुभिः ॥३१॥ पञ्चाचार-पवित्रा ये जिन-सिद्धान्त-देशकाः । परोपकार-कर्तारो ध्यातव्याः सूरिपुङ्गवाः ॥३२॥ साङ्गोपाङ्गसुशास्त्राणि नित्यमध्यापयन्ति ये । उपाध्यायाः सदा ध्येयाः प्राणिभिः शुक्ल पाक्षिकैः ॥३३॥ गुप्ताक्षाः विषयैर्मुक्ताः रक्ताश्च गुणसाधने । सेव्या मुनीश्वराः सद्भिर्मोक्षमार्गसमुत्सुकैः ॥३४॥ | सिद्धांते स्थित-तत्त्वानां श्रद्धानं दर्शनं मतम् । क्षायिकादिप्रभेदस्थं सेव्यतां तद्धि सज्जनैः ॥३५॥
靈靈靈靈疆疆疆疆疆盟盟盟盟盟盟靈靈靈靈靈靈靈靈靈靈體器
___JainEducation intedigs2010_05
For Private Personal use only
nelibrary.org