________________
काव्यम
श्रीपाल-
विहिताभिगमो राजा तिस्रो दत्वा प्रदक्षिणाः । प्रणिपत्य प्रभोः पादौ संस्थितः सपरिग्रहः ॥१८॥
वाहताभि मयणामृत
* स्वामिना गौतमेन्द्रेण प्रारब्धा धर्म-देशना । गम्भीर-गिरया तत्रागर्जेज्जलधरो यथा ॥१९॥
दुर्लभं मानुषं जन्म संसारोदर-वर्तिनाम् । तल्लब्ध्वा सफलं कार्यं धर्माराधनया चरेत् ॥२०॥ धर्म स्वरूपम् | धेहि धर्मे धियं धीर ! धौरेय ! धर्मधारिणाम् । धर्मो हि शर्मकृन्नित्यं सत्यमेतत्सनातनम् ॥२१॥ 2 दान-शील-तपो-भाव-भेदाद् धर्मश्चतुर्विधः । भावेन तु समाराध्यः सर्वकालं मुमुक्षुभिः ॥२२॥
तत्रापि विशुद्धो भावो-धर्मः सिद्धि-प्रदोऽग्रणीः । ऋते भावं त्रयो धर्माः सिद्धि दातुं नहि क्षमाः ॥२३॥ विना भावं तु विज्ञेयं दानं पात्रेऽपि निष्फलम् । शीलमपि विना भावं विफलं कथितं ध्रुवम् ॥२४॥ | तपोऽपि न भवत्येवं संसारपारकारणम् । सभावं तु सुदानादि सकलं सिद्धिसाधनम् ॥२५॥ मोक्षस्य जागृतिमद् लक्ष्यं भावोऽस्तीत्युच्यते बुधैः । स्थिरोऽस्तु निर्मलो भावः स्थिरे शुद्धे हि चेतसि ॥२६॥
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
盟靈凝露飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄盪盪靈蹤器
___JainEducation internation-2010_05
For Private Personal use only
ainelibrary.org