________________
काव्यम्
श्रीपाल- • निर्भयस्तत्र संस्थाने विपणा-दुप-निष्करे । भ्रमति स्वेच्छया पुर्यां मराल इव मानसे ॥३३६॥ मयणामृत-18
इतो धवल नाम्नास्ति कौशम्ब्यां धनिको वणिक् । कुबेरवत् प्रसिद्धस्तु वित्तराशेश्चयेन सः ॥३३७॥ | लात्वा क्रयाणकं तेन हेमकोटि-प्रमाणकम् । भृगुकच्छे समागत्य व्यापारो वणिजाकृतः ॥३३८॥ | तत्र प्रकृष्ट लाभेऽपि न तुष्टो द्रव्यलोभतः । सिद्धान्तेऽपि प्रसिद्धं यल्लाभालोभः प्रवर्धते ॥३३९॥ | पणकार्ये पुनः श्रेष्ठ लक्ष्मीमब्धिमिवार्जितुम् । परकूलं यियासुः स स्वयानानि स्वसज्जयत् ॥३४०॥ | नृपादेशेन भृत्वा स नानाविध क्रयाणकैः । पञ्चशतानि यानानि चलितुमादिशभृशम् ॥३४१॥ दत्वाथ देवदेवीभ्यो बलिं निर्यामकैस्तदा । चाल्यमानानि यानानि मनागपि तु नाचलन् ॥३४२॥ तं दृष्ट्वा धवलो जातो म्लानमुखः स चिंतया । अस्तं गते नभोरत्ने सरःस्थं पुष्करं यथा ॥३४३॥ समागते तु दुःखे किं कोऽप्युपाय: करोति न । चिन्तातुरेण सम्पृष्टा तेन सीकोतरी ततः ॥३४४॥ १. उपनिष्करः = राजमार्ग ।
盟强强强强强强强强强獵獵强强强强强强强强强靈靈强
密認强强强强强盟强强强强强强蜜盟盟强强靈靈靈靈靈靈靈
Jain Education Interi
2010_05
For Private & Personal use only
Jw.jainelibrary.org