________________
काव्यम
श्रीपाल
या जलतारिणी चैकाऽपरा शस्त्र-निवारिणी । ते द्वे धातुत्रये क्षिप्त्वा त्वं भुजे धारये: सदा ॥३२७॥ मयणामृत
• याति गिरे नितम्बेऽथ सकुमारः स साधकः । तत्रस्थै र्धातुवादस्तौ, दृष्ट्वा तैः भणितं तथा ॥३२८॥
तव दर्शित-कल्पेन देव ! सा साधिताऽपि हि । निष्पत्तीरस-सिद्धेस्तु कथञ्चिन्नैव जायते ॥३२९॥ • प्रोक्तं तदा कुमारेण मयि पश्यति सुसाधय । स्वर्णरसस्य शीघ्रं हि सिद्धि र्जाता तथाकृते ॥३३०॥ • विना यत्नं भवेत्सिद्धिः सदैव भाग्यशालिनाम् । विश्वेऽखिले बलं पुण्यं पुण्यं सर्वार्थसाधकम् ॥३३१॥
सर्वं स्वर्णं गृहाण त्वं सिद्धिर्मे त्वत्प्रसादतः । एवं प्रोक्तेऽपि निर्मोहो न गृह्णाति कथंचन ॥३३२॥ a तस्य वस्त्राञ्चले किञ्चिदगृह्णतोऽपि काञ्चनम् । बध्नन्ति पुरुषास्तत्र कृतज्ञास्ते तु साग्रहम् ॥३३३॥
श्रीपालस्य भृगुकच्छे आगमनं धवलभटपराभवच | ततः क्रमात् स सम्प्राप्तो नगरं भृगुकच्छकम् । वस्त्रालङ्कारशस्त्राणि भर्मव्ययेन लब्धवान् ॥३३४॥ छ तत्र चौषधियुग्मं स भुजदण्डे त्रिधातुगम् । निबध्नाति कुमारश्च शूरः स कवचं यथा ॥३३५॥
微飄飄飄飄蒙蒙蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈綴飄器
蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙蒙
Jain Education Intern
2010_05
For Private & Personal use only
www.jainelibrary.org.