________________
काव्यम्
श्रीपालमयणामृत
强强强强飄飄飄望望强强强强强飄飄强望靈强强
| न भोक्तव्यानि चित्तेन ह्यर्हदानि पदानि च । जनन्याः स्मरणं कार्यं दास्या इव ममापि च ॥३१७॥ मङ्गलं तिलकं कृत्वा माता वदति तं प्रति । श्रेयसेऽहं करिष्ये ते सदा नवपदस्मृतिम् ॥३१८॥ मदनाऽऽह स्मरिष्यामि नवपदं प्रिया प्रियम् । निश्चलमनसा नित्यं तव कल्याणकारणम् ॥३१९॥ जनिं प्रणम्य जायाञ्च सम्भाष्याथ शुभे क्षणे । करवालं गृहीत्वा स गृहाच्चचाल सिंहवत् ॥३२०॥ कौतुकानीक्षमाणः स ग्रामाकरपुरादिषु । निर्भीको विक्रमी प्राप्तः परिसरं गिरेः क्रमात् ॥३२१॥ चंपकवृक्षपादस्थं प्रेक्षते पुरुषं वरम् । जपन्तमुपविष्टञ्च कुमारस्तत्र यातवान् ॥३२२॥ कोऽसि त्वं ध्यायसि किं त्वं किमेकाकी वने खलु । श्रीपालो विनयी न्यायी जापान्ते पृष्टवान् तकं ॥३२३॥
सानोमि गुरुदत्तां हि चिराद्विद्यां तथापि मे । न सा सिद्धेति तेनोक्तं ह्युत्तर-साधकं विना ॥३२४॥ • मम त्वं कुरु साहाय्यं भाग्यवदि भाषिते । सिद्धविद्यः स संजातो निशायां तत्सहायतः ॥३२५॥ • तेन प्रत्युपकाराय ओषधीयुगलं वरम् । दत्वा तस्मै कुमाराय कथितं साधकेन च ॥३२६॥
盤飄飄飄盪盪蜜露發飄飄强强激號盟盟盟盤盤體驗微微聚靈認
___JainEducation Inteens
2010_05
For Private & Personal use only
ww.jainelibrary.org