SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 盟强强强强强强强强强强露露盟强强認强强强强强强强 द्वात्रिंशल्लक्षणोपेत-पुंसो बलि-विधिं कुरु । नान्योपायोऽस्तु सा वक्ति रुष्टदेवस्य तुष्टये ॥३४५॥ | प्राभृतं बहु ढौकित्वा संतोषयति भूपतिम् । मार्गितो बलिकार्याय धवलेन नरोत्तमः ॥३४६॥ वैदेशिकमनाथञ्च गृहाण स्वेच्छया नरम् । पुनर्नान्यो ग्रहीतव्यो नृपो वदति तं प्रति ॥३४७॥ धवलस्य भटैतिः श्रीपालस्तादृशो नरः । तद्ग्रहीतुं पुनाराजाऽऽदेशः प्राप्तश्च तै भटैः ॥३४८॥ | श्रीपालो लीलया सन्निविष्टोऽस्ति स चतुष्पदे । धवलस्य तदाऽऽक्षिप्तः खड्गादि-सज्जितै भटैः ॥३४९॥ • चल रे चल शीघ्रं त्वं सन्तुष्टोऽस्ति तवोपरि । बलिं दास्यति देवस्य धवलस्तव सार्थपः ॥३५०॥ • कुमारेण तदा प्रोक्तं हरेः किं दीयते बलिः ? । यद्धवल-पशो लॊके देयस्तस्य बलिः खलु ॥३५१॥ | यथा जेतुं महाराजं प्रवर्तते परोनृपः । तथैव ते भटा यावत्वाञ्जयन्ति निजं बलम् ॥३५२॥ | सिंहनादं कुमारेण कृतं श्रुत्वा दुताः भटाः । पलायन्ते मृगा भीताः मृगारेर्नादतो यथा ॥३५३॥ प्रेषयति परं सैन्यं धवल-प्रार्थितो नृपः । कुमारेण क्षणार्धेन हतशौर्यं कृतं हि तत् ॥३५४॥ 盟露蠶蠶蠶蠶蠶蠶盟器靈靈靈器靈靈靈體聚靈靈靈靈靈盟 Jain Education Inter ! 2010_05 For Private & Personal use only www.jainelibrary.org.
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy