________________
काव्यम्
श्रीपाल- पुनश्च धवलादेशात् कुमारं तं त्रिपङ्क्तिभिः । वेष्टयन्ति भटास्तत्र भूपति-सैन्यसंयुताः ॥३५५॥ मयणामृत-ॐ|
| कुन्ताऽसिचापशूलाद्या योधाऽऽयुधाः लगन्ति नो । तनौ मृदौ कुमारस्य महौषध्याः प्रभावतः ॥३५६॥ | कुमारेण शरैः स्वीयैः केशाः कर्णाश्च नासिकाः । छिन्नाः भिन्नाश्च केषांचिन्निहतं जीवितं खलु ॥३५७॥ - तं दृष्ट्वा विक्रमाक्रान्तं धवलेन विचारितम् । सामान्योऽयं नरो नाऽथ विद्याधरो महाबली ॥३५८॥ | श्रेष्ठी चाकथयत्तस्मै विनयेन कृताञ्जलिः । मद्यान-मोचनं कृत्वा ममोपरि कृपां कुरु ॥३५९॥ | सदैव सन्ति सन्तस्तु ह्युपकारपरायणाः । कृत्वा कञ्चिदुपायं हि ममापत्तिं निवारय ॥३६०॥
दीनार-लक्ष-दानं च श्रेष्ठिना स्वीकृतं तथा । सङ्कटे त समायाते नरैर्न गण्यते धनम ॥३६१॥ | तदा श्रीपाल आरोहत् ह्यग्रिमे यान-मस्तके । यथा कर्म विमुक्तात्मा लोकाग्रमधिगच्छति ॥३६२॥ स्थिरेण मनसा तत्र प्रशान्त-वदनेन च । हृदि नवपदं ध्यात्वा हक्काराव: कृतो द्रुतम् ॥३६३॥ उच्चैर्हक्का-रवाद् भीता दुष्टा-देवी पलायिता । कथं स्थातुं समर्था स्यात् सन्मुखं साधकस्य सा ॥३६४॥
盤靈靈綴綴飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄盟獵獵盟蒙蒙器
徽靈跟靈强强强强缓缓强强
___JainEducation intelier201005
For Private & Personal use only
w.jainelibrary.org