________________
काव्यम
श्रीपालमयणामृत
飄飄飄飄飄飄靈靈靈靈靈靈蒙蒙蒙霧露露露露露飄飄飄
प्रचलितानि सानन्दं यानपात्राणि वेगतः । यानानि सागरे तानि शोभते हंस-पङ्किवत् ॥३६५॥ प्रवहणेषु वाद्यन्ते सुभेरी भुङ्गलादयः । नार्यो नृत्यन्ति गायन्ति तत्र गीतानि हर्षतः ॥३६६॥ आश्चर्यं तस्य तज्ञात्वा स्वान्ते चिन्तितवान् वणिग् । रक्ष्योऽयं खलु मद्पार्श्वे येन विनं भवेन हि ॥३६७॥ दत्वा शत सहस्रञ्च दीनाराणां नयेन' सः । कथितवान् कुमाराय धी-धनो धवलस्तदा ॥३६८॥ दीनाराणां सहस्रेण प्रत्येकं प्रतिवत्सरम् । भटा दशसहस्त्रास्तु संगृहीता: मया खलु ॥३६९॥ त्वमपीच्छसि मत्सेवां वद तन्निज-वेतनम् । सोऽप्याह मे प्रदेयं यत् सर्वेभ्यो दीयते त्वया ॥३७०॥ श्रुत्वा स विस्मयं प्राप्तः सहसा धवलस्तदा । धूनोति मस्तकं किञ्चिद् विचिन्तितं यथातथं ॥३७१॥ कथं दीनार-कोटि-हि देयैकस्मै जनाय यद् । एकादशतमः प्राणो नृणां वसु सम्यग् खलु ॥३७२॥ महर्द्धिकेन सम्प्रोक्तं त्वया युक्तं न मार्गितम् । शीघ्रं समुचितं ब्रूहि श्रमेण प्राप्यते धनम् ॥३७३॥ १. नयेन इति नीत्या, कुशलतया ।
血盟盟靈靈飄飄盪盪盪激靈凝聚激盪飄飄飄飄盪盪盤盤飄飄飄
lujainelibrary.org
Jain Education Inter 18
2010_05
For Private & Personal Use Only