SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 网靈靈露露露飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟 धवलश्रेष्ठिनस्त्रीणि मित्राण्यपि च पूर्ववत् । स्थापितवान्प्रधानत्वे मुख्यत्वे मतिसागरम् ॥९२५॥ कौशाम्बीतः समानीय धवल-श्रेष्ठिनः सूतः । राजश्रेष्ठि-पदे श्रेष्ठे विमलः स्थापितः पुनः ॥९२६॥ पालयन् न्यायमार्गेण राज्यं सौख्यं भुनक्ति सः । नित्यं श्रीसिद्धचक्रस्य पूजां ध्यानं करोति च ॥९२७॥ अजितर्षिणा धर्मदेशनान्ते श्रीपालस्य पूर्वभवः कथितः सम्प्राप्तेऽथावधिज्ञाने शुद्धचारित्रपालनात् । सोऽजितसेनराजर्षिश्चम्पापुर्यां समागतः ॥९२८॥ | परिवारयुतो राजा श्रुत्वा तस्यागमं ततः । नमस्कर्तुं ययौ तत्र भक्ति-विस्मय-नोदितः ॥९२९॥ क्षमा-तल-मिलन्मौलि-जानु-पाणियुगस्ततः । क्षमापालो नमश्चक्रे क्षमापाल-पतिं गुरुम् ॥९३०॥ दृष्ट्वा सुस्थिरनेत्राभ्यां तेनाप्युनत-पाणिना । धर्मलाभाशिषा भूपोऽप्यभ्यनन्द्यत सूरिणा ॥९३१॥ प्रणम्योपविशद्राजा प्रमुच्याऽवग्रहं सुधीः । सूरि पमथोद्दिश्य विदधे धर्मदेशनाम् ॥९३२॥ | चत्वारि परमङ्गानि दुर्लभानि तु देहिनाम् । मानुष्यत्वं श्रुतिः श्रद्धा संयमे च पराक्रमः ॥९३३॥ 盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈累激盟徽墨飄蹤器 १०६ 86600000 ___JainEducation intenS T 2010-05 For Private & Personal Use Only Alujainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy