SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈飄飄飄飄飄飄靈蒙蒙設靈激發關證號盟盟 मार्गः साध्यस्तदावाप्त्या मोक्षस्यैकं तु कारणम् । साम्य-भावः सदा भाव्यः धर्तव्याः हृदि भावनाः ॥९३४॥ कार्यं किञ्चिद्धि संसारे विनाहेतुं न जायते । अङ्कुरस्य यथा बीजं यथा देहस्य चेतनाम् ॥९३५॥ तथैव सर्व-जीवानां भ्रमतामत्र विष्टपे । प्रवृतौ कर्म-सञ्चारान्नाऽन्यत् प्रधानकारणम् ॥९३६॥ स्वकीयसुखलाभेऽपि दुःखेऽपि चिन्तयेत् सदा । स्वोपार्जितं पुराकर्म नाऽतो रत्यरती कुरु ॥९३७॥ संश्रृत्य देशनां तत्र पप्रच्छाऽथ नरेश्वरः । अजितसेनराजर्षि जिज्ञासु विनय-तत्परः ॥९३८॥ भगवन्मम बालत्वे तादृशी केन कर्मणा । देहे व्याधिः समुत्पन्ना शान्ता च केन कर्मणा ॥९३९॥ महधि कर्मणा केन प्राप्तवाञ्च पदे पदे । अब्धौ पातश्च डुम्बत्वं केनाभूत् कर्मणा प्रभो ! ॥९४०॥ तदा मुनि-वरेन्द्रोऽपि भणति भो ! नृपेन्द्र ! यद् । इहोद्भवफलानां हि स्वस्वकर्मैव कारणम् ॥९४१॥ 望强强强强强强强强强强蠻蠻蠻聚飄飄飄飄蠻蠻蠻蠻蠻靈靈靈 १०७ Jain Education a l 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy