SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ काव्यम श्रीपाल- • तदैव वीरनाथोऽपि पुनानः पृथुवीतलम् । अतिशयश्रियायुक्तस्तत्रोद्याने समागमत् ॥११०९॥ मयणामृत-2 धर्मदेशन-सद्यैवं देवैः कृतं महर्द्धिभिः । चतुरिं चतुर्धर्माऽऽगमनाय महालयम् ॥१११०॥ तस्मिन्समुपविश्याथ देशनां क्लेश-नाशिनीम् । सम्बोध्य श्रेणिकं वक्ति भव्योपग्रह-हेतवे ॥११११॥ श्रीसिद्धचक्रमाहात्म्यं ज्ञात्वाश्चर्यं करोषि किम् । त्वया त्वेतत् कियन्मात्रं ज्ञातं तस्य नरेश्वर ! ॥१११२॥ इदमाराधना-मूलं शुभभावोऽस्ति केवलम् । निर्मलैरात्मभिर्जेयं परैर्नैव कदाचन ॥१११३॥ ये संकल्प-विकल्पादि-वर्जिता निर्मला: सदा । आस्ते नवपदं तेषु नवपद्यां त एव हि ॥१११४॥ ध्याता ध्यायन्यदर्हन्तं रूपस्थादि-त्रयेण हि । अर्हत्पदमयं साक्षात् स्वात्मानं प्रेक्षते स तु ॥१११५॥ रूपातीतस्वभावो हि केवलज्ञानदर्शनः । स्वात्मैव केवलानन्दः सिद्धात्मा प्रोच्यते स तु ॥१११६॥ लीनमनाः महामन्त्रे पञ्चप्रस्थान-तत्परः । पञ्चाचार-मयः स्वात्मा स आचार्यो भवेत्खलु ॥१११७॥ यो ध्याता द्वादशाङ्गीनां प्राप्त-सूत्रादि-सारकः । स्वाध्याय-तत्परात्मा स महोपाध्याय उच्यते ॥१११८॥ 靈靈靈靈靈飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈器 靈靈靈靈靈綴綴蠶蠶微微飄飄飄靈靈靈靈靈靈靈靈靈靈器靈感 १२८ lain Education Inter 2010-05 For Private & Personal use only w.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy