________________
श्रीपाल
मयणामृत
Jain Education Inte
28282
इत्युक्त्वा स्वास्पदं मित्राण्यगच्छंस्ते त्रयोऽपि हि । यतः क्षिपति को पादं दुर्जने - कर्दमे बुधः ॥५५०॥ तुर्यो वक्रमतिस्तस्य श्रेष्ठनः पार्श्वमाश्रितः । यथा कज्जल-वर्गे हि कृष्णवर्णो विराजते ॥ ५५९ ॥ स प्राह यैरनालोच्य कथ्यते रिपवस्तव । पश्य तत्साधनोपायं दर्शयामि क्षणाच्छुभम् ॥ ५५२ ॥ सौहार्दं कृत्रिमं कृत्वा सह तेन ततः प्रभो ! । यो धनार्थे कृते मञ्चे गुणाधारेण मण्डिते ॥५५३॥ श्रीपालं तु समारोह्य कुतूहलमिषेण च । तद्ज्जुच्छेदनेनैव पातनीयो महार्णवे ॥ ५५४॥ ( युग्मम् ) भर्ता भावी ततस्त्वं हि श्रियां स्त्रियोश्च निश्चितम् । ततो वाञ्छित - सिद्धिः स्याल्लोकनिन्दा भयोऽपि न ॥ ५५५ ॥ धवलेन श्रीपालस्य समुद्रे पातनं नवपदप्रभावाच्च रक्षणं
सन्तुष्टो धवलस्तेन नित्यं केलिपरोऽभवत् । श्रीपालेन समं यावद् सौहार्दं जायते यथा ॥ ५५६ ॥ मुखं पद्मदलाकारं वाणी चन्दन शीतला । हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम् ॥ ५५७ ॥
2010 05
For Private & Personal Use Only
काव्यम्
६२
w.jainelibrary.org