SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत यतः कुटसाक्षी सदारोषी विश्वस्तघ्नः कृतघ्नकः । चत्वारः कर्म चाण्डालाः पञ्चमो जातिसम्भवः ||५४३ ॥ मित्रद्रोही कृतघ्नश्च स्तेनो विश्वास-नाशकः । चत्वारो नरकं यान्ति यावच्चन्द्र - दिवाकरौ ॥५४४॥ उपकारोऽपि नीचाना मपकाराय जायते । पयः-पानं भुजङ्गानां केवलं विषवर्धनम् ॥५४५॥ मैत्रीं नीतिं विहायेत्थं कथं सर्पायते त्वया । भज स्वीयोपकाराय श्रीपाले सुखशीलिताम् ॥५४६॥ एवं संबोधितो मित्रैः श्रेष्ठी बुद्धो न मूर्खवत् । मुखमालिन्यसंज्ञातः ते चिन्तयन्ति मानसे ॥५४७ ॥ ( गाथा छंद ) नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम् । खलजनमानसं चैवं बोधितं याति नैवापि माधुर्यम् ॥५४८ ॥ नाम्नासि धवलः किन्तु कृष्णोऽसि त्वं तु लेश्यया । तव दर्शन -मात्रेऽपि मालिन्यं मानसे भवेत् ॥५४९॥ Jain Education Intel 2010 05 For Private & Personal Use Only 有 काव्यम् ६१ www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy