________________
श्रीपाल-
काव्यम्
मयणामृत
微飄飄飄張靈靈靈跟靈靈靈飄飄飄蒙蒙蒙蒙眾飄飄靈激湯
धवलो मत्सरी धूर्तः कुमारं भद्रकं सदा । कौतुकं पश्य रेऽपूर्व-मेवमाहूतवान्यदा ॥५५८॥ दृष्टं नैतावते स्माभिरब्धौ कल्लोलचञ्चले । स्थिरोऽयं मकरो नूनं गुहायामिव साधकः ॥५५९॥ श्रीपालोऽपि च तद्दृष्टुं मञ्चमायति सोत्सुकः । सानंदकौतुकं पश्यन् स्थिरीभूत इवाम्बुधिः ॥५६०॥ | रज्जुबन्धं ततो मित्रं कुबुद्धिर्नाम दुष्टधीः । छन्नं छिन्नत्ति दृष्ट्वाऽऽखु र्दशी वस्त्रस्य निर्जने ॥५६१॥ | रज्जुछेदस्य संकेतं प्राप्याऽथ मित्रतो द्रुतं । छलेन धवलो याति याने शीघ्रं बिडालवत् ॥५६२॥ | मञ्चादब्धौ पतँश्चित्ते ध्यात-नवपदस्ततः । अतो पपात मीने स महायाने पतङ्गवत् ॥५६३॥ | स्थिरो मकरपृष्ठेऽथ कुमार: कौंकणं तटं । क्षणात्प्राप्तो महासत्त्वो नवपदप्रभावतः ॥५६४॥ | कुत्रापि च वने तत्र चम्पकस्य तरोस्तले । सुप्त्वोत्थाय तदात्मानं वीक्षते वेष्टितं भटैः ॥५६५॥ तैः प्राञ्जलिपुटैर्भटैः विज्ञप्तं श्रुणु हे प्रभो । अस्त्यत्र कोंकणे देशे स्थानाख्ये प्रवरे पुरे ॥५६६॥ वसुपालाभिधो राजा प्रजां पालयति प्रभुः । सादरमद्य सद्यो हि त्वदर्थं प्रेषिता वयम् ॥५६७॥
微微飄飄飄飄飄飄飄飄飄飄飄飄盪盪靈靈靈靈靈飄盪盪器
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org