SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत-18 跟眾望望望望望缓激盪盤靈靈靈靈靈盟盟强强强强强强靈望 जिनधर्मे सदाऽऽरक्ता कलारूप-गुणैर्भूता । श्रृङ्गारभृत् त्रिलोकस्य रत्न-भूषण-विग्रहा ॥७५९॥ सखीभिः पञ्चभि वृता क्रमात्ताः सन्ति नामतः । प्रगुणा-निपुणा-दक्षा-पण्डिता च विचक्षणा ॥७६०॥ तासामग्रेऽथ सा वक्ति संश्रूयतां वरो मम । जिनधर्मस्य मर्मज्ञो भावि नाऽन्योऽस्ति कश्चन ॥७६१॥ | संश्रुत्य तन्मनोभावं तदने पण्डिताऽवदत् । अन्यस्यानुक्तभावस्तु कवित्वेन सुलक्ष्यते ॥७६२॥ • येन मे चित्तगै र्भावैः समस्या पूरयिष्यते । वरिष्यामि मनुष्यं तमिति तया कृतः पणः ॥७६३॥ • भूपेभ्यः पण्डितेभ्योऽपि साऽद्यापि नैव पूर्यते । श्रुत्वैवं महदाश्चर्य चकिता हि सभाजनाः ॥७६४॥ | धराधरैश्च धीरैर्योऽपूर्णः प्रश्नस्तु कीदृशः । विश्वे कौतूहलं नूनमेतद् दृश्यं मयाञ्जसा' ॥७६५॥ | विमृश्य हारमाहात्म्यात् कुमार एत्य तत्पुरम् । पर्षद्यासनमास्थित्य तां समस्यां प्रपृच्छति ॥७६६॥ क कुमारीसंज्ञिता तत्र समस्यां वक्ति पण्डिता । समस्या-पदमाद्यं यद् "मणुवंछिय-फलं होई" ॥७६७॥ १. अञ्जसा = सत्वरम् । 望望露激靈靈靈靈飄飄飄飄飄飄飄飄飄飄强靈靈靈靈靈靈靈器 ___JainEducation inmarad 2010_05 For Private & Personal use only Alww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy